Ṛgveda · Maṇḍala 8

Sūkta 102

Agni · Prayoga Bhārgava Or Agni Pāvaka Bārhaspatya Or Agni Gṛhapati Sahasaḥ Sūnu And Agni Yaviṣṭha Sahasaḥ Sūnu (Last Two Together Or One Of Them) · 22 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Prayoga Bhārgava Or Agni Pāvaka Bārhaspatya Or Agni Gṛhapati Sahasaḥ Sūnu And Agni Yaviṣṭha Sahasaḥ Sūnu (Last Two Together Or One Of Them)
Chandas छन्दस्
Gāyatrī
Metres by ṛk

1st set of styles nicṛdgāyatrī (1, 3-5, 8, 9, 14, 15, 20-22); gāyatrī (2, 6, 12, 13, 16); virāḍgāyatrī (7, 11, 17, 19); gāyatrī (pādanicṛdgāyatrī) (10, 18)

2nd set of styles gāyatrī

  1. Ṛk 1

    त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे॑ ।
    क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥

    त्वम् अग्ने बृहद् वयो दधासि देव दाशुषे |
    कविर् गृहपतिर् युवा ||

    tvámagne bṛhádváyo dádhāsi deva dāśúṣe ǀ
    kavírgṛhápatiryúvā ǁ

    tvam agne bṛhad vayo dadhāsi deva dāśuṣe |
    kavir gṛhapatir yuvā ||

    त्वम् । अ॒ग्ने॒ । बृ॒हत् । वयः॑ । दधा॑सि । दे॒व॒ । दा॒शुषे॑ ।
    क॒विः । गृ॒हऽप॑तिः । युवा॑ ॥

    त्वम् । अग्ने । बृहत् । वयः । दधासि । देव । दाशुषे ।
    कविः । गृहऽपतिः । युवा ॥

    tvám ǀ agne ǀ bṛhát ǀ váyaḥ ǀ dádhāsi ǀ deva ǀ dāśúṣe ǀ
    kavíḥ ǀ gṛhá-patiḥ ǀ yúvā ǁ

    tvam ǀ agne ǀ bṛhat ǀ vayaḥ ǀ dadhāsi ǀ deva ǀ dāśuṣe ǀ
    kaviḥ ǀ gṛha-patiḥ ǀ yuvā ǁ

    8.102.1 Aṣṭaka 6.7.9.0

  2. Ṛk 2

    स न॒ ईळा॑नया स॒ह दे॒वाँ अ॑ग्ने दुव॒स्युवा॑ ।
    चि॒किद्वि॑भान॒वा व॑ह ॥

    स न ईऌआनया सह देवां अग्ने दुवस्युवा |
    चिकिद् विभानव् आ वह ||

    sá na ī́ḷānayā sahá devā́m̐ agne duvasyúvā ǀ
    cikídvibhānavā́ vaha ǁ

    sa na īḷānayā saha devāṃ agne duvasyuvā |
    cikid vibhānav ā vaha ||

    सः । नः॒ । ईळा॑नया । स॒ह । दे॒वान् । अ॒ग्ने॒ । दु॒व॒स्युवा॑ ।
    चि॒कित् । वि॒भा॒नो॒ इति॑ विऽभानो । आ । व॒ह॒ ॥

    सः । नः । ईळानया । सह । देवान् । अग्ने । दुवस्युवा ।
    चिकित् । विभानो इति विऽभानो । आ । वह ॥

    sáḥ ǀ naḥ ǀ ī́ḷānayā ǀ sahá ǀ devā́n ǀ agne ǀ duvasyúvā ǀ
    cikít ǀ vibhāno íti vi-bhāno ǀ ā́ ǀ vaha ǁ

    saḥ ǀ naḥ ǀ īḷānayā ǀ saha ǀ devān ǀ agne ǀ duvasyuvā ǀ
    cikit ǀ vibhāno iti vi-bhāno ǀ ā ǀ vaha ǁ

    8.102.2 Aṣṭaka 6.7.9.0

  3. Ṛk 3

    त्वया॑ ह स्विद्यु॒जा व॒यं चोदि॑ष्ठेन यविष्ठ्य ।
    अ॒भि ष्मो॒ वाज॑सातये ॥

    त्वया ह स्विद् युजा वयं चोदिष्ठेन यविष्ठ्य |
    अभि ष्मो वाजसातये ||

    tváyā ha svidyujā́ vayám códiṣṭhena yaviṣṭhya ǀ
    abhí ṣmo vā́jasātaye ǁ

    tvayā ha svid yujā vayaṃ codiṣṭhena yaviṣṭhya |
    abhi ṣmo vājasātaye ||

    त्वया॑ । ह॒ । स्वि॒त् । यु॒जा । व॒यम् । चोदि॑ष्ठेन । य॒वि॒ष्ठ्य॒ ।
    अ॒भि । स्मः॒ । वाज॑ऽसातये ॥

