Sūkta 88
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles bṛhatī (1, 3); paṅktiḥ (2, 4); nicṛdbṛhatī (5); virāṭpaṅkti (6)
2nd set of styles bṛhatī (1, 3, 5); satobṛhatī (2, 4, 6)
-
Ṛk 1
तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मंदा॒नमंध॑सः ।
अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इंद्रं॑ गी॒र्भिर्न॑वामहे ॥तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः |
अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर् नवामहे ||tám vo dasmámṛtīṣáham vásormandānámándhasaḥ ǀ
abhí vatsám ná svásareṣu dhenáva índram gīrbhírnavāmahe ǁtaṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhasaḥ |
abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhir navāmahe ||तम् । वः॒ । द॒स्मम् । ऋ॒ति॒ऽसह॑म् । वसोः॑ । म॒न्दा॒नम् । अन्ध॑सः ।
अ॒भि । व॒त्सम् । न । स्वस॑रेषु । धे॒नवः॑ । इन्द्र॑म् । गीः॒ऽभिः । न॒वा॒म॒हे॒ ॥तम् । वः । दस्मम् । ऋतिऽसहम् । वसोः । मन्दानम् । अन्धसः ।
अभि । वत्सम् । न । स्वसरेषु । धेनवः । इन्द्रम् । गीःऽभिः । नवामहे ॥tám ǀ vaḥ ǀ dasmám ǀ ṛti-sáham ǀ vásoḥ ǀ mandānám ǀ ándhasaḥ ǀ
abhí ǀ vatsám ǀ ná ǀ svásareṣu ǀ dhenávaḥ ǀ índram ǀ gīḥ-bhíḥ ǀ navāmahe ǁtam ǀ vaḥ ǀ dasmam ǀ ṛti-saham ǀ vasoḥ ǀ mandānam ǀ andhasaḥ ǀ
abhi ǀ vatsam ǀ na ǀ svasareṣu ǀ dhenavaḥ ǀ indram ǀ gīḥ-bhiḥ ǀ navāmahe ǁ8.88.1 Aṣṭaka 6.6.11.1Anuvāka 8.9.57
-
Ṛk 2
द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सं ।
क्षु॒मंतं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोमं॑तमीमहे ॥द्युक्षं सुदानुं तविषीभिर् आवृतं गिरिं न पुरुभोजसम् |
क्षुमन्तं वाजं शतिनं सहस्रिणम् मक्षू गोमन्तम् ईमहे ||dyukṣám sudā́num táviṣībhirā́vṛtam girím ná purubhójasam ǀ
kṣumántam vā́jam śatínam sahasríṇam makṣū́ gómantamīmahe ǁdyukṣaṃ sudānuṃ taviṣībhir āvṛtaṃ giriṃ na purubhojasam |
kṣumantaṃ vājaṃ śatinaṃ sahasriṇam makṣū gomantam īmahe ||द्यु॒क्षम् । सु॒ऽदानु॑म् । तवि॑षीभिः । आऽवृ॑तम् । गि॒रिम् । न । पु॒रु॒ऽभोज॑सम् ।
क्षु॒ऽमन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥द्युक्षम् । सुऽदानुम् । तविषीभिः । आऽवृतम् । गिरिम् । न । पुरुऽभोजसम् ।
क्षुऽमन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षु । गोऽमन्तम् । ईमहे ॥dyukṣám ǀ su-dā́num ǀ táviṣībhiḥ ǀ ā́-vṛtam ǀ girím ǀ ná ǀ puru-bhójasam ǀ
