Sūkta 84
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Uśanas Kāvya
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (4, 5, 7-9); nicṛdgāyatrī (3, 6); gāyatrī (pādanicṛdgāyatrī) (1); virāḍgāyatrī (2)
2nd set of styles gāyatrī
-
Ṛk 1
प्रेष्ठं॑ वो॒ अति॑थिं स्तु॒षे मि॒त्रमि॑व प्रि॒यं ।
अ॒ग्निं रथं॒ न वेद्यं॑ ॥प्रेष्ठं वो अतिथिं स्तुषे मित्रम् इव प्रियम् |
अग्निं रथं न वेद्यम् ||préṣṭham vo átithim stuṣé mitrámiva priyám ǀ
agním rátham ná védyam ǁpreṣṭhaṃ vo atithiṃ stuṣe mitram iva priyam |
agniṃ rathaṃ na vedyam ||प्रेष्ठ॑म् । वः॒ । अति॑थिम् । स्तु॒षे । मि॒त्रम्ऽइ॑व । प्रि॒यम् ।
अ॒ग्निम् । रथ॑म् । न । वेद्य॑म् ॥प्रेष्ठम् । वः । अतिथिम् । स्तुषे । मित्रम्ऽइव । प्रियम् ।
अग्निम् । रथम् । न । वेद्यम् ॥préṣṭham ǀ vaḥ ǀ átithim ǀ stuṣé ǀ mitrám-iva ǀ priyám ǀ
agním ǀ rátham ǀ ná ǀ védyam ǁpreṣṭham ǀ vaḥ ǀ atithim ǀ stuṣe ǀ mitram-iva ǀ priyam ǀ
agnim ǀ ratham ǀ na ǀ vedyam ǁ8.84.1 Aṣṭaka 6.6.5.1Anuvāka 8.9.28
-
Ṛk 2
क॒विमि॑व॒ प्रचे॑तसं॒ यं दे॒वासो॒ अध॑ द्वि॒ता ।
नि मर्त्ये॑ष्वाद॒धुः ॥कविम् इव प्रचेतसं यं देवासो अध द्विता |
नि मर्त्येष्व् आदधुः ||kavímiva prácetasam yám devā́so ádha dvitā́ ǀ
ní mártyeṣvādadhúḥ ǁkavim iva pracetasaṃ yaṃ devāso adha dvitā |
ni martyeṣv ādadhuḥ ||क॒विम्ऽइ॑व । प्रऽचे॑तसम् । यम् । दे॒वासः॑ । अध॑ । द्वि॒ता ।
नि । मर्त्ये॑षु । आ॒ऽद॒धुः ॥कविम्ऽइव । प्रऽचेतसम् । यम् । देवासः । अध । द्विता ।
नि । मर्त्येषु । आऽदधुः ॥kavím-iva ǀ prá-cetasam ǀ yám ǀ devā́saḥ ǀ ádha ǀ dvitā́ ǀ
ní ǀ mártyeṣu ǀ ā-dadhúḥ ǁkavim-iva ǀ pra-cetasam ǀ yam ǀ devāsaḥ ǀ adha ǀ dvitā ǀ
ni ǀ martyeṣu ǀ ā-dadhuḥ ǁ8.84.2 Aṣṭaka 6.6.5.2Anuvāka 8.9.29
-
Ṛk 3
त्वं य॑विष्ठ दा॒शुषो॒ नॄँः पा॑हि शृणु॒धी गिरः॑ ।
रक्षा॑ तो॒कमु॒त त्मना॑ ॥त्वं यविष्ठ दाशुषो नॄंः पाहि शृणुधी गिरः |
रक्षा तोकम् उत त्मना ||tvám yaviṣṭha dāśúṣo nṝ́m̐ḥ pāhi śṛṇudhī́ gíraḥ ǀ
rákṣā tokámutá tmánā ǁtvaṃ yaviṣṭha dāśuṣo nṝṃḥ pāhi śṛṇudhī giraḥ |
rakṣā tokam uta tmanā ||त्वम् । य॒वि॒ष्ठ॒ । दा॒शुषः॑ । नॄन् । पा॒हि॒ । शृ॒णु॒धि । गिरः॑ ।
रक्ष॑ । तो॒कम् । उ॒त । त्मना॑ ॥त्वम् । यविष्ठ । दाशुषः । नॄन् । पाहि । शृणुधि । गिरः ।
रक्ष । तोकम् । उत । त्मना ॥tvám ǀ yaviṣṭha ǀ dāśúṣaḥ ǀ nṝ́n ǀ pāhi ǀ śṛṇudhí ǀ gíraḥ ǀ
