Ṛgveda · Maṇḍala 8

Sūkta 23

Agni · Viśvamanas Vaiyaśva · 30 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Viśvamanas Vaiyaśva
Chandas छन्दस्
Uṣṇih
Metres by ṛk

1st set of styles nicṛduṣṇik (1, 3, 10, 14-16, 19-22, 26, 27); virāḍuṣnik (2, 4, 5, 7, 11, 17, 25, 29, 30); uṣṇik (6, 8, 9, 13, 18); pādanicṛduṣṇik (12, 23, 28); ārcīsvarāḍuṣṇik (24)

2nd set of styles uṣṇih

  1. Ṛk 1

    ईळि॑ष्वा॒ हि प्र॑ती॒व्यं१॒॑ यज॑स्व जा॒तवे॑दसं ।
    च॒रि॒ष्णुधू॑म॒मगृ॑भीतशोचिषं ॥

    ईऌइष्वा हि प्रतीव्यं यजस्व जातवेदसम् |
    चरिष्णुधूमम् अगृभीतशोचिषम् ||

    ī́ḷiṣvā hí pratīvyám yájasva jātávedasam ǀ
    cariṣṇúdhūmamágṛbhītaśociṣam ǁ

    īḷiṣvā hi pratīvyaṃ yajasva jātavedasam |
    cariṣṇudhūmam agṛbhītaśociṣam ||

    ईळि॑ष्व । हि । प्र॒ती॒व्य॑म् । यज॑स्व । जा॒तऽवे॑दसम् ।
    च॒रि॒ष्णुऽधू॑मम् । अगृ॑भीतऽशोचिषम् ॥

    ईळिष्व । हि । प्रतीव्यम् । यजस्व । जातऽवेदसम् ।
    चरिष्णुऽधूमम् । अगृभीतऽशोचिषम् ॥

    ī́ḷiṣva ǀ hí ǀ pratīvyám ǀ yájasva ǀ jātá-vedasam ǀ
    cariṣṇú-dhūmam ǀ ágṛbhīta-śociṣam ǁ

    īḷiṣva ǀ hi ǀ pratīvyam ǀ yajasva ǀ jāta-vedasam ǀ
    cariṣṇu-dhūmam ǀ agṛbhīta-śociṣam ǁ

    8.23.1 Aṣṭaka 6.2.9.1Anuvāka 8.4.37

  2. Ṛk 2

    दा॒मानं॑ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा ।
    उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा॑नां ॥

    दामानं विश्वचर्षणे ऽग्निं विश्वमनो गिरा |
    उत स्तुषे विष्पर्धसो रथानाम् ||

    dāmā́nam viśvacarṣaṇe’gním viśvamano girā́ ǀ
    utá stuṣe víṣpardhaso ráthānām ǁ

    dāmānaṃ viśvacarṣaṇe 'gniṃ viśvamano girā |
    uta stuṣe viṣpardhaso rathānām ||

    दा॒मान॑म् । वि॒श्व॒ऽच॒र्ष॒णे॒ । अ॒ग्निम् । वि॒श्व॒ऽम॒नः॒ । गि॒रा ।
    उ॒त । स्तु॒षे॒ । विऽस्प॑र्धसः । रथा॑नाम् ॥

    दामानम् । विश्वऽचर्षणे । अग्निम् । विश्वऽमनः । गिरा ।
    उत । स्तुषे । विऽस्पर्धसः । रथानाम् ॥

    dāmā́nam ǀ viśva-carṣaṇe ǀ agním ǀ viśva-manaḥ ǀ girā́ ǀ
    utá ǀ stuṣe ǀ ví-spardhasaḥ ǀ ráthānām ǁ

    dāmānam ǀ viśva-carṣaṇe ǀ agnim ǀ viśva-manaḥ ǀ girā ǀ
    uta ǀ stuṣe ǀ vi-spardhasaḥ ǀ rathānām ǁ

    8.23.2 Aṣṭaka 6.2.9.2Anuvāka 8.4.38

  3. Ṛk 3

    येषा॑माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे॑ ।
    उ॒प॒विदा॒ वह्नि॑र्विंदते॒ वसु॑ ॥

    येषाम् आबाध ऋग्मिय इषः पृक्षश् च निग्रभे |
    उपविदा वह्निर् विन्दते वसु ||

    yéṣāmābādhá ṛgmíya iṣáḥ pṛkṣáśca nigrábhe ǀ
    upavídā váhnirvindate vásu ǁ

    yeṣām ābādha ṛgmiya iṣaḥ pṛkṣaś ca nigrabhe |
    upavidā vahnir vindate vasu ||

    येषा॑म् । आ॒ऽबा॒धः । ऋ॒ग्मियः॑ । इ॒षः । पृ॒क्षः । च॒ । नि॒ऽग्रभे॑ ।
    उ॒प॒ऽविदा॑ । वह्निः॑ । वि॒न्द॒ते॒ । वसु॑ ॥

    येषाम् । आऽबाधः । ऋग्मियः । इषः । पृक्षः । च । निऽग्रभे ।
    उपऽविदा । वह्निः । विन्दते । वसु ॥

    yéṣām ǀ ā-bādháḥ ǀ ṛgmíyaḥ ǀ iṣáḥ ǀ pṛkṣáḥ ǀ ca ǀ ni-grábhe ǀ
    upa-vídā ǀ váhniḥ ǀ vindate ǀ vásu ǁ

    yeṣām ǀ ā-bādhaḥ ǀ ṛgmiyaḥ ǀ iṣaḥ ǀ pṛkṣaḥ ǀ ca ǀ ni-grabhe ǀ
    upa-vidā ǀ vahniḥ ǀ vindate ǀ vasu ǁ

    8.23.3 Aṣṭaka 6.2.9.3Anuvāka 8.4.39

  4. Ṛk 4

    उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्य१॒॑जरं॑ ।
    तपु॑र्जंभस्य सु॒द्युतो॑ गण॒श्रियः॑ ॥

    उद् अस्य शोचिर् अस्थाद् दीदियुषो व्य् अजरम् |
    तपुर्जम्भस्य सुद्युतो गणश्रियः ||

    údasya śocírasthāddīdiyúṣo vyájáram ǀ
    tápurjambhasya sudyúto gaṇaśríyaḥ ǁ

    ud asya śocir asthād dīdiyuṣo vy ajaram |
    tapurjambhasya sudyuto gaṇaśriyaḥ ||

    उत् । अ॒स्य॒ । शो॒चिः । अ॒स्था॒त् । दी॒दि॒युषः॑ । वि । अ॒जर॑म् ।
    तपुः॑ऽजम्भस्य । सु॒ऽद्युतः॑ । ग॒ण॒ऽश्रियः॑ ॥

    उत् । अस्य । शोचिः । अस्थात् । दीदियुषः । वि । अजरम् ।
    तपुःऽजम्भस्य । सुऽद्युतः । गणऽश्रियः ॥