    त्वया । ह । स्वित् । युजा । वयम् । चोदिष्ठेन । यविष्ठ्य ।
    अभि । स्मः । वाजऽसातये ॥

    tváyā ǀ ha ǀ svit ǀ yujā́ ǀ vayám ǀ códiṣṭhena ǀ yaviṣṭhya ǀ
    abhí ǀ smaḥ ǀ vā́ja-sātaye ǁ

    tvayā ǀ ha ǀ svit ǀ yujā ǀ vayam ǀ codiṣṭhena ǀ yaviṣṭhya ǀ
    abhi ǀ smaḥ ǀ vāja-sātaye ǁ

    8.102.3 Aṣṭaka 6.7.9.0

  4. Ṛk 4

    औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे ।
    अ॒ग्निं स॑मु॒द्रवा॑ससं ॥

    और्वभृगुवच् छुचिम् अप्नवानवद् आ हुवे |
    अग्निं समुद्रवाससम् ||

    aurvabhṛguvácchúcimapnavānavádā́ huve ǀ
    agním samudrávāsasam ǁ

    aurvabhṛguvac chucim apnavānavad ā huve |
    agniṃ samudravāsasam ||

    औ॒र्व॒भृ॒गु॒ऽवत् । शुचि॑म् । अ॒प्न॒वा॒न॒ऽवत् । आ । हु॒वे॒ ।
    अ॒ग्निम् । स॒मु॒द्रऽवा॑ससम् ॥

    और्वभृगुऽवत् । शुचिम् । अप्नवानऽवत् । आ । हुवे ।
    अग्निम् । समुद्रऽवाससम् ॥

    aurvabhṛgu-vát ǀ śúcim ǀ apnavāna-vát ǀ ā́ ǀ huve ǀ
    agním ǀ samudrá-vāsasam ǁ

    aurvabhṛgu-vat ǀ śucim ǀ apnavāna-vat ǀ ā ǀ huve ǀ
    agnim ǀ samudra-vāsasam ǁ

    8.102.4 Aṣṭaka 6.7.9.0

  5. Ṛk 5

    हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रंद्यं॒ सहः॑ ।
    अ॒ग्निं स॑मु॒द्रवा॑ससं ॥

    हुवे वातस्वनं कविम् पर्जन्यक्रन्द्यं सहः |
    अग्निं समुद्रवाससम् ||

    huvé vā́tasvanam kavím parjányakrandyam sáhaḥ ǀ
    agním samudrávāsasam ǁ

    huve vātasvanaṃ kavim parjanyakrandyaṃ sahaḥ |
    agniṃ samudravāsasam ||

    हु॒वे । वात॑ऽस्वनम् । क॒विम् । प॒र्जन्य॑ऽक्रन्द्यम् । सहः॑ ।
    अ॒ग्निम् । स॒मु॒द्रऽवा॑ससम् ॥

    हुवे । वातऽस्वनम् । कविम् । पर्जन्यऽक्रन्द्यम् । सहः ।
    अग्निम् । समुद्रऽवाससम् ॥

    huvé ǀ vā́ta-svanam ǀ kavím ǀ parjánya-krandyam ǀ sáhaḥ ǀ
    agním ǀ samudrá-vāsasam ǁ

    huve ǀ vāta-svanam ǀ kavim ǀ parjanya-krandyam ǀ sahaḥ ǀ
    agnim ǀ samudra-vāsasam ǁ

    8.102.5 Aṣṭaka 6.7.9.0

  6. Ṛk 6

    आ स॒वं स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिं हु॑वे ।
    अ॒ग्निं स॑मु॒द्रवा॑ससं ॥

    आ सवं सवितुर् यथा भगस्येव भुजिं हुवे |
    अग्निं समुद्रवाससम् ||

    ā́ savám savitúryathā bhágasyeva bhujím huve ǀ
    agním samudrávāsasam ǁ

    ā savaṃ savitur yathā bhagasyeva bhujiṃ huve |
    agniṃ samudravāsasam ||

    आ । स॒वम् । स॒वि॒तुः । य॒था॒ । भग॑स्यऽइव । भु॒जिम् । हु॒वे॒ ।
    अ॒ग्निम् । स॒मु॒द्रऽवा॑ससम् ॥

    आ । सवम् । सवितुः । यथा । भगस्यऽइव । भुजिम् । हुवे ।
    अग्निम् । समुद्रऽवाससम् ॥

    ā́ ǀ savám ǀ savitúḥ ǀ yathā ǀ bhágasya-iva ǀ bhujím ǀ huve ǀ
    agním ǀ samudrá-vāsasam ǁ

