Sūkta 26
- Devatā देवता
- 1-19: Aśvins; 20-25: Vāyu
- Ṛṣi ऋषि
- Viśvamanas Vaiyaśva Or Vyaśva Āṅgirasa
- Chandas छन्दस्
- Uṣṇih, Gāyatrī, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛduṣṇik (5, 9-15, 22); uṣṇik (1, 3, 4, 6, 7); virāḍuṣnik (2, 8, 23); nicṛdgāyatrī (17, 18, 21); virāḍgāyatrī (16, 19); virāḍanuṣṭup (20); pādanicṛduṣṇik (24); gāyatrī (25)
2nd set of styles uṣṇih (1-15, 22-24); gāyatrī (16-19, 21, 25); anuṣṭubh (20)
-
Ṛk 1
यु॒वोरु॒ षू रथं॑ हुवे स॒धस्तु॑त्याय सू॒रिषु॑ ।
अतू॑र्तदक्षा वृषणा वृषण्वसू ॥युवोर् उ षू रथं हुवे सधस्तुत्याय सूरिषु |
अतूर्तदक्षा वृषणा वृषण्वसू ||yuvóru ṣū́ rátham huve sadhástutyāya sūríṣu ǀ
átūrtadakṣā vṛṣaṇā vṛṣaṇvasū ǁyuvor u ṣū rathaṃ huve sadhastutyāya sūriṣu |
atūrtadakṣā vṛṣaṇā vṛṣaṇvasū ||यु॒वोः । ऊं॒ इति॑ । सु । रथ॑म् । हु॒वे॒ । स॒धऽस्तु॑त्याय । सू॒रिषु॑ ।
अतू॑र्तऽदक्षा । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥युवोः । ऊं इति । सु । रथम् । हुवे । सधऽस्तुत्याय । सूरिषु ।
अतूर्तऽदक्षा । वृषणा । वृषण्वसू इति वृषण्ऽवसू ॥yuvóḥ ǀ ūṃ íti ǀ sú ǀ rátham ǀ huve ǀ sadhá-stutyāya ǀ sūríṣu ǀ
átūrta-dakṣā ǀ vṛṣaṇā ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǁyuvoḥ ǀ ūṃ iti ǀ su ǀ ratham ǀ huve ǀ sadha-stutyāya ǀ sūriṣu ǀ
atūrta-dakṣā ǀ vṛṣaṇā ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǁ8.26.1 Aṣṭaka 6.2.26.1Anuvāka 8.4.121
-
Ṛk 2
यु॒वं व॑रो सु॒षाम्णे॑ म॒हे तने॑ नासत्या ।
अवो॑भिर्याथो वृषणा वृषण्वसू ॥युवं वरो सुषाम्णे महे तने नासत्या |
अवोभिर् याथो वृषणा वृषण्वसू ||yuvám varo suṣā́mṇe mahé táne nāsatyā ǀ
ávobhiryātho vṛṣaṇā vṛṣaṇvasū ǁyuvaṃ varo suṣāmṇe mahe tane nāsatyā |
avobhir yātho vṛṣaṇā vṛṣaṇvasū ||यु॒वम् । व॒रो॒ इति॑ । सु॒ऽसाम्ने॑ । म॒हे । तने॑ । ना॒स॒त्या॒ ।
अवः॑ऽभिः । या॒थः॒ । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥युवम् । वरो इति । सुऽसाम्ने । महे । तने । नासत्या ।
अवःऽभिः । याथः । वृषणा । वृषण्वसू इति वृषण्ऽवसू ॥yuvám ǀ varo íti ǀ su-sā́mne ǀ mahé ǀ táne ǀ nāsatyā ǀ
ávaḥ-bhiḥ ǀ yāthaḥ ǀ vṛṣaṇā ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǁyuvam ǀ varo iti ǀ su-sāmne ǀ mahe ǀ tane ǀ nāsatyā ǀ
avaḥ-bhiḥ ǀ yāthaḥ ǀ vṛṣaṇā ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǁ8.26.2 Aṣṭaka 6.2.26.2Anuvāka 8.4.122
-
Ṛk 3
ता वा॑म॒द्य ह॑वामहे ह॒व्येभि॑र्वाजिनीवसू ।
पू॒र्वीरि॒ष इ॒षयं॑ता॒वति॑ क्ष॒पः ॥ता वाम् अद्य हवामहे हव्येभिर् वाजिनीवसू |
पूर्वीर् इष इषयन्ताव् अति क्षपः ||tā́ vāmadyá havāmahe havyébhirvājinīvasū ǀ
pūrvī́riṣá iṣáyantāváti kṣapáḥ ǁtā vām adya havāmahe havyebhir vājinīvasū |
pūrvīr iṣa iṣayantāv ati kṣapaḥ ||ता । वा॒म् । अ॒द्य । ह॒वा॒म॒हे॒ । ह॒व्येभिः॑ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