    út ǀ asya ǀ śocíḥ ǀ asthāt ǀ dīdiyúṣaḥ ǀ ví ǀ ajáram ǀ
    tápuḥ-jambhasya ǀ su-dyútaḥ ǀ gaṇa-śríyaḥ ǁ

    ut ǀ asya ǀ śociḥ ǀ asthāt ǀ dīdiyuṣaḥ ǀ vi ǀ ajaram ǀ
    tapuḥ-jambhasya ǀ su-dyutaḥ ǀ gaṇa-śriyaḥ ǁ

    8.23.4 Aṣṭaka 6.2.9.4Anuvāka 8.4.40

  5. Ṛk 5

    उदु॑ तिष्ठ स्वध्वर॒ स्तवा॑नो दे॒व्या कृ॒पा ।
    अ॒भि॒ख्या भा॒सा बृ॑ह॒ता शु॑शु॒क्वनिः॑ ॥

    उद् उ तिष्ठ स्वध्वर स्तवानो देव्या कृपा |
    अभिख्या भासा बृहता शुशुक्वनिः ||

    údu tiṣṭha svadhvara stávāno devyā́ kṛpā́ ǀ
    abhikhyā́ bhāsā́ bṛhatā́ śuśukvániḥ ǁ

    ud u tiṣṭha svadhvara stavāno devyā kṛpā |
    abhikhyā bhāsā bṛhatā śuśukvaniḥ ||

    उत् । ऊं॒ इति॑ । ति॒ष्ठ॒ । सु॒ऽअ॒ध्व॒र॒ । स्तवा॑नः । दे॒व्या । कृ॒पा ।
    अ॒भि॒ऽख्या । भा॒सा । बृ॒ह॒ता । शु॒शु॒क्वनिः॑ ॥

    उत् । ऊं इति । तिष्ठ । सुऽअध्वर । स्तवानः । देव्या । कृपा ।
    अभिऽख्या । भासा । बृहता । शुशुक्वनिः ॥

    út ǀ ūṃ íti ǀ tiṣṭha ǀ su-adhvara ǀ stávānaḥ ǀ devyā́ ǀ kṛpā́ ǀ
    abhi-khyā́ ǀ bhāsā́ ǀ bṛhatā́ ǀ śuśukvániḥ ǁ

    ut ǀ ūṃ iti ǀ tiṣṭha ǀ su-adhvara ǀ stavānaḥ ǀ devyā ǀ kṛpā ǀ
    abhi-khyā ǀ bhāsā ǀ bṛhatā ǀ śuśukvaniḥ ǁ

    8.23.5 Aṣṭaka 6.2.9.5Anuvāka 8.4.41

  6. Ṛk 6

    अग्ने॑ या॒हि सु॑श॒स्तिभि॑र्ह॒व्या जुह्वा॑न आनु॒षक् ।
    यथा॑ दू॒तो ब॒भूथ॑ हव्य॒वाह॑नः ॥

    अग्ने याहि सुशस्तिभिर् हव्या जुह्वान आनुषक् |
    यथा दूतो बभूथ हव्यवाहनः ||

    ágne yāhí suśastíbhirhavyā́ júhvāna ānuṣák ǀ
    yáthā dūtó babhū́tha havyavā́hanaḥ ǁ

    agne yāhi suśastibhir havyā juhvāna ānuṣak |
    yathā dūto babhūtha havyavāhanaḥ ||

    अग्ने॑ । या॒हि । सु॒श॒स्तिऽभिः॑ । ह॒व्या । जुह्वा॑नः । आ॒नु॒षक् ।
    यथा॑ । दू॒तः । ब॒भूथ॑ । ह॒व्य॒ऽवाह॑नः ॥

    अग्ने । याहि । सुशस्तिऽभिः । हव्या । जुह्वानः । आनुषक् ।
    यथा । दूतः । बभूथ । हव्यऽवाहनः ॥

    ágne ǀ yāhí ǀ suśastí-bhiḥ ǀ havyā́ ǀ júhvānaḥ ǀ ānuṣák ǀ
    yáthā ǀ dūtáḥ ǀ babhū́tha ǀ havya-vā́hanaḥ ǁ

    agne ǀ yāhi ǀ suśasti-bhiḥ ǀ havyā ǀ juhvānaḥ ǀ ānuṣak ǀ
    yathā ǀ dūtaḥ ǀ babhūtha ǀ havya-vāhanaḥ ǁ

    8.23.6 Aṣṭaka 6.2.10.1Anuvāka 8.4.42

  7. Ṛk 7

    अ॒ग्निं वः॑ पू॒र्व्यं हु॑वे॒ होता॑रं चर्षणी॒नां ।
    तम॒या वा॒चा गृ॑णे॒ तमु॑ वः स्तुषे ॥

    अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् |
    तम् अया वाचा गृणे तम् उ व स्तुषे ||

    agním vaḥ pūrvyám huve hótāram carṣaṇīnā́m ǀ
    támayā́ vācā́ gṛṇe támu vaḥ stuṣe ǁ

    agniṃ vaḥ pūrvyaṃ huve hotāraṃ carṣaṇīnām |
    tam ayā vācā gṛṇe tam u va stuṣe ||

    अ॒ग्निम् । वः॒ । पू॒र्व्यम् । हु॒वे॒ । होता॑रम् । च॒र्ष॒णी॒नाम् ।
    तम् । अ॒या । वा॒चा । गृ॒णे॒ । तम् । ऊं॒ इति॑ । वः॒ । स्तु॒षे॒ ॥

    अग्निम् । वः । पूर्व्यम् । हुवे । होतारम् । चर्षणीनाम् ।
    तम् । अया । वाचा । गृणे । तम् । ऊं इति । वः । स्तुषे ॥

    agním ǀ vaḥ ǀ pūrvyám ǀ huve ǀ hótāram ǀ carṣaṇīnā́m ǀ
    tám ǀ ayā́ ǀ vācā́ ǀ gṛṇe ǀ tám ǀ ūṃ íti ǀ vaḥ ǀ stuṣe ǁ

    agnim ǀ vaḥ ǀ pūrvyam ǀ huve ǀ hotāram ǀ carṣaṇīnām ǀ
    tam ǀ ayā ǀ vācā ǀ gṛṇe ǀ tam ǀ ūṃ iti ǀ vaḥ ǀ stuṣe ǁ

    8.23.7 Aṣṭaka 6.2.10.2Anuvāka 8.4.43

  8. Ṛk 8

    य॒ज्ञेभि॒रद्भु॑तक्रतुं॒ यं कृ॒पा सू॒दयं॑त॒ इत् ।
    मि॒त्रं न जने॒ सुधि॑तमृ॒ताव॑नि ॥

    यज्ञेभिर् अद्भुतक्रतुं यं कृपा सूदयन्त इत् |
    मित्रं न जने सुधितम् ऋतावनि ||

    yajñébhirádbhutakratum yám kṛpā́ sūdáyanta ít ǀ
    mitrám ná jáne súdhitamṛtā́vani ǁ

    yajñebhir adbhutakratuṃ yaṃ kṛpā sūdayanta it |
    mitraṃ na jane sudhitam ṛtāvani ||