    ā ǀ savam ǀ savituḥ ǀ yathā ǀ bhagasya-iva ǀ bhujim ǀ huve ǀ
    agnim ǀ samudra-vāsasam ǁ

    8.102.6 Aṣṭaka 6.7.10.1Anuvāka 8.10.111

  7. Ṛk 7

    अ॒ग्निं वो॑ वृ॒धंत॑मध्व॒राणां॑ पुरू॒तमं॑ ।
    अच्छा॒ नप्त्रे॒ सह॑स्वते ॥

    अग्निं वो वृधन्तम् अध्वराणाम् पुरूतमम् |
    अच्छा नप्त्रे सहस्वते ||

    agním vo vṛdhántamadhvarā́ṇām purūtámam ǀ
    ácchā náptre sáhasvate ǁ

    agniṃ vo vṛdhantam adhvarāṇām purūtamam |
    acchā naptre sahasvate ||

    अ॒ग्निम् । वः॒ । वृ॒धन्त॑म् । अ॒ध्व॒राणा॑म् । पु॒रु॒ऽतम॑म् ।
    अच्छ॑ । नप्त्रे॑ । सह॑स्वते ॥

    अग्निम् । वः । वृधन्तम् । अध्वराणाम् । पुरुऽतमम् ।
    अच्छ । नप्त्रे । सहस्वते ॥

    agním ǀ vaḥ ǀ vṛdhántam ǀ adhvarā́ṇām ǀ puru-támam ǀ
    áccha ǀ náptre ǀ sáhasvate ǁ

    agnim ǀ vaḥ ǀ vṛdhantam ǀ adhvarāṇām ǀ puru-tamam ǀ
    accha ǀ naptre ǀ sahasvate ǁ

    8.102.7 Aṣṭaka 6.7.10.2Anuvāka 8.10.112

  8. Ṛk 8

    अ॒यं यथा॑ न आ॒भुव॒त्त्वष्टा॑ रू॒पेव॒ तक्ष्या॑ ।
    अ॒स्य क्रत्वा॒ यश॑स्वतः ॥

    अयं यथा न आभुवत् त्वष्टा रूपेव तक्ष्या |
    अस्य क्रत्वा यशस्वतः ||

    ayám yáthā na ābhúvattváṣṭā rūpéva tákṣyā ǀ
    asyá krátvā yáśasvataḥ ǁ

    ayaṃ yathā na ābhuvat tvaṣṭā rūpeva takṣyā |
    asya kratvā yaśasvataḥ ||

    अ॒यम् । यथा॑ । नः॒ । आ॒ऽभुव॑त् । त्वष्टा॑ । रू॒पाऽइ॑व । तक्ष्या॑ ।
    अ॒स्य । क्रत्वा॑ । यश॑स्वतः ॥

    अयम् । यथा । नः । आऽभुवत् । त्वष्टा । रूपाऽइव । तक्ष्या ।
    अस्य । क्रत्वा । यशस्वतः ॥

    ayám ǀ yáthā ǀ naḥ ǀ ā-bhúvat ǀ tváṣṭā ǀ rūpā́-iva ǀ tákṣyā ǀ
    asyá ǀ krátvā ǀ yáśasvataḥ ǁ

    ayam ǀ yathā ǀ naḥ ǀ ā-bhuvat ǀ tvaṣṭā ǀ rūpā-iva ǀ takṣyā ǀ
    asya ǀ kratvā ǀ yaśasvataḥ ǁ

    8.102.8 Aṣṭaka 6.7.10.3Anuvāka 8.10.113

  9. Ṛk 9

    अ॒यं विश्वा॑ अ॒भि श्रियो॒ऽग्निर्दे॒वेषु॑ पत्यते ।
    आ वाजै॒रुप॑ नो गमत् ॥

    अयं विश्वा अभि श्रियो ऽग्निर् देवेषु पत्यते |
    आ वाजैर् उप नो गमत् ||

    ayám víśvā abhí śríyo’gnírdevéṣu patyate ǀ
    ā́ vā́jairúpa no gamat ǁ

    ayaṃ viśvā abhi śriyo 'gnir deveṣu patyate |
    ā vājair upa no gamat ||

    अ॒यम् । विश्वाः॑ । अ॒भि । श्रियः॑ । अ॒ग्निः । दे॒वेषु॑ । प॒त्य॒ते॒ ।
    आ । वाजैः॑ । उप॑ । नः॒ । ग॒म॒त् ॥

    अयम् । विश्वाः । अभि । श्रियः । अग्निः । देवेषु । पत्यते ।
    आ । वाजैः । उप । नः । गमत् ॥

    ayám ǀ víśvāḥ ǀ abhí ǀ śríyaḥ ǀ agníḥ ǀ devéṣu ǀ patyate ǀ
    ā́ ǀ vā́jaiḥ ǀ úpa ǀ naḥ ǀ gamat ǁ

    ayam ǀ viśvāḥ ǀ abhi ǀ śriyaḥ ǀ agniḥ ǀ deveṣu ǀ patyate ǀ
    ā ǀ vājaiḥ ǀ upa ǀ naḥ ǀ gamat ǁ