पू॒र्वीः । इ॒षः । इ॒षय॑न्तौ । अति॑ । क्ष॒पः ॥ता । वाम् । अद्य । हवामहे । हव्येभिः । वाजिनीवसू इति वाजिनीऽवसू ।
पूर्वीः । इषः । इषयन्तौ । अति । क्षपः ॥tā́ ǀ vām ǀ adyá ǀ havāmahe ǀ havyébhiḥ ǀ vājinīvasū íti vājinī-vasū ǀ
pūrvī́ḥ ǀ iṣáḥ ǀ iṣáyantau ǀ áti ǀ kṣapáḥ ǁtā ǀ vām ǀ adya ǀ havāmahe ǀ havyebhiḥ ǀ vājinīvasū iti vājinī-vasū ǀ
pūrvīḥ ǀ iṣaḥ ǀ iṣayantau ǀ ati ǀ kṣapaḥ ǁ8.26.3 Aṣṭaka 6.2.26.3Anuvāka 8.4.123
-
Ṛk 4
आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु श्रु॒तो न॑रा ।
उप॒ स्तोमां॑तु॒रस्य॑ दर्शथः श्रि॒ये ॥आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा |
उप स्तोमान् तुरस्य दर्शथः श्रिये ||ā́ vām vā́hiṣṭho aśvinā rátho yātu śrutó narā ǀ
úpa stómānturásya darśathaḥ śriyé ǁā vāṃ vāhiṣṭho aśvinā ratho yātu śruto narā |
upa stomān turasya darśathaḥ śriye ||आ । वा॒म् । वाहि॑ष्ठः । अ॒श्वि॒ना॒ । रथः॑ । या॒तु॒ । श्रु॒तः । न॒रा॒ ।
उप॑ । स्तोमा॑न् । तु॒रस्य॑ । द॒र्श॒थः॒ । श्रि॒ये ॥आ । वाम् । वाहिष्ठः । अश्विना । रथः । यातु । श्रुतः । नरा ।
उप । स्तोमान् । तुरस्य । दर्शथः । श्रिये ॥ā́ ǀ vām ǀ vā́hiṣṭhaḥ ǀ aśvinā ǀ ráthaḥ ǀ yātu ǀ śrutáḥ ǀ narā ǀ
úpa ǀ stómān ǀ turásya ǀ darśathaḥ ǀ śriyé ǁā ǀ vām ǀ vāhiṣṭhaḥ ǀ aśvinā ǀ rathaḥ ǀ yātu ǀ śrutaḥ ǀ narā ǀ
upa ǀ stomān ǀ turasya ǀ darśathaḥ ǀ śriye ǁ8.26.4 Aṣṭaka 6.2.26.4Anuvāka 8.4.124
-
Ṛk 5
जु॒हु॒रा॒णा चि॑दश्वि॒ना म॑न्येथां वृषण्वसू ।
यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒ अति॒ द्विषः॑ ॥जुहुराणा चिद् अश्विना मन्येथां वृषण्वसू |
युवं हि रुद्रा पर्षथो अति द्विषः ||juhurāṇā́ cidaśvinā́ manyethām vṛṣaṇvasū ǀ
yuvám hí rudrā párṣatho áti dvíṣaḥ ǁjuhurāṇā cid aśvinā manyethāṃ vṛṣaṇvasū |
yuvaṃ hi rudrā parṣatho ati dviṣaḥ ||जु॒हु॒रा॒णा । चि॒त् । अ॒श्वि॒ना॒ । आ । म॒न्ये॒था॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।
यु॒वम् । हि । रु॒द्रा॒ । पर्ष॑थः । अति॑ । द्विषः॑ ॥जुहुराणा । चित् । अश्विना । आ । मन्येथाम् । वृषण्वसू इति वृषण्ऽवसू ।
युवम् । हि । रुद्रा । पर्षथः । अति । द्विषः ॥juhurāṇā́ ǀ cit ǀ aśvinā ǀ ā́ ǀ manyethām ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ
yuvám ǀ hí ǀ rudrā ǀ párṣathaḥ ǀ áti ǀ dvíṣaḥ ǁjuhurāṇā ǀ cit ǀ aśvinā ǀ ā ǀ manyethām ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ
yuvam ǀ hi ǀ rudrā ǀ parṣathaḥ ǀ ati ǀ dviṣaḥ ǁ8.26.5 Aṣṭaka 6.2.26.5Anuvāka 8.4.125
-
Ṛk 6
द॒स्रा हि विश्व॑मानु॒षङ्म॒क्षूभिः॑ परि॒दीय॑थः ।
धि॒यं॒जि॒न्वा मधु॑वर्णा शु॒भस्पती॑ ॥दस्रा हि विश्वम् आनुषङ् मक्षूभिः परिदीयथः |
धियञ्जिन्वा मधुवर्णा शुभस् पती ||dasrā́ hí víśvamānuṣáṅmakṣū́bhiḥ paridī́yathaḥ ǀ
dhiyaṃjinvā́ mádhuvarṇā śubháspátī ǁdasrā hi viśvam ānuṣaṅ makṣūbhiḥ paridīyathaḥ |