    य॒ज्ञेभिः॑ । अद्भु॑तऽक्रतुम् । यम् । कृ॒पा । सू॒दय॑न्ते । इत् ।
    मि॒त्रम् । न । जने॑ । सुऽधि॑तम् । ऋ॒तऽव॑नि ॥

    यज्ञेभिः । अद्भुतऽक्रतुम् । यम् । कृपा । सूदयन्ते । इत् ।
    मित्रम् । न । जने । सुऽधितम् । ऋतऽवनि ॥

    yajñébhiḥ ǀ ádbhuta-kratum ǀ yám ǀ kṛpā́ ǀ sūdáyante ǀ ít ǀ
    mitrám ǀ ná ǀ jáne ǀ sú-dhitam ǀ ṛtá-vani ǁ

    yajñebhiḥ ǀ adbhuta-kratum ǀ yam ǀ kṛpā ǀ sūdayante ǀ it ǀ
    mitram ǀ na ǀ jane ǀ su-dhitam ǀ ṛta-vani ǁ

    8.23.8 Aṣṭaka 6.2.10.3Anuvāka 8.4.44

  9. Ṛk 9

    ऋ॒तावा॑नमृतायवो य॒ज्ञस्य॒ साध॑नं गि॒रा ।
    उपो॑ एनं जुजुषु॒र्नम॑सस्प॒दे ॥

    ऋतावानम् ऋतायवो यज्ञस्य साधनं गिरा |
    उपो एनं जुजुषुर् नमसस् पदे ||

    ṛtā́vānamṛtāyavo yajñásya sā́dhanam girā́ ǀ
    úpo enam jujuṣurnámasaspadé ǁ

    ṛtāvānam ṛtāyavo yajñasya sādhanaṃ girā |
    upo enaṃ jujuṣur namasas pade ||

    ऋ॒तऽवा॑नम् । ऋ॒त॒ऽय॒वः॒ । य॒ज्ञस्य॑ । साध॑नम् । गि॒रा ।
    उषः॑ । ए॒न॒म् । जु॒जु॒षुः॒ । नम॑सः । प॒दे ॥

    ऋतऽवानम् । ऋतऽयवः । यज्ञस्य । साधनम् । गिरा ।
    उषः । एनम् । जुजुषुः । नमसः । पदे ॥

    ṛtá-vānam ǀ ṛta-yavaḥ ǀ yajñásya ǀ sā́dhanam ǀ girā́ ǀ
    úṣaḥ ǀ enam ǀ jujuṣuḥ ǀ námasaḥ ǀ padé ǁ

    ṛta-vānam ǀ ṛta-yavaḥ ǀ yajñasya ǀ sādhanam ǀ girā ǀ
    uṣaḥ ǀ enam ǀ jujuṣuḥ ǀ namasaḥ ǀ pade ǁ

    8.23.9 Aṣṭaka 6.2.10.4Anuvāka 8.4.45

  10. Ṛk 10

    अच्छा॑ नो॒ अंगि॑रस्तमं य॒ज्ञासो॑ यंतु सं॒यतः॑ ।
    होता॒ यो अस्ति॑ वि॒क्ष्वा य॒शस्त॑मः ॥

    अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः |
    होता यो अस्ति विक्ष्व् आ यशस्तमः ||

    ácchā no áṅgirastamam yajñā́so yantu saṃyátaḥ ǀ
    hótā yó ásti vikṣvā́ yaśástamaḥ ǁ

    acchā no aṅgirastamaṃ yajñāso yantu saṃyataḥ |
    hotā yo asti vikṣv ā yaśastamaḥ ||

    अच्छ॑ । नः॒ । अङ्गि॑रःऽतमम् । य॒ज्ञासः॑ । य॒न्तु॒ । स॒म्ऽयतः॑ ।
    होता॑ । यः । अस्ति॑ । वि॒क्षु । आ । य॒शःऽत॑मः ॥

    अच्छ । नः । अङ्गिरःऽतमम् । यज्ञासः । यन्तु । सम्ऽयतः ।
    होता । यः । अस्ति । विक्षु । आ । यशःऽतमः ॥

    áccha ǀ naḥ ǀ áṅgiraḥ-tamam ǀ yajñā́saḥ ǀ yantu ǀ sam-yátaḥ ǀ
    hótā ǀ yáḥ ǀ ásti ǀ vikṣú ǀ ā́ ǀ yaśáḥ-tamaḥ ǁ

    accha ǀ naḥ ǀ aṅgiraḥ-tamam ǀ yajñāsaḥ ǀ yantu ǀ sam-yataḥ ǀ
    hotā ǀ yaḥ ǀ asti ǀ vikṣu ǀ ā ǀ yaśaḥ-tamaḥ ǁ

    8.23.10 Aṣṭaka 6.2.10.5Anuvāka 8.4.46

  11. Ṛk 11

    अग्ने॒ तव॒ त्ये अ॑ज॒रेंधा॑नासो बृ॒हद्भाः ।
    अश्वा॑ इव॒ वृष॑णस्तविषी॒यवः॑ ॥

    अग्ने तव त्ये अजरेन्धानासो बृहद् भाः |
    अश्वा इव वृषणस् तविषीयवः ||

    ágne táva tyé ajaréndhānāso bṛhádbhā́ḥ ǀ
    áśvā iva vṛ́ṣaṇastaviṣīyávaḥ ǁ

    agne tava tye ajarendhānāso bṛhad bhāḥ |
    aśvā iva vṛṣaṇas taviṣīyavaḥ ||

    अग्ने॑ । तव॑ । त्ये । अ॒ज॒र॒ । इन्धा॑नासः । बृ॒हत् । भाः ।
    अश्वाः॑ऽइव । वृष॑णः । त॒वि॒षी॒ऽयवः॑ ॥

    अग्ने । तव । त्ये । अजर । इन्धानासः । बृहत् । भाः ।
    अश्वाःऽइव । वृषणः । तविषीऽयवः ॥

    ágne ǀ táva ǀ tyé ǀ ajara ǀ índhānāsaḥ ǀ bṛhát ǀ bhā́ḥ ǀ
    áśvāḥ-iva ǀ vṛ́ṣaṇaḥ ǀ taviṣī-yávaḥ ǁ

    agne ǀ tava ǀ tye ǀ ajara ǀ indhānāsaḥ ǀ bṛhat ǀ bhāḥ ǀ
    aśvāḥ-iva ǀ vṛṣaṇaḥ ǀ taviṣī-yavaḥ ǁ

    8.23.11 Aṣṭaka 6.2.11.1Anuvāka 8.4.47

  12. Ṛk 12

    स त्वं न॑ ऊर्जां पते र॒यिं रा॑स्व सु॒वीर्यं॑ ।
    प्राव॑ नस्तो॒के तन॑ये स॒मत्स्वा ॥