    8.102.9 Aṣṭaka 6.7.10.4Anuvāka 8.10.114

  10. Ṛk 10

    विश्वे॑षामि॒ह स्तु॑हि॒ होतॄ॑णां य॒शस्त॑मं ।
    अ॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं ॥

    विश्वेषाम् इह स्तुहि होतॄणां यशस्तमम् |
    अग्निं यज्ञेषु पूर्व्यम् ||

    víśveṣāmihá stuhi hótṝṇām yaśástamam ǀ
    agním yajñéṣu pūrvyám ǁ

    viśveṣām iha stuhi hotṝṇāṃ yaśastamam |
    agniṃ yajñeṣu pūrvyam ||

    विश्वे॑षाम् । इ॒ह । स्तु॒हि॒ । होतॄ॑णाम् । य॒शःऽत॑मम् ।
    अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥

    विश्वेषाम् । इह । स्तुहि । होतॄणाम् । यशःऽतमम् ।
    अग्निम् । यज्ञेषु । पूर्व्यम् ॥

    víśveṣām ǀ ihá ǀ stuhi ǀ hótṝṇām ǀ yaśáḥ-tamam ǀ
    agním ǀ yajñéṣu ǀ pūrvyám ǁ

    viśveṣām ǀ iha ǀ stuhi ǀ hotṝṇām ǀ yaśaḥ-tamam ǀ
    agnim ǀ yajñeṣu ǀ pūrvyam ǁ

    8.102.10 Aṣṭaka 6.7.10.5Anuvāka 8.10.115

  11. Ṛk 11

    शी॒रं पा॑व॒कशो॑चिषं॒ ज्येष्ठो॒ यो दमे॒ष्वा ।
    दी॒दाय॑ दीर्घ॒श्रुत्त॑मः ॥

    शीरम् पावकशोचिषं ज्येष्ठो यो दमेष्व् आ |
    दीदाय दीर्घश्रुत्तमः ||

    śīrám pāvakáśociṣam jyéṣṭho yó dámeṣvā́ ǀ
    dīdā́ya dīrghaśrúttamaḥ ǁ

    śīram pāvakaśociṣaṃ jyeṣṭho yo dameṣv ā |
    dīdāya dīrghaśruttamaḥ ||

    शी॒रम् । पा॒व॒कऽशो॑चिषम् । ज्येष्ठः॑ । यः । दमे॑षु । आ ।
    दी॒दाय॑ । दी॒र्घ॒श्रुत्ऽत॑मः ॥

    शीरम् । पावकऽशोचिषम् । ज्येष्ठः । यः । दमेषु । आ ।
    दीदाय । दीर्घश्रुत्ऽतमः ॥

    śīrám ǀ pāvaká-śociṣam ǀ jyéṣṭhaḥ ǀ yáḥ ǀ dámeṣu ǀ ā́ ǀ
    dīdā́ya ǀ dīrghaśrút-tamaḥ ǁ

    śīram ǀ pāvaka-śociṣam ǀ jyeṣṭhaḥ ǀ yaḥ ǀ dameṣu ǀ ā ǀ
    dīdāya ǀ dīrghaśrut-tamaḥ ǁ

    8.102.11 Aṣṭaka 6.7.11.1Anuvāka 8.10.116

  12. Ṛk 12

    तमर्वं॑तं॒ न सा॑न॒सिं गृ॑णी॒हि वि॑प्र शु॒ष्मिणं॑ ।
    मि॒त्रं न या॑त॒यज्ज॑नं ॥

    तम् अर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम् |
    मित्रं न यातयज्जनम् ||

    támárvantam ná sānasím gṛṇīhí vipra śuṣmíṇam ǀ
    mitrám ná yātayájjanam ǁ

    tam arvantaṃ na sānasiṃ gṛṇīhi vipra śuṣmiṇam |
    mitraṃ na yātayajjanam ||

    तम् । अर्व॑न्तम् । न । सा॒न॒सिम् । गृ॒णी॒हि । वि॒प्र॒ । शु॒ष्मिण॑म् ।
    मि॒त्रम् । न । या॒त॒यत्ऽज॑नम् ॥

    तम् । अर्वन्तम् । न । सानसिम् । गृणीहि । विप्र । शुष्मिणम् ।
    मित्रम् । न । यातयत्ऽजनम् ॥

    tám ǀ árvantam ǀ ná ǀ sānasím ǀ gṛṇīhí ǀ vipra ǀ śuṣmíṇam ǀ
    mitrám ǀ ná ǀ yātayát-janam ǁ

    tam ǀ arvantam ǀ na ǀ sānasim ǀ gṛṇīhi ǀ vipra ǀ śuṣmiṇam ǀ
    mitram ǀ na ǀ yātayat-janam ǁ