dhiyañjinvā madhuvarṇā śubhas patī ||द॒स्रा । हि । विश्व॑म् । आ॒नु॒षक् । म॒क्षुऽभिः॑ । प॒रि॒ऽदीय॑थः ।
धि॒य॒म्ऽजि॒न्वा । मधु॑ऽवर्णा । शु॒भः । पती॒ इति॑ ॥दस्रा । हि । विश्वम् । आनुषक् । मक्षुऽभिः । परिऽदीयथः ।
धियम्ऽजिन्वा । मधुऽवर्णा । शुभः । पती इति ॥dasrā́ ǀ hí ǀ víśvam ǀ ānuṣák ǀ makṣú-bhiḥ ǀ pari-dī́yathaḥ ǀ
dhiyam-jinvā́ ǀ mádhu-varṇā ǀ śubháḥ ǀ pátī íti ǁdasrā ǀ hi ǀ viśvam ǀ ānuṣak ǀ makṣu-bhiḥ ǀ pari-dīyathaḥ ǀ
dhiyam-jinvā ǀ madhu-varṇā ǀ śubhaḥ ǀ patī iti ǁ8.26.6 Aṣṭaka 6.2.27.1Anuvāka 8.4.126
-
Ṛk 7
उप॑ नो यातमश्विना रा॒या वि॑श्व॒पुषा॑ स॒ह ।
म॒घवा॑ना सु॒वीरा॒वन॑पच्युता ॥उप नो यातम् अश्विना राया विश्वपुषा सह |
मघवाना सुवीराव् अनपच्युता ||úpa no yātamaśvinā rāyā́ viśvapúṣā sahá ǀ
maghávānā suvī́rāvánapacyutā ǁupa no yātam aśvinā rāyā viśvapuṣā saha |
maghavānā suvīrāv anapacyutā ||उप॑ । नः॒ । या॒त॒म् । अ॒श्वि॒ना॒ । रा॒या । वि॒श्व॒ऽपुषा॑ । स॒ह ।
म॒घऽवा॑ना । सु॒ऽवीरौ॑ । अन॑पऽच्युता ॥उप । नः । यातम् । अश्विना । राया । विश्वऽपुषा । सह ।
मघऽवाना । सुऽवीरौ । अनपऽच्युता ॥úpa ǀ naḥ ǀ yātam ǀ aśvinā ǀ rāyā́ ǀ viśva-púṣā ǀ sahá ǀ
maghá-vānā ǀ su-vī́rau ǀ ánapa-cyutā ǁupa ǀ naḥ ǀ yātam ǀ aśvinā ǀ rāyā ǀ viśva-puṣā ǀ saha ǀ
magha-vānā ǀ su-vīrau ǀ anapa-cyutā ǁ8.26.7 Aṣṭaka 6.2.27.2Anuvāka 8.4.127
-
Ṛk 8
आ मे॑ अ॒स्य प्र॑ती॒व्य१॒॑मिंद्र॑नासत्या गतं ।
दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा ॥आ मे अस्य प्रतीव्यम् इन्द्रनासत्या गतम् |
देवा देवेभिर् अद्य सचनस्तमा ||ā́ me asyá pratīvyámíndranāsatyā gatam ǀ
devā́ devébhiradyá sacánastamā ǁā me asya pratīvyam indranāsatyā gatam |
devā devebhir adya sacanastamā ||आ । मे॒ । अ॒स्य । प्र॒ती॒व्य॑म् । इन्द्र॑नासत्या । ग॒त॒म् ।
दे॒वा । दे॒वेभिः॑ । अ॒द्य । स॒चनः॑ऽतमा ॥आ । मे । अस्य । प्रतीव्यम् । इन्द्रनासत्या । गतम् ।
देवा । देवेभिः । अद्य । सचनःऽतमा ॥ā́ ǀ me ǀ asyá ǀ pratīvyám ǀ índranāsatyā ǀ gatam ǀ
devā́ ǀ devébhiḥ ǀ adyá ǀ sacánaḥ-tamā ǁā ǀ me ǀ asya ǀ pratīvyam ǀ indranāsatyā ǀ gatam ǀ
devā ǀ devebhiḥ ǀ adya ǀ sacanaḥ-tamā ǁ8.26.8 Aṣṭaka 6.2.27.3Anuvāka 8.4.128
-
Ṛk 9
व॒यं हि वां॒ हवा॑मह उक्ष॒ण्यंतो॑ व्यश्व॒वत् ।
सु॒म॒तिभि॒रुप॑ विप्रावि॒हा ग॑तं ॥वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् |
सुमतिभिर् उप विप्राव् इहा गतम् ||vayám hí vām hávāmaha ukṣaṇyánto vyaśvavát ǀ
sumatíbhirúpa viprāvihā́ gatam ǁvayaṃ hi vāṃ havāmaha ukṣaṇyanto vyaśvavat |
sumatibhir upa viprāv ihā gatam ||व॒यम् । हि । वा॒म् । हवा॑महे । उ॒क्ष॒ण्यन्तः॑ । व्य॒श्व॒ऽवत् ।
सु॒म॒तिऽभिः॑ । उप॑ । वि॒प्रौ॒ । इ॒ह । आ । ग॒त॒म् ॥वयम् । हि । वाम् । हवामहे । उक्षण्यन्तः । व्यश्वऽवत् ।