    स त्वं न ऊर्जाम् पते रयिं रास्व सुवीर्यम् |
    प्राव नस् तोके तनये समत्स्व् आ ||

    sá tvám na ūrjām pate rayím rāsva suvī́ryam ǀ
    prā́va nastoké tánaye samátsvā́ ǁ

    sa tvaṃ na ūrjām pate rayiṃ rāsva suvīryam |
    prāva nas toke tanaye samatsv ā ||

    सः । त्वम् । नः॒ । ऊ॒र्जा॒म् । प॒ते॒ । र॒यिम् । रा॒स्व॒ । सु॒ऽवीर्य॑म् ।
    प्र । अ॒व॒ । नः॒ । तो॒के । तन॑ये । स॒मत्ऽसु॑ । आ ॥

    सः । त्वम् । नः । ऊर्जाम् । पते । रयिम् । रास्व । सुऽवीर्यम् ।
    प्र । अव । नः । तोके । तनये । समत्ऽसु । आ ॥

    sáḥ ǀ tvám ǀ naḥ ǀ ūrjām ǀ pate ǀ rayím ǀ rāsva ǀ su-vī́ryam ǀ
    prá ǀ ava ǀ naḥ ǀ toké ǀ tánaye ǀ samát-su ǀ ā́ ǁ

    saḥ ǀ tvam ǀ naḥ ǀ ūrjām ǀ pate ǀ rayim ǀ rāsva ǀ su-vīryam ǀ
    pra ǀ ava ǀ naḥ ǀ toke ǀ tanaye ǀ samat-su ǀ ā ǁ

    8.23.12 Aṣṭaka 6.2.11.2Anuvāka 8.4.48

  13. Ṛk 13

    यद्वा उ॑ वि॒श्पतिः॑ शि॒तः सुप्री॑तो॒ मनु॑षो वि॒शि ।
    विश्वेद॒ग्निः प्रति॒ रक्षां॑सि सेधति ॥

    यद् वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि |
    विश्वेद् अग्निः प्रति रक्षांसि सेधति ||

    yádvā́ u viśpátiḥ śitáḥ súprīto mánuṣo viśí ǀ
    víśvédagníḥ práti rákṣāṃsi sedhati ǁ

    yad vā u viśpatiḥ śitaḥ suprīto manuṣo viśi |
    viśved agniḥ prati rakṣāṃsi sedhati ||

    यत् । वै । ऊं॒ इति॑ । वि॒श्पतिः॑ । शि॒तः । सुऽप्री॑तः । मनु॑षः । वि॒शि ।
    विश्वा॑ । इत् । अ॒ग्निः । प्रति॑ । रक्षां॑सि । से॒ध॒ति॒ ॥

    यत् । वै । ऊं इति । विश्पतिः । शितः । सुऽप्रीतः । मनुषः । विशि ।
    विश्वा । इत् । अग्निः । प्रति । रक्षांसि । सेधति ॥

    yát ǀ vái ǀ ūṃ íti ǀ viśpátiḥ ǀ śitáḥ ǀ sú-prītaḥ ǀ mánuṣaḥ ǀ viśí ǀ
    víśvā ǀ ít ǀ agníḥ ǀ práti ǀ rákṣāṃsi ǀ sedhati ǁ

    yat ǀ vai ǀ ūṃ iti ǀ viśpatiḥ ǀ śitaḥ ǀ su-prītaḥ ǀ manuṣaḥ ǀ viśi ǀ
    viśvā ǀ it ǀ agniḥ ǀ prati ǀ rakṣāṃsi ǀ sedhati ǁ

    8.23.13 Aṣṭaka 6.2.11.3Anuvāka 8.4.49

  14. Ṛk 14

    श्रु॒ष्ट्य॑ग्ने॒ नव॑स्य मे॒ स्तोम॑स्य वीर विश्पते ।
    नि मा॒यिन॒स्तपु॑षा र॒क्षसो॑ दह ॥

    श्रुष्ट्य् अग्ने नवस्य मे स्तोमस्य वीर विश्पते |
    नि मायिनस् तपुषा रक्षसो दह ||

    śruṣṭyágne návasya me stómasya vīra viśpate ǀ
    ní māyínastápuṣā rakṣáso daha ǁ

    śruṣṭy agne navasya me stomasya vīra viśpate |
    ni māyinas tapuṣā rakṣaso daha ||

    श्रु॒ष्टी । अ॒ग्ने॒ । नव॑स्य । मे॒ । स्तोम॑स्य । वी॒र॒ । वि॒श्प॒ते॒ ।
    नि । मा॒यिनः॑ । तपु॑षा । र॒क्षसः॑ । द॒ह॒ ॥

    श्रुष्टी । अग्ने । नवस्य । मे । स्तोमस्य । वीर । विश्पते ।
    नि । मायिनः । तपुषा । रक्षसः । दह ॥

    śruṣṭī́ ǀ agne ǀ návasya ǀ me ǀ stómasya ǀ vīra ǀ viśpate ǀ
    ní ǀ māyínaḥ ǀ tápuṣā ǀ rakṣásaḥ ǀ daha ǁ

    śruṣṭī ǀ agne ǀ navasya ǀ me ǀ stomasya ǀ vīra ǀ viśpate ǀ
    ni ǀ māyinaḥ ǀ tapuṣā ǀ rakṣasaḥ ǀ daha ǁ

    8.23.14 Aṣṭaka 6.2.11.4Anuvāka 8.4.50

  15. Ṛk 15

    न तस्य॑ मा॒यया॑ च॒न रि॒पुरी॑शीत॒ मर्त्यः॑ ।
    यो अ॒ग्नये॑ द॒दाश॑ ह॒व्यदा॑तिभिः ॥

    न तस्य मायया चन रिपुर् ईशीत मर्त्यः |
    यो अग्नये ददाश हव्यदातिभिः ||

    ná tásya māyáyā caná ripúrīśīta mártyaḥ ǀ
    yó agnáye dadā́śa havyádātibhiḥ ǁ

    na tasya māyayā cana ripur īśīta martyaḥ |
    yo agnaye dadāśa havyadātibhiḥ ||

    न । तस्य॑ । मा॒यया॑ । च॒न । रि॒पुः । ई॒शी॒त॒ । मर्त्यः॑ ।
    यः । अ॒ग्नये॑ । द॒दाश॑ । ह॒व्यदा॑तिऽभिः ॥

    न । तस्य । मायया । चन । रिपुः । ईशीत । मर्त्यः ।
    यः । अग्नये । ददाश । हव्यदातिऽभिः ॥

    ná ǀ tásya ǀ māyáyā ǀ caná ǀ ripúḥ ǀ īśīta ǀ mártyaḥ ǀ
    yáḥ ǀ agnáye ǀ dadā́śa ǀ havyádāti-bhiḥ ǁ

    na ǀ tasya ǀ māyayā ǀ cana ǀ ripuḥ ǀ īśīta ǀ martyaḥ ǀ
    yaḥ ǀ agnaye ǀ dadāśa ǀ havyadāti-bhiḥ ǁ

