Ṛk 8.26.4
Saṃhitā
आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु श्रु॒तो न॑रा ।
उप॒ स्तोमां॑तु॒रस्य॑ दर्शथः श्रि॒ये ॥
आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा |
उप स्तोमान् तुरस्य दर्शथः श्रिये ||
ā́ vām vā́hiṣṭho aśvinā rátho yātu śrutó narā ǀ
úpa stómānturásya darśathaḥ śriyé ǁ
ā vāṃ vāhiṣṭho aśvinā ratho yātu śruto narā |
upa stomān turasya darśathaḥ śriye ||
Padapāṭha
आ । वा॒म् । वाहि॑ष्ठः । अ॒श्वि॒ना॒ । रथः॑ । या॒तु॒ । श्रु॒तः । न॒रा॒ ।
उप॑ । स्तोमा॑न् । तु॒रस्य॑ । द॒र्श॒थः॒ । श्रि॒ये ॥
आ । वाम् । वाहिष्ठः । अश्विना । रथः । यातु । श्रुतः । नरा ।
उप । स्तोमान् । तुरस्य । दर्शथः । श्रिये ॥
ā́ ǀ vām ǀ vā́hiṣṭhaḥ ǀ aśvinā ǀ ráthaḥ ǀ yātu ǀ śrutáḥ ǀ narā ǀ
úpa ǀ stómān ǀ turásya ǀ darśathaḥ ǀ śriyé ǁ
ā ǀ vām ǀ vāhiṣṭhaḥ ǀ aśvinā ǀ rathaḥ ǀ yātu ǀ śrutaḥ ǀ narā ǀ
upa ǀ stomān ǀ turasya ǀ darśathaḥ ǀ śriye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.026.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.26.04
- Maṇḍala · Anuvāka · Ṛk
- 08.04.124
- Devatā देवता
- 1-19: Aśvins; 20-25: Vāyu
- Ṛṣi ऋषि
- Viśvamanas Vaiyaśva Or Vyaśva Āṅgirasa
- Chandas छन्दस्
- Uṣṇih, Gāyatrī, Anuṣṭubh
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.