    8.102.12 Aṣṭaka 6.7.11.2Anuvāka 8.10.117

  13. Ṛk 13

    उप॑ त्वा जा॒मयो॒ गिरो॒ देदि॑शतीर्हवि॒ष्कृतः॑ ।
    वा॒योरनी॑के अस्थिरन् ॥

    उप त्वा जामयो गिरो देदिशतीर् हविष्कृतः |
    वायोर् अनीके अस्थिरन् ||

    úpa tvā jāmáyo gíro dédiśatīrhaviṣkṛ́taḥ ǀ
    vāyóránīke asthiran ǁ

    upa tvā jāmayo giro dediśatīr haviṣkṛtaḥ |
    vāyor anīke asthiran ||

    उप॑ । त्वा॒ । जा॒मयः॑ । गिरः॑ । देदि॑शतीः । ह॒विः॒ऽकृतः॑ ।
    वा॒योः । अनी॑के । अ॒स्थि॒र॒न् ॥

    उप । त्वा । जामयः । गिरः । देदिशतीः । हविःऽकृतः ।
    वायोः । अनीके । अस्थिरन् ॥

    úpa ǀ tvā ǀ jāmáyaḥ ǀ gíraḥ ǀ dédiśatīḥ ǀ haviḥ-kṛ́taḥ ǀ
    vāyóḥ ǀ ánīke ǀ asthiran ǁ

    upa ǀ tvā ǀ jāmayaḥ ǀ giraḥ ǀ dediśatīḥ ǀ haviḥ-kṛtaḥ ǀ
    vāyoḥ ǀ anīke ǀ asthiran ǁ

    8.102.13 Aṣṭaka 6.7.11.3Anuvāka 8.10.118

  14. Ṛk 14

    यस्य॑ त्रि॒धात्ववृ॑तं ब॒र्हिस्त॒स्थावसं॑दिनं ।
    आप॑श्चि॒न्नि द॑धा प॒दं ॥

    यस्य त्रिधात्व् अवृतम् बर्हिस् तस्थाव् असंदिनम् |
    आपश् चिन् नि दधा पदम् ||

    yásya tridhā́tvávṛtam barhístasthā́vásaṃdinam ǀ
    ā́paścinní dadhā padám ǁ

    yasya tridhātv avṛtam barhis tasthāv asaṃdinam |
    āpaś cin ni dadhā padam ||

    यस्य॑ । त्रि॒ऽधातु॑ । अवृ॑तम् । ब॒र्हिः । त॒स्थौ । अस॑म्ऽदिनम् ।
    आपः॑ । चि॒त् । नि । द॒ध॒ । प॒दम् ॥

    यस्य । त्रिऽधातु । अवृतम् । बर्हिः । तस्थौ । असम्ऽदिनम् ।
    आपः । चित् । नि । दध । पदम् ॥

    yásya ǀ tri-dhā́tu ǀ ávṛtam ǀ barhíḥ ǀ tastháu ǀ ásam-dinam ǀ
    ā́paḥ ǀ cit ǀ ní ǀ dadha ǀ padám ǁ

    yasya ǀ tri-dhātu ǀ avṛtam ǀ barhiḥ ǀ tasthau ǀ asam-dinam ǀ
    āpaḥ ǀ cit ǀ ni ǀ dadha ǀ padam ǁ

    8.102.14 Aṣṭaka 6.7.11.4Anuvāka 8.10.119

  15. Ṛk 15

    प॒दं दे॒वस्य॑ मी॒ळ्हुषोऽना॑धृष्टाभिरू॒तिभिः॑ ।
    भ॒द्रा सूर्य॑ इवोप॒दृक् ॥

    पदं देवस्य मीऌहुषो ऽनाधृष्टाभिर् ऊतिभिः |
    भद्रा सूर्य इवोपदृक् ||

    padám devásya mīḷhúṣó’nādhṛṣṭābhirūtíbhiḥ ǀ
    bhadrā́ sū́rya ivopadṛ́k ǁ

    padaṃ devasya mīḷhuṣo 'nādhṛṣṭābhir ūtibhiḥ |
    bhadrā sūrya ivopadṛk ||

    प॒दम् । दे॒वस्य॑ । मी॒ळ्हुषः॑ । अना॑धृष्टाभिः । ऊ॒तिऽभिः॑ ।
    भ॒द्रा । सूर्यः॑ऽइव । उ॒प॒ऽदृक् ॥