    8.23.15 Aṣṭaka 6.2.11.5Anuvāka 8.4.51

  16. Ṛk 16

    व्य॑श्वस्त्वा वसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषिः॑ ।
    म॒हो रा॒ये तमु॑ त्वा॒ समि॑धीमहि ॥

    व्यश्वस् त्वा वसुविदम् उक्षण्युर् अप्रीणाद् ऋषिः |
    महो राये तम् उ त्वा सम् इधीमहि ||

    vyáśvastvā vasuvídamukṣaṇyúraprīṇādṛ́ṣiḥ ǀ
    mahó rāyé támu tvā sámidhīmahi ǁ

    vyaśvas tvā vasuvidam ukṣaṇyur aprīṇād ṛṣiḥ |
    maho rāye tam u tvā sam idhīmahi ||

    विऽअ॑श्वः । त्वा॒ । व॒सु॒ऽविद॑म् । उ॒क्ष॒ण्युः । अ॒प्री॒णा॒त् । ऋषिः॑ ।
    म॒हः । रा॒ये । तम् । ऊं॒ इति॑ । त्वा॒ । सम् । इ॒धी॒म॒हि॒ ॥

    विऽअश्वः । त्वा । वसुऽविदम् । उक्षण्युः । अप्रीणात् । ऋषिः ।
    महः । राये । तम् । ऊं इति । त्वा । सम् । इधीमहि ॥

    ví-aśvaḥ ǀ tvā ǀ vasu-vídam ǀ ukṣaṇyúḥ ǀ aprīṇāt ǀ ṛ́ṣiḥ ǀ
    maháḥ ǀ rāyé ǀ tám ǀ ūṃ íti ǀ tvā ǀ sám ǀ idhīmahi ǁ

    vi-aśvaḥ ǀ tvā ǀ vasu-vidam ǀ ukṣaṇyuḥ ǀ aprīṇāt ǀ ṛṣiḥ ǀ
    mahaḥ ǀ rāye ǀ tam ǀ ūṃ iti ǀ tvā ǀ sam ǀ idhīmahi ǁ

    8.23.16 Aṣṭaka 6.2.12.1Anuvāka 8.4.52

  17. Ṛk 17

    उ॒शना॑ का॒व्यस्त्वा॒ नि होता॑रमसादयत् ।
    आ॒य॒जिं त्वा॒ मन॑वे जा॒तवे॑दसं ॥

    उशना काव्यस् त्वा नि होतारम् असादयत् |
    आयजिं त्वा मनवे जातवेदसम् ||

    uśánā kāvyástvā ní hótāramasādayat ǀ
    āyajím tvā mánave jātávedasam ǁ

    uśanā kāvyas tvā ni hotāram asādayat |
    āyajiṃ tvā manave jātavedasam ||

    उ॒शना॑ । का॒व्यः । त्वा॒ । नि । होता॑रम् । अ॒सा॒द॒य॒त् ।
    आ॒ऽय॒जिम् । त्वा॒ । मन॑वे । जा॒तऽवे॑दसम् ॥

    उशना । काव्यः । त्वा । नि । होतारम् । असादयत् ।
    आऽयजिम् । त्वा । मनवे । जातऽवेदसम् ॥

    uśánā ǀ kāvyáḥ ǀ tvā ǀ ní ǀ hótāram ǀ asādayat ǀ
    ā-yajím ǀ tvā ǀ mánave ǀ jātá-vedasam ǁ

    uśanā ǀ kāvyaḥ ǀ tvā ǀ ni ǀ hotāram ǀ asādayat ǀ
    ā-yajim ǀ tvā ǀ manave ǀ jāta-vedasam ǁ

    8.23.17 Aṣṭaka 6.2.12.2Anuvāka 8.4.53

  18. Ṛk 18

    विश्वे॒ हि त्वा॑ स॒जोष॑सो दे॒वासो॑ दू॒तमक्र॑त ।
    श्रु॒ष्टी दे॑व प्रथ॒मो य॒ज्ञियो॑ भुवः ॥

    विश्वे हि त्वा सजोषसो देवासो दूतम् अक्रत |
    श्रुष्टी देव प्रथमो यज्ञियो भुवः ||

    víśve hí tvā sajóṣaso devā́so dūtámákrata ǀ
    śruṣṭī́ deva prathamó yajñíyo bhuvaḥ ǁ

    viśve hi tvā sajoṣaso devāso dūtam akrata |
    śruṣṭī deva prathamo yajñiyo bhuvaḥ ||

    विश्वे॑ । हि । त्वा॒ । स॒ऽजोष॑सः । दे॒वासः॑ । दू॒तम् । अक्र॑त ।
    श्रु॒ष्टी । दे॒व॒ । प्र॒थ॒मः । य॒ज्ञियः॑ । भु॒वः॒ ॥

    विश्वे । हि । त्वा । सऽजोषसः । देवासः । दूतम् । अक्रत ।
    श्रुष्टी । देव । प्रथमः । यज्ञियः । भुवः ॥

    víśve ǀ hí ǀ tvā ǀ sa-jóṣasaḥ ǀ devā́saḥ ǀ dūtám ǀ ákrata ǀ
    śruṣṭī́ ǀ deva ǀ prathamáḥ ǀ yajñíyaḥ ǀ bhuvaḥ ǁ

    viśve ǀ hi ǀ tvā ǀ sa-joṣasaḥ ǀ devāsaḥ ǀ dūtam ǀ akrata ǀ
    śruṣṭī ǀ deva ǀ prathamaḥ ǀ yajñiyaḥ ǀ bhuvaḥ ǁ

    8.23.18 Aṣṭaka 6.2.12.3Anuvāka 8.4.54

  19. Ṛk 19

    इ॒मं घा॑ वी॒रो अ॒मृतं॑ दू॒तं कृ॑ण्वीत॒ मर्त्यः॑ ।
    पा॒व॒कं कृ॒ष्णव॑र्तनिं॒ विहा॑यसं ॥

    इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः |
    पावकं कृष्णवर्तनिं विहायसम् ||

    imám ghā vīró amṛ́tam dūtám kṛṇvīta mártyaḥ ǀ
    pāvakám kṛṣṇávartanim víhāyasam ǁ

    imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ |
    pāvakaṃ kṛṣṇavartaniṃ vihāyasam ||

    इ॒मम् । घ॒ । वी॒रः । अ॒मृत॑म् । दू॒तम् । कृ॒ण्वी॒त॒ । मर्त्यः॑ ।
    पा॒व॒कम् । कृ॒ष्णऽव॑र्तनिम् । विऽहा॑यसम् ॥

