Ṛk 8.88.2
Saṃhitā
द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सं ।
क्षु॒मंतं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोमं॑तमीमहे ॥
द्युक्षं सुदानुं तविषीभिर् आवृतं गिरिं न पुरुभोजसम् |
क्षुमन्तं वाजं शतिनं सहस्रिणम् मक्षू गोमन्तम् ईमहे ||
dyukṣám sudā́num táviṣībhirā́vṛtam girím ná purubhójasam ǀ
kṣumántam vā́jam śatínam sahasríṇam makṣū́ gómantamīmahe ǁ
dyukṣaṃ sudānuṃ taviṣībhir āvṛtaṃ giriṃ na purubhojasam |
kṣumantaṃ vājaṃ śatinaṃ sahasriṇam makṣū gomantam īmahe ||
Padapāṭha
द्यु॒क्षम् । सु॒ऽदानु॑म् । तवि॑षीभिः । आऽवृ॑तम् । गि॒रिम् । न । पु॒रु॒ऽभोज॑सम् ।
क्षु॒ऽमन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥
द्युक्षम् । सुऽदानुम् । तविषीभिः । आऽवृतम् । गिरिम् । न । पुरुऽभोजसम् ।
क्षुऽमन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षु । गोऽमन्तम् । ईमहे ॥
dyukṣám ǀ su-dā́num ǀ táviṣībhiḥ ǀ ā́-vṛtam ǀ girím ǀ ná ǀ puru-bhójasam ǀ
kṣu-mántam ǀ vā́jam ǀ śatínam ǀ sahasríṇam ǀ makṣú ǀ gó-mantam ǀ īmahe ǁ
dyukṣam ǀ su-dānum ǀ taviṣībhiḥ ǀ ā-vṛtam ǀ girim ǀ na ǀ puru-bhojasam ǀ
kṣu-mantam ǀ vājam ǀ śatinam ǀ sahasriṇam ǀ makṣu ǀ go-mantam ǀ īmahe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.088.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.11.02
- Maṇḍala · Anuvāka · Ṛk
- 08.09.058
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.