Ṛgveda · Maṇḍala 8 · Sūkta 13

Ṛk 8.13.33

Indra · Nārada Kāṇva

The whole sūkta Link

Saṃhitā

वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रिं॑चि॒त्राभि॑रू॒तिभिः॑ ।
वा॒वंथ॒ हि प्रति॑ष्टुतिं॒ वृषा॒ हवः॑ ॥

वृषा त्वा वृषणं हुवे वज्रिञ् चित्राभिर् ऊतिभिः |
वावन्थ हि प्रतिष्टुतिं वृषा हवः ||

vṛ́ṣā tvā vṛ́ṣaṇam huve vájriñcitrā́bhirūtíbhiḥ ǀ
vāvántha hí prátiṣṭutim vṛ́ṣā hávaḥ ǁ

vṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ |
vāvantha hi pratiṣṭutiṃ vṛṣā havaḥ ||

Padapāṭha

वृषा॑ । त्वा॒ । वृष॑णम् । हु॒वे॒ । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ।
व॒वन्थ॑ । हि । प्रति॑ऽस्तुतिम् । वृषा॑ । हवः॑ ॥

वृषा । त्वा । वृषणम् । हुवे । वज्रिन् । चित्राभिः । ऊतिऽभिः ।
ववन्थ । हि । प्रतिऽस्तुतिम् । वृषा । हवः ॥

vṛ́ṣā ǀ tvā ǀ vṛ́ṣaṇam ǀ huve ǀ vájrin ǀ citrā́bhiḥ ǀ ūtí-bhiḥ ǀ
vavántha ǀ hí ǀ práti-stutim ǀ vṛ́ṣā ǀ hávaḥ ǁ

vṛṣā ǀ tvā ǀ vṛṣaṇam ǀ huve ǀ vajrin ǀ citrābhiḥ ǀ ūti-bhiḥ ǀ
vavantha ǀ hi ǀ prati-stutim ǀ vṛṣā ǀ havaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.013.33
Aṣṭaka · Adhyāya · Varga · Ṛk
6.1.13.03
Maṇḍala · Anuvāka · Ṛk
08.03.033
Devatā देवता
Indra
Ṛṣi ऋषि
Nārada Kāṇva
Chandas छन्दस्
Uṣṇih
Svara स्वरः
ऋषभः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.13.33

Interpretations

Sāyaṇa

हे वज्रिन् वज्रवन्निन्द्र वृषणं वृषाणं वर्षितारं त्वा त्वां वृषा वर्षिता हविषामासेक्ताऽ हं चित्राभिश्चायनीयाभिः नानाविधाभिर्वा ऊतिभिस्तृप्ति- करीभिःस्तुतिभिः हुवे आह्वये । हि यस्मात् त्वं प्रतिष्टुतिं त्वामभिलक्ष्य कृतं स्तोत्रं ववन्थ वनसि संभजसि अतस्त्वदीयोहवआह्वानं वृषा वर्घिता । यद्वा हवोह्वातव्योवृषा वर्षिता त्वां यस्मात् स्तुतिं वनसि तस्मात् त्वां हुवइत्यर्थः ॥ ३३ ॥