    इमम् । घ । वीरः । अमृतम् । दूतम् । कृण्वीत । मर्त्यः ।
    पावकम् । कृष्णऽवर्तनिम् । विऽहायसम् ॥

    imám ǀ gha ǀ vīráḥ ǀ amṛ́tam ǀ dūtám ǀ kṛṇvīta ǀ mártyaḥ ǀ
    pāvakám ǀ kṛṣṇá-vartanim ǀ ví-hāyasam ǁ

    imam ǀ gha ǀ vīraḥ ǀ amṛtam ǀ dūtam ǀ kṛṇvīta ǀ martyaḥ ǀ
    pāvakam ǀ kṛṣṇa-vartanim ǀ vi-hāyasam ǁ

    8.23.19 Aṣṭaka 6.2.12.4Anuvāka 8.4.55

  20. Ṛk 20

    तं हु॑वेम य॒तस्रु॑चः सु॒भासं॑ शु॒क्रशो॑चिषं ।
    वि॒शाम॒ग्निम॒जरं॑ प्र॒त्नमीड्यं॑ ॥

    तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम् |
    विशाम् अग्निम् अजरम् प्रत्नम् ईड्यम् ||

    tám huvema yatásrucaḥ subhā́sam śukráśociṣam ǀ
    viśā́magnímajáram pratnámī́ḍyam ǁ

    taṃ huvema yatasrucaḥ subhāsaṃ śukraśociṣam |
    viśām agnim ajaram pratnam īḍyam ||

    तम् । हु॒वे॒म॒ । य॒तऽस्रु॑चः । सु॒ऽभास॑म् । शु॒क्रऽशो॑चिषम् ।
    वि॒शाम् । अ॒ग्निम् । अ॒जर॑म् । प्र॒त्नम् । ईड्य॑म् ॥

    तम् । हुवेम । यतऽस्रुचः । सुऽभासम् । शुक्रऽशोचिषम् ।
    विशाम् । अग्निम् । अजरम् । प्रत्नम् । ईड्यम् ॥

    tám ǀ huvema ǀ yatá-srucaḥ ǀ su-bhā́sam ǀ śukrá-śociṣam ǀ
    viśā́m ǀ agním ǀ ajáram ǀ pratnám ǀ ī́ḍyam ǁ

    tam ǀ huvema ǀ yata-srucaḥ ǀ su-bhāsam ǀ śukra-śociṣam ǀ
    viśām ǀ agnim ǀ ajaram ǀ pratnam ǀ īḍyam ǁ

    8.23.20 Aṣṭaka 6.2.12.5Anuvāka 8.4.56

  21. Ṛk 21

    यो अ॑स्मै ह॒व्यदा॑तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत् ।
    भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यशः॑ ॥

    यो अस्मै हव्यदातिभिर् आहुतिम् मर्तो ऽविधत् |
    भूरि पोषं स धत्ते वीरवद् यशः ||

    yó asmai havyádātibhirā́hutim mártó’vidhat ǀ
    bhū́ri póṣam sá dhatte vīrávadyáśaḥ ǁ

    yo asmai havyadātibhir āhutim marto 'vidhat |
    bhūri poṣaṃ sa dhatte vīravad yaśaḥ ||

    यः । अ॒स्मै॒ । ह॒व्यदा॑तिऽभिः । आऽहु॑तिम् । मर्तः॑ । अवि॑धत् ।
    भूरि॑ । पोष॑म् । सः । ध॒त्ते॒ । वी॒रऽव॑त् । यशः॑ ॥

    यः । अस्मै । हव्यदातिऽभिः । आऽहुतिम् । मर्तः । अविधत् ।
    भूरि । पोषम् । सः । धत्ते । वीरऽवत् । यशः ॥

    yáḥ ǀ asmai ǀ havyádāti-bhiḥ ǀ ā́-hutim ǀ mártaḥ ǀ ávidhat ǀ
    bhū́ri ǀ póṣam ǀ sáḥ ǀ dhatte ǀ vīrá-vat ǀ yáśaḥ ǁ

    yaḥ ǀ asmai ǀ havyadāti-bhiḥ ǀ ā-hutim ǀ martaḥ ǀ avidhat ǀ
    bhūri ǀ poṣam ǀ saḥ ǀ dhatte ǀ vīra-vat ǀ yaśaḥ ǁ

    8.23.21 Aṣṭaka 6.2.13.1Anuvāka 8.4.57

  22. Ṛk 22

    प्र॒थ॒मं जा॒तवे॑दसम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं ।
    प्रति॒ स्रुगे॑ति॒ नम॑सा ह॒विष्म॑ती ॥

    प्रथमं जातवेदसम् अग्निं यज्ञेषु पूर्व्यम् |
    प्रति स्रुग् एति नमसा हविष्मती ||

    prathamám jātávedasamagním yajñéṣu pūrvyám ǀ
    práti srúgeti námasā havíṣmatī ǁ

    prathamaṃ jātavedasam agniṃ yajñeṣu pūrvyam |
    prati srug eti namasā haviṣmatī ||

    प्र॒थ॒मम् । जा॒तऽवे॑दसम् । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ।
    प्रति॑ । स्रुक् । ए॒ति॒ । नम॑सा । ह॒विष्म॑ती ॥

    प्रथमम् । जातऽवेदसम् । अग्निम् । यज्ञेषु । पूर्व्यम् ।
    प्रति । स्रुक् । एति । नमसा । हविष्मती ॥

    prathamám ǀ jātá-vedasam ǀ agním ǀ yajñéṣu ǀ pūrvyám ǀ
    práti ǀ srúk ǀ eti ǀ námasā ǀ havíṣmatī ǁ

    prathamam ǀ jāta-vedasam ǀ agnim ǀ yajñeṣu ǀ pūrvyam ǀ
    prati ǀ sruk ǀ eti ǀ namasā ǀ haviṣmatī ǁ

    8.23.22 Aṣṭaka 6.2.13.2Anuvāka 8.4.58

  23. Ṛk 23

    आभि॑र्विधेमा॒ग्नये॒ ज्येष्ठा॑भिर्व्यश्व॒वत् ।
    मंहि॑ष्ठाभिर्म॒तिभिः॑ शु॒क्रशो॑चिषे ॥

    आभिर् विधेमाग्नये ज्येष्ठाभिर् व्यश्ववत् |
    मंहिष्ठाभिर् मतिभिः शुक्रशोचिषे ||

    ā́bhirvidhemāgnáye jyéṣṭhābhirvyaśvavát ǀ
    máṃhiṣṭhābhirmatíbhiḥ śukráśociṣe ǁ

    ābhir vidhemāgnaye jyeṣṭhābhir vyaśvavat |
    maṃhiṣṭhābhir matibhiḥ śukraśociṣe ||

    आभिः॑ । वि॒धे॒म॒ । अ॒ग्नये॑ । ज्येष्ठा॑भिः । व्य॒श्व॒ऽवत् ।
    मंहि॑ष्ठाभिः । म॒तिऽभिः॑ । शु॒क्रऽशो॑चिषे ॥

    आभिः । विधेम । अग्नये । ज्येष्ठाभिः । व्यश्वऽवत् ।
    मंहिष्ठाभिः । मतिऽभिः । शुक्रऽशोचिषे ॥