rákṣa ǀ tokám ǀ utá ǀ tmánā ǁtvam ǀ yaviṣṭha ǀ dāśuṣaḥ ǀ nṝn ǀ pāhi ǀ śṛṇudhi ǀ giraḥ ǀ
rakṣa ǀ tokam ǀ uta ǀ tmanā ǁ8.84.3 Aṣṭaka 6.6.5.3Anuvāka 8.9.30
-
Ṛk 4
कया॑ ते अग्ने अंगिर॒ ऊर्जो॑ नपा॒दुप॑स्तुतिं ।
वरा॑य देव म॒न्यवे॑ ॥कया ते अग्ने अङ्गिर ऊर्जो नपाद् उपस्तुतिम् |
वराय देव मन्यवे ||káyā te agne aṅgira ū́rjo napādúpastutim ǀ
várāya deva manyáve ǁkayā te agne aṅgira ūrjo napād upastutim |
varāya deva manyave ||कया॑ । ते॒ । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ । ऊर्जः॑ । न॒पा॒त् । उप॑ऽस्तुतिम् ।
वरा॑य । दे॒व॒ । म॒न्यवे॑ ॥कया । ते । अग्ने । अङ्गिरः । ऊर्जः । नपात् । उपऽस्तुतिम् ।
वराय । देव । मन्यवे ॥káyā ǀ te ǀ agne ǀ aṅgiraḥ ǀ ū́rjaḥ ǀ napāt ǀ úpa-stutim ǀ
várāya ǀ deva ǀ manyáve ǁkayā ǀ te ǀ agne ǀ aṅgiraḥ ǀ ūrjaḥ ǀ napāt ǀ upa-stutim ǀ
varāya ǀ deva ǀ manyave ǁ8.84.4 Aṣṭaka 6.6.5.4Anuvāka 8.9.31
-
Ṛk 5
दाशे॑म॒ कस्य॒ मन॑सा य॒ज्ञस्य॑ सहसो यहो ।
कदु॑ वोच इ॒दं नमः॑ ॥दाशेम कस्य मनसा यज्ञस्य सहसो यहो |
कद् उ वोच इदं नमः ||dā́śema kásya mánasā yajñásya sahaso yaho ǀ
kádu voca idám námaḥ ǁdāśema kasya manasā yajñasya sahaso yaho |
kad u voca idaṃ namaḥ ||दाशे॑म । कस्य॑ । मन॑सा । य॒ज्ञस्य॑ । स॒ह॒सः॒ । य॒हो॒ इति॑ ।
कत् । ऊं॒ इति॑ । वो॒चे॒ । इ॒दम् । नमः॑ ॥दाशेम । कस्य । मनसा । यज्ञस्य । सहसः । यहो इति ।
कत् । ऊं इति । वोचे । इदम् । नमः ॥dā́śema ǀ kásya ǀ mánasā ǀ yajñásya ǀ sahasaḥ ǀ yaho íti ǀ
kát ǀ ūṃ íti ǀ voce ǀ idám ǀ námaḥ ǁdāśema ǀ kasya ǀ manasā ǀ yajñasya ǀ sahasaḥ ǀ yaho iti ǀ
kat ǀ ūṃ iti ǀ voce ǀ idam ǀ namaḥ ǁ8.84.5 Aṣṭaka 6.6.5.5Anuvāka 8.9.32
-
Ṛk 6
अधा॒ त्वं हि न॒स्करो॒ विश्वा॑ अ॒स्मभ्यं॑ सुक्षि॒तीः ।
वाज॑द्रविणसो॒ गिरः॑ ॥अधा त्वं हि नस् करो विश्वा अस्मभ्यं सुक्षितीः |
वाजद्रविणसो गिरः ||ádhā tvám hí naskáro víśvā asmábhyam sukṣitī́ḥ ǀ
vā́jadraviṇaso gíraḥ ǁadhā tvaṃ hi nas karo viśvā asmabhyaṃ sukṣitīḥ |
vājadraviṇaso giraḥ ||अध॑ । त्वम् । हि । नः॒ । करः॑ । विश्वाः॑ । अ॒स्मभ्य॑म् । सु॒ऽक्षि॒तीः ।
वाज॑ऽद्रविणसः । गिरः॑ ॥अध । त्वम् । हि । नः । करः । विश्वाः । अस्मभ्यम् । सुऽक्षितीः ।
वाजऽद्रविणसः । गिरः ॥ádha ǀ tvám ǀ hí ǀ naḥ ǀ káraḥ ǀ víśvāḥ ǀ asmábhyam ǀ su-kṣitī́ḥ ǀ
vā́ja-draviṇasaḥ ǀ gíraḥ ǁadha ǀ tvam ǀ hi ǀ naḥ ǀ karaḥ ǀ viśvāḥ ǀ asmabhyam ǀ su-kṣitīḥ ǀ
vāja-draviṇasaḥ ǀ giraḥ ǁ8.84.6 Aṣṭaka 6.6.6.1Anuvāka 8.9.33