    पदम् । देवस्य । मीळ्हुषः । अनाधृष्टाभिः । ऊतिऽभिः ।
    भद्रा । सूर्यःऽइव । उपऽदृक् ॥

    padám ǀ devásya ǀ mīḷhúṣaḥ ǀ ánādhṛṣṭābhiḥ ǀ ūtí-bhiḥ ǀ
    bhadrā́ ǀ sū́ryaḥ-iva ǀ upa-dṛ́k ǁ

    padam ǀ devasya ǀ mīḷhuṣaḥ ǀ anādhṛṣṭābhiḥ ǀ ūti-bhiḥ ǀ
    bhadrā ǀ sūryaḥ-iva ǀ upa-dṛk ǁ

    8.102.15 Aṣṭaka 6.7.11.5Anuvāka 8.10.120

  16. Ṛk 16

    अग्ने॑ घृ॒तस्य॑ धी॒तिभि॑स्तेपा॒नो दे॑व शो॒चिषा॑ ।
    आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥

    अग्ने घृतस्य धीतिभिस् तेपानो देव शोचिषा |
    आ देवान् वक्षि यक्षि च ||

    ágne ghṛtásya dhītíbhistepānó deva śocíṣā ǀ
    ā́ devā́nvakṣi yákṣi ca ǁ

    agne ghṛtasya dhītibhis tepāno deva śociṣā |
    ā devān vakṣi yakṣi ca ||

    अग्ने॑ । घृ॒तस्य॑ । धी॒तिऽभिः॑ । ते॒पा॒नः । दे॒व॒ । शो॒चिषा॑ ।
    आ । दे॒वान् । व॒क्षि॒ । यक्षि॑ । च॒ ॥

    अग्ने । घृतस्य । धीतिऽभिः । तेपानः । देव । शोचिषा ।
    आ । देवान् । वक्षि । यक्षि । च ॥

    ágne ǀ ghṛtásya ǀ dhītí-bhiḥ ǀ tepānáḥ ǀ deva ǀ śocíṣā ǀ
    ā́ ǀ devā́n ǀ vakṣi ǀ yákṣi ǀ ca ǁ

    agne ǀ ghṛtasya ǀ dhīti-bhiḥ ǀ tepānaḥ ǀ deva ǀ śociṣā ǀ
    ā ǀ devān ǀ vakṣi ǀ yakṣi ǀ ca ǁ

    8.102.16 Aṣṭaka 6.7.12.1Anuvāka 8.10.121

  17. Ṛk 17

    तं त्वा॑जनंत मा॒तरः॑ क॒विं दे॒वासो॑ अंगिरः ।
    ह॒व्य॒वाह॒मम॑र्त्यं ॥

    तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः |
    हव्यवाहम् अमर्त्यम् ||

    tám tvājananta mātáraḥ kavím devā́so aṅgiraḥ ǀ
    havyavā́hamámartyam ǁ

    taṃ tvājananta mātaraḥ kaviṃ devāso aṅgiraḥ |
    havyavāham amartyam ||

    तम् । त्वा॒ । अ॒ज॒न॒न्त॒ । मा॒तरः॑ । क॒विम् । दे॒वासः॑ । अ॒ङ्गि॒रः॒ ।
    ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् ॥

    तम् । त्वा । अजनन्त । मातरः । कविम् । देवासः । अङ्गिरः ।
    हव्यऽवाहम् । अमर्त्यम् ॥

    tám ǀ tvā ǀ ajananta ǀ mātáraḥ ǀ kavím ǀ devā́saḥ ǀ aṅgiraḥ ǀ
    havya-vā́ham ǀ ámartyam ǁ

    tam ǀ tvā ǀ ajananta ǀ mātaraḥ ǀ kavim ǀ devāsaḥ ǀ aṅgiraḥ ǀ
    havya-vāham ǀ amartyam ǁ

    8.102.17 Aṣṭaka 6.7.12.2Anuvāka 8.10.122

  18. Ṛk 18

    प्रचे॑तसं त्वा क॒वेऽग्ने॑ दू॒तं वरे॑ण्यं ।
    ह॒व्य॒वाहं॒ नि षे॑दिरे ॥

    प्रचेतसं त्वा कवे ऽग्ने दूतं वरेण्यम् |
    हव्यवाहं नि षेदिरे ||

    prácetasam tvā kavé’gne dūtám váreṇyam ǀ
    havyavā́ham ní ṣedire ǁ

    pracetasaṃ tvā kave 'gne dūtaṃ vareṇyam |
    havyavāhaṃ ni ṣedire ||

    प्रऽचे॑तसम् । त्वा॒ । क॒वे॒ । अग्ने॑ । दू॒तम् । वरे॑ण्यम् ।
    ह॒व्य॒ऽवाह॑म् । नि । से॒दि॒रे॒ ॥