kṣu-mántam ǀ vā́jam ǀ śatínam ǀ sahasríṇam ǀ makṣú ǀ gó-mantam ǀ īmahe ǁdyukṣam ǀ su-dānum ǀ taviṣībhiḥ ǀ ā-vṛtam ǀ girim ǀ na ǀ puru-bhojasam ǀ
kṣu-mantam ǀ vājam ǀ śatinam ǀ sahasriṇam ǀ makṣu ǀ go-mantam ǀ īmahe ǁ8.88.2 Aṣṭaka 6.6.11.2Anuvāka 8.9.58
-
Ṛk 3
न त्वा॑ बृ॒हंतो॒ अद्र॑यो॒ वरं॑त इंद्र वी॒ळवः॑ ।
यद्दित्स॑सि स्तुव॒ते माव॑ते॒ वसु॒ नकि॒ष्टदा मि॑नाति ते ॥न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीऌअवः |
यद् दित्ससि स्तुवते मावते वसु नकिष् टद् आ मिनाति ते ||ná tvā bṛhánto ádrayo váranta indra vīḷávaḥ ǀ
yáddítsasi stuvaté mā́vate vásu nákiṣṭádā́ mināti te ǁna tvā bṛhanto adrayo varanta indra vīḷavaḥ |
yad ditsasi stuvate māvate vasu nakiṣ ṭad ā mināti te ||न । त्वा॒ । बृ॒हन्तः॑ । अद्र॑यः । वर॑न्ते । इ॒न्द्र॒ । वी॒ळवः॑ ।
यत् । दित्स॑सि । स्तु॒व॒ते । माऽव॑ते । वसु॑ । नकिः॑ । तत् । आ । मि॒ना॒ति॒ । ते॒ ॥न । त्वा । बृहन्तः । अद्रयः । वरन्ते । इन्द्र । वीळवः ।
यत् । दित्ससि । स्तुवते । माऽवते । वसु । नकिः । तत् । आ । मिनाति । ते ॥ná ǀ tvā ǀ bṛhántaḥ ǀ ádrayaḥ ǀ várante ǀ indra ǀ vīḷávaḥ ǀ
yát ǀ dítsasi ǀ stuvaté ǀ mā́-vate ǀ vásu ǀ nákiḥ ǀ tát ǀ ā́ ǀ mināti ǀ te ǁna ǀ tvā ǀ bṛhantaḥ ǀ adrayaḥ ǀ varante ǀ indra ǀ vīḷavaḥ ǀ
yat ǀ ditsasi ǀ stuvate ǀ mā-vate ǀ vasu ǀ nakiḥ ǀ tat ǀ ā ǀ mināti ǀ te ǁ8.88.3 Aṣṭaka 6.6.11.3Anuvāka 8.9.59
-
Ṛk 4
योद्धा॑सि॒ क्रत्वा॒ शव॑सो॒त दं॒सना॒ विश्वा॑ जा॒ताभि म॒ज्मना॑ ।
आ त्वा॒यम॒र्क ऊ॒तये॑ ववर्तति॒ यं गोत॑मा॒ अजी॑जनन् ॥योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना |
आ त्वायम् अर्क ऊतये ववर्तति यं गोतमा अजीजनन् ||yóddhāsi krátvā śávasotá daṃsánā víśvā jātā́bhí majmánā ǀ
ā́ tvāyámarká ūtáye vavartati yám gótamā ájījanan ǁyoddhāsi kratvā śavasota daṃsanā viśvā jātābhi majmanā |
ā tvāyam arka ūtaye vavartati yaṃ gotamā ajījanan ||योद्धा॑ । अ॒सि॒ । क्रत्वा॑ । शव॑सा । उ॒त । दं॒सना॑ । विश्वा॑ । जा॒ता । अ॒भि । म॒ज्मना॑ ।
आ । त्वा॒ । अ॒यम् । अ॒र्कः । ऊ॒तये॑ । व॒व॒र्त॒ति॒ । यम् । गोत॑माः । अजी॑जनन् ॥योद्धा । असि । क्रत्वा । शवसा । उत । दंसना । विश्वा । जाता । अभि । मज्मना ।
आ । त्वा । अयम् । अर्कः । ऊतये । ववर्तति । यम् । गोतमाः । अजीजनन् ॥yóddhā ǀ asi ǀ krátvā ǀ śávasā ǀ utá ǀ daṃsánā ǀ víśvā ǀ jātā́ ǀ abhí ǀ majmánā ǀ
ā́ ǀ tvā ǀ ayám ǀ arkáḥ ǀ ūtáye ǀ vavartati ǀ yám ǀ gótamāḥ ǀ ájījanan ǁyoddhā ǀ asi ǀ kratvā ǀ śavasā ǀ uta ǀ daṃsanā ǀ viśvā ǀ jātā ǀ abhi ǀ majmanā ǀ