-
Ṛk 7
कस्य॑ नू॒नं परी॑णसो॒ धियो॑ जिन्वसि दंपते ।
गोषा॑ता॒ यस्य॑ ते॒ गिरः॑ ॥कस्य नूनम् परीणसो धियो जिन्वसि दम्पते |
गोषाता यस्य ते गिरः ||kásya nūnám párīṇaso dhíyo jinvasi dampate ǀ
góṣātā yásya te gíraḥ ǁkasya nūnam parīṇaso dhiyo jinvasi dampate |
goṣātā yasya te giraḥ ||कस्य॑ । नू॒नम् । परी॑णसः । धियः॑ । जि॒न्व॒सि॒ । द॒म्ऽप॒ते॒ ।
गोऽसा॑ता । यस्य॑ । ते॒ । गिरः॑ ॥कस्य । नूनम् । परीणसः । धियः । जिन्वसि । दम्ऽपते ।
गोऽसाता । यस्य । ते । गिरः ॥kásya ǀ nūnám ǀ párīṇasaḥ ǀ dhíyaḥ ǀ jinvasi ǀ dam-pate ǀ
gó-sātā ǀ yásya ǀ te ǀ gíraḥ ǁkasya ǀ nūnam ǀ parīṇasaḥ ǀ dhiyaḥ ǀ jinvasi ǀ dam-pate ǀ
go-sātā ǀ yasya ǀ te ǀ giraḥ ǁ8.84.7 Aṣṭaka 6.6.6.2Anuvāka 8.9.34
-
Ṛk 8
तं म॑र्जयंत सु॒क्रतुं॑ पुरो॒यावा॑नमा॒जिषु॑ ।
स्वेषु॒ क्षये॑षु वा॒जिनं॑ ॥तम् मर्जयन्त सुक्रतुम् पुरोयावानम् आजिषु |
स्वेषु क्षयेषु वाजिनम् ||tám marjayanta sukrátum puroyā́vānamājíṣu ǀ
svéṣu kṣáyeṣu vājínam ǁtam marjayanta sukratum puroyāvānam ājiṣu |
sveṣu kṣayeṣu vājinam ||तम् । म॒र्ज॒य॒न्त॒ । सु॒ऽक्रतु॑म् । पु॒रः॒ऽयावा॑नम् । आ॒जिषु॑ ।
स्वेषु॑ । क्षये॑षु । वा॒जिन॑म् ॥तम् । मर्जयन्त । सुऽक्रतुम् । पुरःऽयावानम् । आजिषु ।
स्वेषु । क्षयेषु । वाजिनम् ॥tám ǀ marjayanta ǀ su-krátum ǀ puraḥ-yā́vānam ǀ ājíṣu ǀ
svéṣu ǀ kṣáyeṣu ǀ vājínam ǁtam ǀ marjayanta ǀ su-kratum ǀ puraḥ-yāvānam ǀ ājiṣu ǀ
sveṣu ǀ kṣayeṣu ǀ vājinam ǁ8.84.8 Aṣṭaka 6.6.6.3Anuvāka 8.9.35
-
Ṛk 9
क्षेति॒ क्षेमे॑भिः सा॒धुभि॒र्नकि॒र्यं घ्नंति॒ हंति॒ यः ।
अग्ने॑ सु॒वीर॑ एधते ॥क्षेति क्षेमेभिः साधुभिर् नकिर् यं घ्नन्ति हन्ति यः |
अग्ने सुवीर एधते ||kṣéti kṣémebhiḥ sādhúbhirnákiryám ghnánti hánti yáḥ ǀ
ágne suvī́ra edhate ǁkṣeti kṣemebhiḥ sādhubhir nakir yaṃ ghnanti hanti yaḥ |
agne suvīra edhate ||क्षेति॑ । क्षेमे॑भिः । सा॒धुऽभिः॑ । नकिः॑ । यम् । घ्नन्ति॑ । हन्ति॑ । यः ।
अग्ने॑ । सु॒ऽवीरः॑ । ए॒ध॒ते॒ ॥क्षेति । क्षेमेभिः । साधुऽभिः । नकिः । यम् । घ्नन्ति । हन्ति । यः ।
अग्ने । सुऽवीरः । एधते ॥kṣéti ǀ kṣémebhiḥ ǀ sādhú-bhiḥ ǀ nákiḥ ǀ yám ǀ ghnánti ǀ hánti ǀ yáḥ ǀ
ágne ǀ su-vī́raḥ ǀ edhate ǁkṣeti ǀ kṣemebhiḥ ǀ sādhu-bhiḥ ǀ nakiḥ ǀ yam ǀ ghnanti ǀ hanti ǀ yaḥ ǀ
agne ǀ su-vīraḥ ǀ edhate ǁ8.84.9 Aṣṭaka 6.6.6.4Anuvāka 8.9.36
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.