    प्रऽचेतसम् । त्वा । कवे । अग्ने । दूतम् । वरेण्यम् ।
    हव्यऽवाहम् । नि । सेदिरे ॥

    prá-cetasam ǀ tvā ǀ kave ǀ ágne ǀ dūtám ǀ váreṇyam ǀ
    havya-vā́ham ǀ ní ǀ sedire ǁ

    pra-cetasam ǀ tvā ǀ kave ǀ agne ǀ dūtam ǀ vareṇyam ǀ
    havya-vāham ǀ ni ǀ sedire ǁ

    8.102.18 Aṣṭaka 6.7.12.3Anuvāka 8.10.123

  19. Ṛk 19

    न॒हि मे॒ अस्त्यघ्न्या॒ न स्वधि॑ति॒र्वन॑न्वति ।
    अथै॑ता॒दृग्भ॑रामि ते ॥

    नहि मे अस्त्य् अघ्न्या न स्वधितिर् वनन्वति |
    अथैतादृग् भरामि ते ||

    nahí me ástyághnyā ná svádhitirvánanvati ǀ
    áthaitādṛ́gbharāmi te ǁ

    nahi me asty aghnyā na svadhitir vananvati |
    athaitādṛg bharāmi te ||

    न॒हि । मे॒ । अस्ति॑ । अघ्न्या॑ । न । स्वऽधि॑तिः । वन॑न्ऽवति ।
    अथ॑ । ए॒ता॒दृक् । भ॒रा॒मि॒ । ते॒ ॥

    नहि । मे । अस्ति । अघ्न्या । न । स्वऽधितिः । वनन्ऽवति ।
    अथ । एतादृक् । भरामि । ते ॥

    nahí ǀ me ǀ ásti ǀ ághnyā ǀ ná ǀ svá-dhitiḥ ǀ vánan-vati ǀ
    átha ǀ etādṛ́k ǀ bharāmi ǀ te ǁ

    nahi ǀ me ǀ asti ǀ aghnyā ǀ na ǀ sva-dhitiḥ ǀ vanan-vati ǀ
    atha ǀ etādṛk ǀ bharāmi ǀ te ǁ

    8.102.19 Aṣṭaka 6.7.12.4Anuvāka 8.10.124

  20. Ṛk 20

    यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ ।
    ता जु॑षस्व यविष्ठ्य ॥

    यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि |
    ता जुषस्व यविष्ठ्य ||

    yádagne kā́ni kā́ni cidā́ te dā́rūṇi dadhmási ǀ
    tā́ juṣasva yaviṣṭhya ǁ

    yad agne kāni kāni cid ā te dārūṇi dadhmasi |
    tā juṣasva yaviṣṭhya ||

    यत् । अ॒ग्ने॒ । कानि॑ । कानि॑ । चि॒त् । आ । ते॒ । दारू॑णि । द॒ध्मसि॑ ।
    ता । जु॒ष॒स्व॒ । य॒वि॒ष्ठ्य॒ ॥

    यत् । अग्ने । कानि । कानि । चित् । आ । ते । दारूणि । दध्मसि ।
    ता । जुषस्व । यविष्ठ्य ॥

    yát ǀ agne ǀ kā́ni ǀ kā́ni ǀ cit ǀ ā́ ǀ te ǀ dā́rūṇi ǀ dadhmási ǀ
    tā́ ǀ juṣasva ǀ yaviṣṭhya ǁ

    yat ǀ agne ǀ kāni ǀ kāni ǀ cit ǀ ā ǀ te ǀ dārūṇi ǀ dadhmasi ǀ
    tā ǀ juṣasva ǀ yaviṣṭhya ǁ

    8.102.20 Aṣṭaka 6.7.12.5Anuvāka 8.10.125

  21. Ṛk 21

    यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति ।
    सर्वं॒ तद॑स्तु ते घृ॒तं ॥

    यद् अत्त्य् उपजिह्विका यद् वम्रो अतिसर्पति |
    सर्वं तद् अस्तु ते घृतम् ||

    yádáttyupajíhvikā yádvamró atisárpati ǀ
    sárvam tádastu te ghṛtám ǁ

    yad atty upajihvikā yad vamro atisarpati |
    sarvaṃ tad astu te ghṛtam ||

    यत् । अत्ति॑ । उ॒प॒ऽजिह्वि॑का । यत् । व॒म्रः । अ॒ति॒ऽसर्प॑ति ।
    सर्व॑म् । तत् । अ॒स्तु॒ । ते॒ । घृ॒तम् ॥

