Ṛk 8.88.4
Saṃhitā
योद्धा॑सि॒ क्रत्वा॒ शव॑सो॒त दं॒सना॒ विश्वा॑ जा॒ताभि म॒ज्मना॑ ।
आ त्वा॒यम॒र्क ऊ॒तये॑ ववर्तति॒ यं गोत॑मा॒ अजी॑जनन् ॥
योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना |
आ त्वायम् अर्क ऊतये ववर्तति यं गोतमा अजीजनन् ||
yóddhāsi krátvā śávasotá daṃsánā víśvā jātā́bhí majmánā ǀ
ā́ tvāyámarká ūtáye vavartati yám gótamā ájījanan ǁ
yoddhāsi kratvā śavasota daṃsanā viśvā jātābhi majmanā |
ā tvāyam arka ūtaye vavartati yaṃ gotamā ajījanan ||
Padapāṭha
योद्धा॑ । अ॒सि॒ । क्रत्वा॑ । शव॑सा । उ॒त । दं॒सना॑ । विश्वा॑ । जा॒ता । अ॒भि । म॒ज्मना॑ ।
आ । त्वा॒ । अ॒यम् । अ॒र्कः । ऊ॒तये॑ । व॒व॒र्त॒ति॒ । यम् । गोत॑माः । अजी॑जनन् ॥
योद्धा । असि । क्रत्वा । शवसा । उत । दंसना । विश्वा । जाता । अभि । मज्मना ।
आ । त्वा । अयम् । अर्कः । ऊतये । ववर्तति । यम् । गोतमाः । अजीजनन् ॥
yóddhā ǀ asi ǀ krátvā ǀ śávasā ǀ utá ǀ daṃsánā ǀ víśvā ǀ jātā́ ǀ abhí ǀ majmánā ǀ
ā́ ǀ tvā ǀ ayám ǀ arkáḥ ǀ ūtáye ǀ vavartati ǀ yám ǀ gótamāḥ ǀ ájījanan ǁ
yoddhā ǀ asi ǀ kratvā ǀ śavasā ǀ uta ǀ daṃsanā ǀ viśvā ǀ jātā ǀ abhi ǀ majmanā ǀ
ā ǀ tvā ǀ ayam ǀ arkaḥ ǀ ūtaye ǀ vavartati ǀ yam ǀ gotamāḥ ǀ ajījanan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.088.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.11.04
- Maṇḍala · Anuvāka · Ṛk
- 08.09.060
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.