    ā́bhiḥ ǀ vidhema ǀ agnáye ǀ jyéṣṭhābhiḥ ǀ vyaśva-vát ǀ
    máṃhiṣṭhābhiḥ ǀ matí-bhiḥ ǀ śukrá-śociṣe ǁ

    ābhiḥ ǀ vidhema ǀ agnaye ǀ jyeṣṭhābhiḥ ǀ vyaśva-vat ǀ
    maṃhiṣṭhābhiḥ ǀ mati-bhiḥ ǀ śukra-śociṣe ǁ

    8.23.23 Aṣṭaka 6.2.13.3Anuvāka 8.4.59

  24. Ṛk 24

    नू॒नम॑र्च॒ विहा॑यसे॒ स्तोमे॑भिः स्थूरयूप॒वत् ।
    ऋषे॑ वैयश्व॒ दम्या॑या॒ग्नये॑ ॥

    नूनम् अर्च विहायसे स्तोमेभि स्थूरयूपवत् |
    ऋषे वैयश्व दम्यायाग्नये ||

    nūnámarca víhāyase stómebhiḥ sthūrayūpavát ǀ
    ṛ́ṣe vaiyaśva dámyāyāgnáye ǁ

    nūnam arca vihāyase stomebhi sthūrayūpavat |
    ṛṣe vaiyaśva damyāyāgnaye ||

    नू॒नम् । अ॒र्च॒ । विऽहा॑यसे । स्तोमे॑भिः । स्थू॒र॒यू॒प॒ऽवत् ।
    ऋषे॑ । वै॒य॒श्व॒ । दम्या॑य । अ॒ग्नये॑ ॥

    नूनम् । अर्च । विऽहायसे । स्तोमेभिः । स्थूरयूपऽवत् ।
    ऋषे । वैयश्व । दम्याय । अग्नये ॥

    nūnám ǀ arca ǀ ví-hāyase ǀ stómebhiḥ ǀ sthūrayūpa-vát ǀ
    ṛ́ṣe ǀ vaiyaśva ǀ dámyāya ǀ agnáye ǁ

    nūnam ǀ arca ǀ vi-hāyase ǀ stomebhiḥ ǀ sthūrayūpa-vat ǀ
    ṛṣe ǀ vaiyaśva ǀ damyāya ǀ agnaye ǁ

    8.23.24 Aṣṭaka 6.2.13.4Anuvāka 8.4.60

  25. Ṛk 25

    अति॑थिं॒ मानु॑षाणां सू॒नुं वन॒स्पती॑नां ।
    विप्रा॑ अ॒ग्निमव॑से प्र॒त्नमी॑ळते ॥

    अतिथिम् मानुषाणां सूनुं वनस्पतीनाम् |
    विप्रा अग्निम् अवसे प्रत्नम् ईऌअते ||

    átithim mā́nuṣāṇām sūnúm vánaspátīnām ǀ
    víprā agnímávase pratnámīḷate ǁ

    atithim mānuṣāṇāṃ sūnuṃ vanaspatīnām |
    viprā agnim avase pratnam īḷate ||

    अति॑थिम् । मानु॑षाणाम् । सू॒नुम् । वन॒स्पती॑नाम् ।
    विप्राः॑ । अ॒ग्निम् । अव॑से । प्र॒त्नम् । ई॒ळ॒ते॒ ॥

    अतिथिम् । मानुषाणाम् । सूनुम् । वनस्पतीनाम् ।
    विप्राः । अग्निम् । अवसे । प्रत्नम् । ईळते ॥

    átithim ǀ mā́nuṣāṇām ǀ sūnúm ǀ vánaspátīnām ǀ
    víprāḥ ǀ agním ǀ ávase ǀ pratnám ǀ īḷate ǁ

    atithim ǀ mānuṣāṇām ǀ sūnum ǀ vanaspatīnām ǀ
    viprāḥ ǀ agnim ǀ avase ǀ pratnam ǀ īḷate ǁ

    8.23.25 Aṣṭaka 6.2.13.5Anuvāka 8.4.61

  26. Ṛk 26

    म॒हो विश्वाँ॑ अ॒भि ष॒तो॒३॒॑ऽभि ह॒व्यानि॒ मानु॑षा ।
    अग्ने॒ नि ष॑त्सि॒ नम॒साधि॑ ब॒र्हिषि॑ ॥

    महो विश्वां अभि षतो ऽभि हव्यानि मानुषा |
    अग्ने नि षत्सि नमसाधि बर्हिषि ||

    mahó víśvām̐ abhí ṣató’bhí havyā́ni mā́nuṣā ǀ
    ágne ní ṣatsi námasā́dhi barhíṣi ǁ

    maho viśvāṃ abhi ṣato 'bhi havyāni mānuṣā |
    agne ni ṣatsi namasādhi barhiṣi ||

    म॒हः । विश्वा॑न् । अ॒भि । स॒तः । अ॒भि । ह॒व्यानि॑ । मानु॑षा ।
    अग्ने॑ । नि । स॒त्सि॒ । नम॑सा । अधि॑ । ब॒र्हिषि॑ ॥

    महः । विश्वान् । अभि । सतः । अभि । हव्यानि । मानुषा ।
    अग्ने । नि । सत्सि । नमसा । अधि । बर्हिषि ॥

    maháḥ ǀ víśvān ǀ abhí ǀ satáḥ ǀ abhí ǀ havyā́ni ǀ mā́nuṣā ǀ
    ágne ǀ ní ǀ satsi ǀ námasā ǀ ádhi ǀ barhíṣi ǁ

    mahaḥ ǀ viśvān ǀ abhi ǀ sataḥ ǀ abhi ǀ havyāni ǀ mānuṣā ǀ
    agne ǀ ni ǀ satsi ǀ namasā ǀ adhi ǀ barhiṣi ǁ

    8.23.26 Aṣṭaka 6.2.14.1Anuvāka 8.4.62

  27. Ṛk 27

    वंस्वा॑ नो॒ वार्या॑ पु॒रु वंस्व॑ रा॒यः पु॑रु॒स्पृहः॑ ।
    सु॒वीर्य॑स्य प्र॒जाव॑तो॒ यश॑स्वतः ॥

    वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः |
    सुवीर्यस्य प्रजावतो यशस्वतः ||

    váṃsvā no vā́ryā purú váṃsva rāyáḥ puruspṛ́haḥ ǀ
    suvī́ryasya prajā́vato yáśasvataḥ ǁ

    vaṃsvā no vāryā puru vaṃsva rāyaḥ puruspṛhaḥ |
    suvīryasya prajāvato yaśasvataḥ ||

    वंस्व॑ । नः॒ । वार्या॑ । पु॒रु । वंस्व॑ । रा॒यः । पु॒रु॒ऽस्पृहः॑ ।
    सु॒ऽवीर्य॑स्य । प्र॒जाऽव॑तः । यश॑स्वतः ॥