सुमतिऽभिः । उप । विप्रौ । इह । आ । गतम् ॥vayám ǀ hí ǀ vām ǀ hávāmahe ǀ ukṣaṇyántaḥ ǀ vyaśva-vát ǀ
sumatí-bhiḥ ǀ úpa ǀ viprau ǀ ihá ǀ ā́ ǀ gatam ǁvayam ǀ hi ǀ vām ǀ havāmahe ǀ ukṣaṇyantaḥ ǀ vyaśva-vat ǀ
sumati-bhiḥ ǀ upa ǀ viprau ǀ iha ǀ ā ǀ gatam ǁ8.26.9 Aṣṭaka 6.2.27.4Anuvāka 8.4.129
-
Ṛk 10
अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हवं॑ ।
नेदी॑यसः कूळयातः प॒णीँरु॒त ॥अश्विना स्व् ऋषे स्तुहि कुवित् ते श्रवतो हवम् |
नेदीयसः कूऌअयातः पणींर् उत ||aśvínā svṛ́ṣe stuhi kuvítte śrávato hávam ǀ
nédīyasaḥ kūḷayātaḥ paṇī́m̐rutá ǁaśvinā sv ṛṣe stuhi kuvit te śravato havam |
nedīyasaḥ kūḷayātaḥ paṇīṃr uta ||अ॒श्विना॑ । सु । ऋ॒षे॒ । स्तु॒हि॒ । कु॒वित् । ते॒ । श्रव॑तः । हव॑म् ।
नेदी॑यसः । कू॒ळ॒या॒तः॒ । प॒णीन् । उ॒त ॥अश्विना । सु । ऋषे । स्तुहि । कुवित् । ते । श्रवतः । हवम् ।
नेदीयसः । कूळयातः । पणीन् । उत ॥aśvínā ǀ sú ǀ ṛṣe ǀ stuhi ǀ kuvít ǀ te ǀ śrávataḥ ǀ hávam ǀ
nédīyasaḥ ǀ kūḷayātaḥ ǀ paṇī́n ǀ utá ǁaśvinā ǀ su ǀ ṛṣe ǀ stuhi ǀ kuvit ǀ te ǀ śravataḥ ǀ havam ǀ
nedīyasaḥ ǀ kūḷayātaḥ ǀ paṇīn ǀ uta ǁ8.26.10 Aṣṭaka 6.2.27.5Anuvāka 8.4.130
-
Ṛk 11
वै॒य॒श्वस्य॑ श्रुतं नरो॒तो मे॑ अ॒स्य वे॑दथः ।
स॒जोष॑सा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः |
सजोषसा वरुणो मित्रो अर्यमा ||vaiyaśvásya śrutam narotó me asyá vedathaḥ ǀ
sajóṣasā váruṇo mitró aryamā́ ǁvaiyaśvasya śrutaṃ naroto me asya vedathaḥ |
sajoṣasā varuṇo mitro aryamā ||वै॒य॒श्वस्य॑ । श्रु॒त॒म् । न॒रा॒ । उ॒तो इति॑ । मे॒ । अ॒स्य । वे॒द॒थः॒ ।
स॒ऽजोष॑सा । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ॥वैयश्वस्य । श्रुतम् । नरा । उतो इति । मे । अस्य । वेदथः ।
सऽजोषसा । वरुणः । मित्रः । अर्यमा ॥vaiyaśvásya ǀ śrutam ǀ narā ǀ utó íti ǀ me ǀ asyá ǀ vedathaḥ ǀ
sa-jóṣasā ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǁvaiyaśvasya ǀ śrutam ǀ narā ǀ uto iti ǀ me ǀ asya ǀ vedathaḥ ǀ
sa-joṣasā ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǁ8.26.11 Aṣṭaka 6.2.28.1Anuvāka 8.4.131
-
Ṛk 12
यु॒वाद॑त्तस्य धिष्ण्या यु॒वानी॑तस्य सू॒रिभिः॑ ।
अह॑रहर्वृषण॒ मह्यं॑ शिक्षतं ॥युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः |
अहर्-अहर् वृषण मह्यं शिक्षतम् ||yuvā́dattasya dhiṣṇyā yuvā́nītasya sūríbhiḥ ǀ
áharaharvṛṣaṇa máhyam śikṣatam ǁyuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ |
ahar-ahar vṛṣaṇa mahyaṃ śikṣatam ||यु॒वाऽद॑त्तस्य । धि॒ष्ण्या॒ । यु॒वाऽनी॑तस्य । सू॒रिऽभिः॑ ।
अहः॑ऽअहः । वृ॒ष॒णा॒ । मह्य॑म् । शि॒क्ष॒त॒म् ॥युवाऽदत्तस्य । धिष्ण्या । युवाऽनीतस्य । सूरिऽभिः ।
अहःऽअहः । वृषणा । मह्यम् । शिक्षतम् ॥yuvā́-dattasya ǀ dhiṣṇyā ǀ yuvā́-nītasya ǀ sūrí-bhiḥ ǀ
áhaḥ-ahaḥ ǀ vṛṣaṇā ǀ máhyam ǀ śikṣatam ǁyuvā-dattasya ǀ dhiṣṇyā ǀ yuvā-nītasya ǀ sūri-bhiḥ ǀ