ā ǀ tvā ǀ ayam ǀ arkaḥ ǀ ūtaye ǀ vavartati ǀ yam ǀ gotamāḥ ǀ ajījanan ǁ8.88.4 Aṣṭaka 6.6.11.4Anuvāka 8.9.60
-
Ṛk 5
प्र हि रि॑रि॒क्ष ओज॑सा दि॒वो अंते॑भ्य॒स्परि॑ ।
न त्वा॑ विव्याच॒ रज॑ इंद्र॒ पार्थि॑व॒मनु॑ स्व॒धां व॑वक्षिथ ॥प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस् परि |
न त्वा विव्याच रज इन्द्र पार्थिवम् अनु स्वधां ववक्षिथ ||prá hí ririkṣá ójasā divó ántebhyaspári ǀ
ná tvā vivyāca rája indra pā́rthivamánu svadhā́m vavakṣitha ǁpra hi ririkṣa ojasā divo antebhyas pari |
na tvā vivyāca raja indra pārthivam anu svadhāṃ vavakṣitha ||प्र । हि । रि॒रि॒क्षे । ओज॑सा । दि॒वः । अन्ते॑भ्यः । परि॑ ।
न । त्वा॒ । वि॒व्या॒च॒ । रजः॑ । इ॒न्द्र॒ । पार्थि॑वम् । अनु॑ । स्व॒धाम् । व॒व॒क्षि॒थ॒ ॥प्र । हि । रिरिक्षे । ओजसा । दिवः । अन्तेभ्यः । परि ।
न । त्वा । विव्याच । रजः । इन्द्र । पार्थिवम् । अनु । स्वधाम् । ववक्षिथ ॥prá ǀ hí ǀ ririkṣé ǀ ójasā ǀ diváḥ ǀ ántebhyaḥ ǀ pári ǀ
ná ǀ tvā ǀ vivyāca ǀ rájaḥ ǀ indra ǀ pā́rthivam ǀ ánu ǀ svadhā́m ǀ vavakṣitha ǁpra ǀ hi ǀ ririkṣe ǀ ojasā ǀ divaḥ ǀ antebhyaḥ ǀ pari ǀ
na ǀ tvā ǀ vivyāca ǀ rajaḥ ǀ indra ǀ pārthivam ǀ anu ǀ svadhām ǀ vavakṣitha ǁ8.88.5 Aṣṭaka 6.6.11.5Anuvāka 8.9.61
-
Ṛk 6
नकिः॒ परि॑ष्टिर्मघवन्म॒घस्य॑ ते॒ यद्दा॒शुषे॑ दश॒स्यसि॑ ।
अ॒स्माकं॑ बोध्यु॒चथ॑स्य चोदि॒ता मंहि॑ष्ठो॒ वाज॑सातये ॥नकिः परिष्टिर् मघवन् मघस्य ते यद् दाशुषे दशस्यसि |
अस्माकम् बोध्य् उचथस्य चोदिता मंहिष्ठो वाजसातये ||nákiḥ páriṣṭirmaghavanmaghásya te yáddāśúṣe daśasyási ǀ
asmā́kam bodhyucáthasya coditā́ máṃhiṣṭho vā́jasātaye ǁnakiḥ pariṣṭir maghavan maghasya te yad dāśuṣe daśasyasi |
asmākam bodhy ucathasya coditā maṃhiṣṭho vājasātaye ||नकिः॑ । परि॑ष्टिः । म॒घ॒ऽव॒न् । म॒घस्य॑ । ते॒ । यत् । दा॒शुषे॑ । द॒श॒स्यसि॑ ।
अ॒स्माक॑म् । बो॒धि॒ । उ॒चथ॑स्य । चो॒दि॒ता । मंहि॑ष्ठः । वाज॑ऽसातये ॥नकिः । परिष्टिः । मघऽवन् । मघस्य । ते । यत् । दाशुषे । दशस्यसि ।
अस्माकम् । बोधि । उचथस्य । चोदिता । मंहिष्ठः । वाजऽसातये ॥nákiḥ ǀ páriṣṭiḥ ǀ magha-van ǀ maghásya ǀ te ǀ yát ǀ dāśúṣe ǀ daśasyási ǀ
asmā́kam ǀ bodhi ǀ ucáthasya ǀ coditā́ ǀ máṃhiṣṭhaḥ ǀ vā́ja-sātaye ǁnakiḥ ǀ pariṣṭiḥ ǀ magha-van ǀ maghasya ǀ te ǀ yat ǀ dāśuṣe ǀ daśasyasi ǀ
asmākam ǀ bodhi ǀ ucathasya ǀ coditā ǀ maṃhiṣṭhaḥ ǀ vāja-sātaye ǁ8.88.6 Aṣṭaka 6.6.11.6Anuvāka 8.9.62
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.