    यत् । अत्ति । उपऽजिह्विका । यत् । वम्रः । अतिऽसर्पति ।
    सर्वम् । तत् । अस्तु । ते । घृतम् ॥

    yát ǀ átti ǀ upa-jíhvikā ǀ yát ǀ vamráḥ ǀ ati-sárpati ǀ
    sárvam ǀ tát ǀ astu ǀ te ǀ ghṛtám ǁ

    yat ǀ atti ǀ upa-jihvikā ǀ yat ǀ vamraḥ ǀ ati-sarpati ǀ
    sarvam ǀ tat ǀ astu ǀ te ǀ ghṛtam ǁ

    8.102.21 Aṣṭaka 6.7.12.6Anuvāka 8.10.126

  22. Ṛk 22

    अ॒ग्निमिंधा॑नो॒ मन॑सा॒ धियं॑ सचेत॒ मर्त्यः॑ ।
    अ॒ग्निमी॑धे वि॒वस्व॑भिः ॥

    अग्निम् इन्धानो मनसा धियं सचेत मर्त्यः |
    अग्निम् ईधे विवस्वभिः ||

    agnímíndhāno mánasā dhíyam saceta mártyaḥ ǀ
    agnímīdhe vivásvabhiḥ ǁ

    agnim indhāno manasā dhiyaṃ saceta martyaḥ |
    agnim īdhe vivasvabhiḥ ||

    अ॒ग्निम् । इन्धा॑नः । मन॑सा । धिय॑म् । स॒चे॒त॒ । मर्त्यः॑ ।
    अ॒ग्निम् । ई॒धे॒ । वि॒वस्व॑ऽभिः ॥

    अग्निम् । इन्धानः । मनसा । धियम् । सचेत । मर्त्यः ।
    अग्निम् । ईधे । विवस्वऽभिः ॥

    agním ǀ índhānaḥ ǀ mánasā ǀ dhíyam ǀ saceta ǀ mártyaḥ ǀ
    agním ǀ īdhe ǀ vivásva-bhiḥ ǁ

    agnim ǀ indhānaḥ ǀ manasā ǀ dhiyam ǀ saceta ǀ martyaḥ ǀ
    agnim ǀ īdhe ǀ vivasva-bhiḥ ǁ

    8.102.22 Aṣṭaka 6.7.12.7Anuvāka 8.10.127

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.102 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

Thou, O divine Fire, foundest a vast expansion for the giver, thou art the seer, the youth, the master of the house. (380)

Ṛk 2

Do thou, O Fire of the wide light, who art awake to knowledge, go with our word of prayer and of works and call the gods. (380)

Ṛk 3

With thee indeed as an ally, most strong in thy urge, we overcome for the conquest of the plenitude. (380)

Ṛk 4

Even as the Flame-Seer, Son of the Wideness, even as the Doer of Works I invoke the pure ocean-dwelling Fire. (381)

Ṛk 5

I call the force which has the sound of the wind and the cry of the rain, the ocean-dwelling Fire. (381)

Ṛk 6

I call like the creation of the Creator-Sun, like the delight of the Lord of Delight, the ocean-dwelling Fire. (381)

Ṛk 7

For the forceful offspring of the pilgrim-sacrifices towards Fire as he grows in his multitudes,— (381)

Ṛk 8

So that he may come to be with us like the Form-Maker coming to the forms he has to carve, us made glorious by his will at work. (381)

Ṛk 9

This Fire travels in the gods towards all glories; may he come to us with the plenitudes. (381)

Ṛk 10

Laud here the most glorious of priests of the call, the supreme30 Fire in the sacrifices. 382)

Ṛk 11

The intense Fire with its purifying light who dwells eldest in our homes, shines out as one who hears from afar. (382)

Ṛk 12

Declare him, O illumined sage, as the powerful and conquering war-horse, as the friend who takes man to the goal of his journey. (382)

Ṛk 13

Towards thee come the words of the giver of the offerings marking thee out and stand firm as companions in the might of the wind. (382)

Ṛk 14

Thou whose triple seat of sacrifice is untied and unconfined and the waters also have established thy abode,—(382)

Ṛk 15

The abode of the bounteous godhead with its inviolate safeties, like a happy regard of the Sun. (382)

Ṛk 16

O divine Fire, by our thinkings of the light, burning with thy flame, bring to us the gods and do them sacrifice. (383)

Ṛk 17

The mothers bore thee, the gods brought thee to birth as the seer, the immortal, the carrier of offering, O Angiras. (383)

Ṛk 18

O Fire, O seer, they set thee within as the thinker, the desirable messenger, carrier of the offerings. (383)

Ṛk 19

Mine is not the cow unslayable, I have no axe at hand, so I bring to thee this little that I have. (383)

Ṛk 20

What we place for thee, a few chance logs, them accept, O ever-young Fire. (383)

Ṛk 21

What is eaten by the ant, what the white ant overruns, let all that be to thee as if thy food of light.31 (383)

Ṛk 22

Kindling the Fire let mortal man cleave with his mind to the Thought; by things luminous32 I kindle the Fire. (384)