ahaḥ-ahaḥ ǀ vṛṣaṇā ǀ mahyam ǀ śikṣatam ǁ8.26.12 Aṣṭaka 6.2.28.2Anuvāka 8.4.132
-
Ṛk 13
यो वां॑ य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्रा व॒धूरि॑व ।
स॒प॒र्यंता॑ शु॒भे च॑क्राते अ॒श्विना॑ ॥यो वां यज्ञेभिर् आवृतो ऽधिवस्त्रा वधूर् इव |
सपर्यन्ता शुभे चक्राते अश्विना ||yó vām yajñébhirā́vṛtó’dhivastrā vadhū́riva ǀ
saparyántā śubhé cakrāte aśvínā ǁyo vāṃ yajñebhir āvṛto 'dhivastrā vadhūr iva |
saparyantā śubhe cakrāte aśvinā ||यः । वा॒म् । य॒ज्ञेभिः॑ । आऽवृ॑तः । अधि॑ऽवस्त्रा । व॒धूःऽइ॑व ।
स॒प॒र्यन्ता॑ । शु॒भे । च॒क्रा॒ते॒ इति॑ । अ॒श्विना॑ ॥यः । वाम् । यज्ञेभिः । आऽवृतः । अधिऽवस्त्रा । वधूःऽइव ।
सपर्यन्ता । शुभे । चक्राते इति । अश्विना ॥yáḥ ǀ vām ǀ yajñébhiḥ ǀ ā́-vṛtaḥ ǀ ádhi-vastrā ǀ vadhū́ḥ-iva ǀ
saparyántā ǀ śubhé ǀ cakrāte íti ǀ aśvínā ǁyaḥ ǀ vām ǀ yajñebhiḥ ǀ ā-vṛtaḥ ǀ adhi-vastrā ǀ vadhūḥ-iva ǀ
saparyantā ǀ śubhe ǀ cakrāte iti ǀ aśvinā ǁ8.26.13 Aṣṭaka 6.2.28.3Anuvāka 8.4.133
-
Ṛk 14
यो वा॑मुरु॒व्यच॑स्तमं॒ चिके॑तति नृ॒पाय्यं॑ ।
व॒र्तिर॑श्विना॒ परि॑ यातमस्म॒यू ॥यो वाम् उरुव्यचस्तमं चिकेतति नृपाय्यम् |
वर्तिर् अश्विना परि यातम् अस्मयू ||yó vāmuruvyácastamam cíketati nṛpā́yyam ǀ
vartíraśvinā pári yātamasmayū́ ǁyo vām uruvyacastamaṃ ciketati nṛpāyyam |
vartir aśvinā pari yātam asmayū ||यः । वा॒म् । उ॒रु॒व्यचः॑ऽतमम् । चिके॑तति । नृ॒ऽपाय्य॑म् ।
व॒र्तिः । अ॒श्वि॒ना॒ । परि॑ । या॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥यः । वाम् । उरुव्यचःऽतमम् । चिकेतति । नृऽपाय्यम् ।
वर्तिः । अश्विना । परि । यातम् । अस्मयू इत्यस्मऽयू ॥yáḥ ǀ vām ǀ uruvyácaḥ-tamam ǀ cíketati ǀ nṛ-pā́yyam ǀ
vartíḥ ǀ aśvinā ǀ pári ǀ yātam ǀ asmayū́ ítyasma-yū́ ǁyaḥ ǀ vām ǀ uruvyacaḥ-tamam ǀ ciketati ǀ nṛ-pāyyam ǀ
vartiḥ ǀ aśvinā ǀ pari ǀ yātam ǀ asmayū ityasma-yū ǁ8.26.14 Aṣṭaka 6.2.28.4Anuvāka 8.4.134
-
Ṛk 15
अ॒स्मभ्यं॒ सु वृ॑षण्वसू या॒तं व॒र्तिर्नृ॒पाय्यं॑ ।
वि॒षु॒द्रुहे॑व य॒ज्ञमू॑हथुर्गि॒रा ॥अस्मभ्यं सु वृषण्वसू यातं वर्तिर् नृपाय्यम् |
विषुद्रुहेव यज्ञम् ऊहथुर् गिरा ||asmábhyam sú vṛṣaṇvasū yātám vartírnṛpā́yyam ǀ
viṣudrúheva yajñámūhathurgirā́ ǁasmabhyaṃ su vṛṣaṇvasū yātaṃ vartir nṛpāyyam |
viṣudruheva yajñam ūhathur girā ||अ॒स्मभ्य॑म् । सु । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । या॒तम् । व॒र्तिः । नृ॒ऽपाय्य॑म् ।
वि॒षु॒द्रुहा॑ऽइव । य॒ज्ञम् । ऊ॒ह॒थुः॒ । गि॒रा ॥अस्मभ्यम् । सु । वृषण्वसू इति वृषण्ऽवसू । यातम् । वर्तिः । नृऽपाय्यम् ।
विषुद्रुहाऽइव । यज्ञम् । ऊहथुः । गिरा ॥asmábhyam ǀ sú ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ yātám ǀ vartíḥ ǀ nṛ-pā́yyam ǀ
viṣudrúhā-iva ǀ yajñám ǀ ūhathuḥ ǀ girā́ ǁasmabhyam ǀ su ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ yātam ǀ vartiḥ ǀ nṛ-pāyyam ǀ
