Ṛk 8.13.19
Saṃhitā
स्तो॒ता यत्ते॒ अनु॑व्रत उ॒क्थान्यृ॑तु॒था द॒धे ।
शुचिः॑ पाव॒क उ॑च्यते॒ सो अद्भु॑तः ॥
स्तोता यत् ते अनुव्रत उक्थान्य् ऋतुथा दधे |
शुचिः पावक उच्यते सो अद्भुतः ||
stotā́ yátte ánuvrata ukthā́nyṛtuthā́ dadhé ǀ
śúciḥ pāvaká ucyate só ádbhutaḥ ǁ
stotā yat te anuvrata ukthāny ṛtuthā dadhe |
śuciḥ pāvaka ucyate so adbhutaḥ ||
Padapāṭha
स्तो॒ता । यत् । ते॒ । अनु॑ऽव्रतः । उ॒क्थानि॑ । ऋ॒तु॒ऽथा । द॒धे ।
शुचिः॑ । पा॒व॒कः । उ॒च्य॒ते॒ । सः । अद्भु॑तः ॥
स्तोता । यत् । ते । अनुऽव्रतः । उक्थानि । ऋतुऽथा । दधे ।
शुचिः । पावकः । उच्यते । सः । अद्भुतः ॥
stotā́ ǀ yát ǀ te ǀ ánu-vrataḥ ǀ ukthā́ni ǀ ṛtu-thā́ ǀ dadhé ǀ
śúciḥ ǀ pāvakáḥ ǀ ucyate ǀ sáḥ ǀ ádbhutaḥ ǁ
stotā ǀ yat ǀ te ǀ anu-vrataḥ ǀ ukthāni ǀ ṛtu-thā ǀ dadhe ǀ
śuciḥ ǀ pāvakaḥ ǀ ucyate ǀ saḥ ǀ adbhutaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.013.19
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.10.04
- Maṇḍala · Anuvāka · Ṛk
- 08.03.019
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nārada Kāṇva
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.