viṣudruhā-iva ǀ yajñam ǀ ūhathuḥ ǀ girā ǁ8.26.15 Aṣṭaka 6.2.28.5Anuvāka 8.4.135
-
Ṛk 16
वाहि॑ष्ठो वां॒ हवा॑नां॒ स्तोमो॑ दू॒तो हु॑वन्नरा ।
यु॒वाभ्यां॑ भूत्वश्विना ॥वाहिष्ठो वां हवानां स्तोमो दूतो हुवन् नरा |
युवाभ्याम् भूत्व् अश्विना ||vā́hiṣṭho vām hávānām stómo dūtó huvannarā ǀ
yuvā́bhyām bhūtvaśvinā ǁvāhiṣṭho vāṃ havānāṃ stomo dūto huvan narā |
yuvābhyām bhūtv aśvinā ||वाहि॑ष्ठः । वा॒म् । हवा॑नाम् । स्तोमः॑ । दू॒तः । हु॒व॒त् । न॒रा॒ ।
यु॒वाभ्या॑म् । भू॒तु॒ । अ॒श्वि॒ना॒ ॥वाहिष्ठः । वाम् । हवानाम् । स्तोमः । दूतः । हुवत् । नरा ।
युवाभ्याम् । भूतु । अश्विना ॥vā́hiṣṭhaḥ ǀ vām ǀ hávānām ǀ stómaḥ ǀ dūtáḥ ǀ huvat ǀ narā ǀ
yuvā́bhyām ǀ bhūtu ǀ aśvinā ǁvāhiṣṭhaḥ ǀ vām ǀ havānām ǀ stomaḥ ǀ dūtaḥ ǀ huvat ǀ narā ǀ
yuvābhyām ǀ bhūtu ǀ aśvinā ǁ8.26.16 Aṣṭaka 6.2.29.1Anuvāka 8.4.136
-
Ṛk 17
यद॒दो दि॒वो अ॑र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे ।
श्रु॒तमिन्मे॑ अमर्त्या ॥यद् अदो दिवो अर्णव इषो वा मदथो गृहे |
श्रुतम् इन् मे अमर्त्या ||yádadó divó arṇavá iṣó vā mádatho gṛhé ǀ
śrutámínme amartyā ǁyad ado divo arṇava iṣo vā madatho gṛhe |
śrutam in me amartyā ||यत् । अ॒दः । दि॒वः । अ॒र्ण॒वे । इ॒षः । वा॒ । मद॑थः । गृ॒हे ।
श्रु॒तम् । इत् । मे॒ । अ॒म॒र्त्या॒ ॥यत् । अदः । दिवः । अर्णवे । इषः । वा । मदथः । गृहे ।
श्रुतम् । इत् । मे । अमर्त्या ॥yát ǀ adáḥ ǀ diváḥ ǀ arṇavé ǀ iṣáḥ ǀ vā ǀ mádathaḥ ǀ gṛhé ǀ
śrutám ǀ ít ǀ me ǀ amartyā ǁyat ǀ adaḥ ǀ divaḥ ǀ arṇave ǀ iṣaḥ ǀ vā ǀ madathaḥ ǀ gṛhe ǀ
śrutam ǀ it ǀ me ǀ amartyā ǁ8.26.17 Aṣṭaka 6.2.29.2Anuvāka 8.4.137
-
Ṛk 18
उ॒त स्या श्वे॑त॒याव॑री॒ वाहि॑ष्ठा वां न॒दीनां॑ ।
सिंधु॒र्हिर॑ण्यवर्तनिः ॥उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम् |
सिन्धुर् हिरण्यवर्तनिः ||utá syā́ śvetayā́varī vā́hiṣṭhā vām nadī́nām ǀ
síndhurhíraṇyavartaniḥ ǁuta syā śvetayāvarī vāhiṣṭhā vāṃ nadīnām |
sindhur hiraṇyavartaniḥ ||उ॒त । स्या । श्वे॒त॒ऽयाव॑री । वाहि॑ष्ठा । वा॒म् । न॒दीना॑म् ।
सिन्धुः॑ । हिर॑ण्यऽवर्तनिः ॥उत । स्या । श्वेतऽयावरी । वाहिष्ठा । वाम् । नदीनाम् ।
सिन्धुः । हिरण्यऽवर्तनिः ॥utá ǀ syā́ ǀ śveta-yā́varī ǀ vā́hiṣṭhā ǀ vām ǀ nadī́nām ǀ
síndhuḥ ǀ híraṇya-vartaniḥ ǁuta ǀ syā ǀ śveta-yāvarī ǀ vāhiṣṭhā ǀ vām ǀ nadīnām ǀ
sindhuḥ ǀ hiraṇya-vartaniḥ ǁ8.26.18 Aṣṭaka 6.2.29.3Anuvāka 8.4.138
-
Ṛk 19
स्मदे॒तया॑ सुकी॒र्त्याश्वि॑ना श्वे॒तया॑ धि॒या ।
वहे॑थे शुभ्रयावाना ॥स्मद् एतया सुकीर्त्याश्विना श्वेतया धिया |
वहेथे शुभ्रयावाना ||smádetáyā sukīrtyā́śvinā śvetáyā dhiyā́ ǀ
váhethe śubhrayāvānā ǁsmad etayā sukīrtyāśvinā śvetayā dhiyā |
vahethe śubhrayāvānā ||स्मत् । ए॒तया॑ । सु॒ऽकी॒र्त्या । अश्वि॑ना । श्वे॒तया॑ । धि॒या ।
वहे॑थे॒ इति॑ । शु॒भ्र॒ऽया॒वा॒ना॒ ॥स्मत् । एतया । सुऽकीर्त्या । अश्विना । श्वेतया । धिया ।
वहेथे इति । शुभ्रऽयावाना ॥smát ǀ etáyā ǀ su-kīrtyā́ ǀ áśvinā ǀ śvetáyā ǀ dhiyā́ ǀ
váhethe íti ǀ śubhra-yāvānā ǁsmat ǀ etayā ǀ su-kīrtyā ǀ aśvinā ǀ śvetayā ǀ dhiyā ǀ
vahethe iti ǀ śubhra-yāvānā ǁ8.26.19 Aṣṭaka 6.2.29.4Anuvāka 8.4.139
-
Ṛk 20
यु॒क्ष्वा हि त्वं र॑था॒सहा॑ यु॒वस्व॒ पोष्या॑ वसो ।
आन्नो॑ वायो॒ मधु॑ पिबा॒स्माकं॒ सव॒ना ग॑हि ॥युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो |
आन् नो वायो मधु पिबास्माकं सवना गहि ||yukṣvā́ hí tvám rathāsáhā yuvásva póṣyā vaso ǀ
ā́nno vāyo mádhu pibāsmā́kam sávanā́ gahi ǁyukṣvā hi tvaṃ rathāsahā yuvasva poṣyā vaso |
ān no vāyo madhu pibāsmākaṃ savanā gahi ||यु॒क्ष्व । हि । त्वम् । र॒थ॒ऽसहा॑ । यु॒वस्व॑ । पोष्या॑ । व॒सो॒ इति॑ ।
आत् । नः॒ । वा॒यो॒ इति॑ । मधु॑ । पि॒ब॒ । अ॒स्माक॑म् । सव॑ना । आ । ग॒हि॒ ॥युक्ष्व । हि । त्वम् । रथऽसहा । युवस्व । पोष्या । वसो इति ।
आत् । नः । वायो इति । मधु । पिब । अस्माकम् । सवना । आ । गहि ॥yukṣvá ǀ hí ǀ tvám ǀ ratha-sáhā ǀ yuvásva ǀ póṣyā ǀ vaso íti ǀ
ā́t ǀ naḥ ǀ vāyo íti ǀ mádhu ǀ piba ǀ asmā́kam ǀ sávanā ǀ ā́ ǀ gahi ǁyukṣva ǀ hi ǀ tvam ǀ ratha-sahā ǀ yuvasva ǀ poṣyā ǀ vaso iti ǀ
āt ǀ naḥ ǀ vāyo iti ǀ madhu ǀ piba ǀ asmākam ǀ savanā ǀ ā ǀ gahi ǁ8.26.20 Aṣṭaka 6.2.29.5Anuvāka 8.4.140
-
Ṛk 21
तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत ।
अवां॒स्या वृ॑णीमहे ॥तव वायव् ऋतस्पते त्वष्टुर् जामातर् अद्भुत |
अवांस्य् आ वृणीमहे ||táva vāyavṛtaspate tváṣṭurjāmātaradbhuta ǀ
ávāṃsyā́ vṛṇīmahe ǁtava vāyav ṛtaspate tvaṣṭur jāmātar adbhuta |
avāṃsy ā vṛṇīmahe ||तव॑ । वा॒यो॒ इति॑ । ऋ॒तः॒ऽप॒ते॒ । त्वष्टुः॑ । जा॒मा॒तः॒ । अ॒द्भु॒त॒ ।
अवां॑सि । आ । वृ॒णी॒म॒हे॒ ॥तव । वायो इति । ऋतःऽपते । त्वष्टुः । जामातः । अद्भुत ।
अवांसि । आ । वृणीमहे ॥táva ǀ vāyo íti ǀ ṛtaḥ-pate ǀ tváṣṭuḥ ǀ jāmātaḥ ǀ adbhuta ǀ
ávāṃsi ǀ ā́ ǀ vṛṇīmahe ǁtava ǀ vāyo iti ǀ ṛtaḥ-pate ǀ tvaṣṭuḥ ǀ jāmātaḥ ǀ adbhuta ǀ
avāṃsi ǀ ā ǀ vṛṇīmahe ǁ8.26.21 Aṣṭaka 6.2.30.1Anuvāka 8.4.141
-
Ṛk 22
त्वष्टु॒र्जामा॑तरं व॒यमीशा॑नं रा॒य ई॑महे ।
सु॒तावं॑तो वा॒युं द्यु॒म्ना जना॑सः ॥त्वष्टुर् जामातरं वयम् ईशानं राय ईमहे |
सुतावन्तो वायुं द्युम्ना जनासः ||tváṣṭurjā́mātaram vayámī́śānam rāyá īmahe ǀ
sutā́vanto vāyúm dyumnā́ jánāsaḥ ǁtvaṣṭur jāmātaraṃ vayam īśānaṃ rāya īmahe |
sutāvanto vāyuṃ dyumnā janāsaḥ ||त्वष्टुः॑ । जामा॑तरम् । व॒यम् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ।
सु॒तऽव॑न्तः । वा॒युम् । द्यु॒म्ना । जना॑सः ॥त्वष्टुः । जामातरम् । वयम् । ईशानम् । रायः । ईमहे ।
सुतऽवन्तः । वायुम् । द्युम्ना । जनासः ॥tváṣṭuḥ ǀ jā́mātaram ǀ vayám ǀ ī́śānam ǀ rāyáḥ ǀ īmahe ǀ
sutá-vantaḥ ǀ vāyúm ǀ dyumnā́ ǀ jánāsaḥ ǁtvaṣṭuḥ ǀ jāmātaram ǀ vayam ǀ īśānam ǀ rāyaḥ ǀ īmahe ǀ
suta-vantaḥ ǀ vāyum ǀ dyumnā ǀ janāsaḥ ǁ8.26.22 Aṣṭaka 6.2.30.2Anuvāka 8.4.142
-
Ṛk 23
वायो॑ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्यं॑ ।
वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे॑ ॥वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् |
वहस्व महः पृथुपक्षसा रथे ||vā́yo yāhí śivā́ divó váhasvā sú sváśvyam ǀ
váhasva maháḥ pṛthupákṣasā ráthe ǁvāyo yāhi śivā divo vahasvā su svaśvyam |
vahasva mahaḥ pṛthupakṣasā rathe ||वायो॒ इति॑ । या॒हि । शि॒व॒ । आ । दि॒वः । वह॑स्व । सु । सु॒ऽअश्व्य॑म् ।
वह॑स्व । म॒हः । पृ॒थु॒ऽपक्ष॑सा । रथे॑ ॥वायो इति । याहि । शिव । आ । दिवः । वहस्व । सु । सुऽअश्व्यम् ।
वहस्व । महः । पृथुऽपक्षसा । रथे ॥vā́yo íti ǀ yāhí ǀ śiva ǀ ā́ ǀ diváḥ ǀ váhasva ǀ sú ǀ su-áśvyam ǀ
váhasva ǀ maháḥ ǀ pṛthu-pákṣasā ǀ ráthe ǁvāyo iti ǀ yāhi ǀ śiva ǀ ā ǀ divaḥ ǀ vahasva ǀ su ǀ su-aśvyam ǀ
vahasva ǀ mahaḥ ǀ pṛthu-pakṣasā ǀ rathe ǁ8.26.23 Aṣṭaka 6.2.30.3Anuvāka 8.4.143
-
Ṛk 24
त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे॑ ।
ग्रावा॑णं॒ नाश्व॑पृष्ठं मं॒हना॑ ॥त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे |
ग्रावाणं नाश्वपृष्ठम् मंहना ||tvā́m hí supsárastamam nṛṣádaneṣu hūmáhe ǀ
grā́vāṇam nā́śvapṛṣṭham maṃhánā ǁtvāṃ hi supsarastamaṃ nṛṣadaneṣu hūmahe |
grāvāṇaṃ nāśvapṛṣṭham maṃhanā ||त्वाम् । हि । सु॒प्सरः॑ऽतमम् । नृ॒ऽसद॑नेषु । हू॒महे॑ ।
ग्रावा॑णम् । न । अश्व॑ऽपृष्ठम् । मं॒हना॑ ॥त्वाम् । हि । सुप्सरःऽतमम् । नृऽसदनेषु । हूमहे ।
ग्रावाणम् । न । अश्वऽपृष्ठम् । मंहना ॥tvā́m ǀ hí ǀ supsáraḥ-tamam ǀ nṛ-sádaneṣu ǀ hūmáhe ǀ
grā́vāṇam ǀ ná ǀ áśva-pṛṣṭham ǀ maṃhánā ǁtvām ǀ hi ǀ supsaraḥ-tamam ǀ nṛ-sadaneṣu ǀ hūmahe ǀ
grāvāṇam ǀ na ǀ aśva-pṛṣṭham ǀ maṃhanā ǁ8.26.24 Aṣṭaka 6.2.30.4Anuvāka 8.4.144
-
Ṛk 25
स त्वं नो॑ देव॒ मन॑सा॒ वायो॑ मंदा॒नो अ॑ग्रि॒यः ।
कृ॒धि वाजाँ॑ अ॒पो धियः॑ ॥स त्वं नो देव मनसा वायो मन्दानो अग्रियः |
कृधि वाजां अपो धियः ||sá tvám no deva mánasā vā́yo mandānó agriyáḥ ǀ
kṛdhí vā́jām̐ apó dhíyaḥ ǁsa tvaṃ no deva manasā vāyo mandāno agriyaḥ |
kṛdhi vājāṃ apo dhiyaḥ ||सः । त्वम् । नः॒ । दे॒व॒ । मन॑सा । वायो॒ इति॑ । म॒न्दा॒नः । अ॒ग्रि॒यः ।
कृ॒धि । वाजा॑न् । अ॒पः । धियः॑ ॥सः । त्वम् । नः । देव । मनसा । वायो इति । मन्दानः । अग्रियः ।
कृधि । वाजान् । अपः । धियः ॥sáḥ ǀ tvám ǀ naḥ ǀ deva ǀ mánasā ǀ vā́yo íti ǀ mandānáḥ ǀ agriyáḥ ǀ
kṛdhí ǀ vā́jān ǀ apáḥ ǀ dhíyaḥ ǁsaḥ ǀ tvam ǀ naḥ ǀ deva ǀ manasā ǀ vāyo iti ǀ mandānaḥ ǀ agriyaḥ ǀ
kṛdhi ǀ vājān ǀ apaḥ ǀ dhiyaḥ ǁ8.26.25 Aṣṭaka 6.2.30.5Anuvāka 8.4.145
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.