    वंस्व । नः । वार्या । पुरु । वंस्व । रायः । पुरुऽस्पृहः ।
    सुऽवीर्यस्य । प्रजाऽवतः । यशस्वतः ॥

    váṃsva ǀ naḥ ǀ vā́ryā ǀ purú ǀ váṃsva ǀ rāyáḥ ǀ puru-spṛ́haḥ ǀ
    su-vī́ryasya ǀ prajā́-vataḥ ǀ yáśasvataḥ ǁ

    vaṃsva ǀ naḥ ǀ vāryā ǀ puru ǀ vaṃsva ǀ rāyaḥ ǀ puru-spṛhaḥ ǀ
    su-vīryasya ǀ prajā-vataḥ ǀ yaśasvataḥ ǁ

    8.23.27 Aṣṭaka 6.2.14.2Anuvāka 8.4.63

  28. Ṛk 28

    त्वं व॑रो सु॒षाम्णेऽग्ने॒ जना॑य चोदय ।
    सदा॑ वसो रा॒तिं य॑विष्ठ॒ शश्व॑ते ॥

    त्वं वरो सुषाम्णे ऽग्ने जनाय चोदय |
    सदा वसो रातिं यविष्ठ शश्वते ||

    tvám varo suṣā́mṇé’gne jánāya codaya ǀ
    sádā vaso rātím yaviṣṭha śáśvate ǁ

    tvaṃ varo suṣāmṇe 'gne janāya codaya |
    sadā vaso rātiṃ yaviṣṭha śaśvate ||

    त्वम् । व॒रो॒ इति॑ । सु॒ऽसाम्ने॑ । अग्ने॑ । जना॑य । चो॒द॒य॒ ।
    सदा॑ । व॒सो॒ इति॑ । रा॒तिम् । य॒वि॒ष्ठ॒ । शश्व॑ते ॥

    त्वम् । वरो इति । सुऽसाम्ने । अग्ने । जनाय । चोदय ।
    सदा । वसो इति । रातिम् । यविष्ठ । शश्वते ॥

    tvám ǀ varo íti ǀ su-sā́mne ǀ ágne ǀ jánāya ǀ codaya ǀ
    sádā ǀ vaso íti ǀ rātím ǀ yaviṣṭha ǀ śáśvate ǁ

    tvam ǀ varo iti ǀ su-sāmne ǀ agne ǀ janāya ǀ codaya ǀ
    sadā ǀ vaso iti ǀ rātim ǀ yaviṣṭha ǀ śaśvate ǁ

    8.23.28 Aṣṭaka 6.2.14.3Anuvāka 8.4.64

  29. Ṛk 29

    त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिषः॑ ।
    म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि ॥

    त्वं हि सुप्रतूर् असि त्वं नो गोमतीर् इषः |
    महो रायः सातिम् अग्ने अपा वृधि ||

    tvám hí supratū́rási tvám no gómatīríṣaḥ ǀ
    mahó rāyáḥ sātímagne ápā vṛdhi ǁ

    tvaṃ hi supratūr asi tvaṃ no gomatīr iṣaḥ |
    maho rāyaḥ sātim agne apā vṛdhi ||

    त्वम् । हि । सु॒ऽप्र॒तूः । असि॑ । त्वम् । नः॒ । गोऽम॑तीः । इषः॑ ।
    म॒हः । रा॒यः । सा॒तिम् । अ॒ग्ने॒ । अप॑ । वृ॒धि॒ ॥

    त्वम् । हि । सुऽप्रतूः । असि । त्वम् । नः । गोऽमतीः । इषः ।
    महः । रायः । सातिम् । अग्ने । अप । वृधि ॥

    tvám ǀ hí ǀ su-pratū́ḥ ǀ ási ǀ tvám ǀ naḥ ǀ gó-matīḥ ǀ íṣaḥ ǀ
    maháḥ ǀ rāyáḥ ǀ sātím ǀ agne ǀ ápa ǀ vṛdhi ǁ

    tvam ǀ hi ǀ su-pratūḥ ǀ asi ǀ tvam ǀ naḥ ǀ go-matīḥ ǀ iṣaḥ ǀ
    mahaḥ ǀ rāyaḥ ǀ sātim ǀ agne ǀ apa ǀ vṛdhi ǁ

    8.23.29 Aṣṭaka 6.2.14.4Anuvāka 8.4.65

  30. Ṛk 30

    अग्ने॒ त्वं य॒शा अ॒स्या मि॒त्रावरु॑णा वह ।
    ऋ॒तावा॑ना स॒म्राजा॑ पू॒तद॑क्षसा ॥

    अग्ने त्वं यशा अस्य् आ मित्रावरुणा वह |
    ऋतावाना सम्राजा पूतदक्षसा ||

    ágne tvám yaśā́ asyā́ mitrā́váruṇā vaha ǀ
    ṛtā́vānā samrā́jā pūtádakṣasā ǁ

    agne tvaṃ yaśā asy ā mitrāvaruṇā vaha |
    ṛtāvānā samrājā pūtadakṣasā ||

    अग्ने॑ । त्वम् । य॒शाः । अ॒सि॒ । आ । मि॒त्रावरु॑णा । व॒ह॒ ।
    ऋ॒तऽवा॑ना । स॒म्ऽराजा॑ । पू॒तऽद॑क्षसा ॥

    अग्ने । त्वम् । यशाः । असि । आ । मित्रावरुणा । वह ।
    ऋतऽवाना । सम्ऽराजा । पूतऽदक्षसा ॥

    ágne ǀ tvám ǀ yaśā́ḥ ǀ asi ǀ ā́ ǀ mitrā́váruṇā ǀ vaha ǀ
    ṛtá-vānā ǀ sam-rā́jā ǀ pūtá-dakṣasā ǁ

    agne ǀ tvam ǀ yaśāḥ ǀ asi ǀ ā ǀ mitrāvaruṇā ǀ vaha ǀ
    ṛta-vānā ǀ sam-rājā ǀ pūta-dakṣasā ǁ

    8.23.30 Aṣṭaka 6.2.14.5Anuvāka 8.4.66

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.23 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

Pray the Fire as he fronts you, worship with sacrifice the knower of all things born, Fire with his driving smoke and his unseizable light,—(338)

Ṛk 2

Fire who is like the string of speeding chariots to a competitor in the race; O all-seeing universal mind, laud him with the word. (338)

Ṛk 3

Those on whom he presses, possessor of the word of illumination and seizes on their impulsions and their satisfactions, by their approach to knowledge the Fire finds the Treasure. (338)

Ṛk 4

Up stands his ageless light as he flames out with his burning tusks, in his beautiful splendour, in the glory of his companies. (339)

Ṛk 5

Even so, stand up as they laud thee, O doer of the pilgrim rite, shining out with thy divine light, with thy vast all regarding lustre. (339)

Ṛk 6

Go, O Fire, with perfect utterances of the word offering uninterruptedly the oblations, since thou hast become the messenger and the carrier of the offerings. (339)

Ṛk 7

I call for you the ancient Fire, the priest of the call of seeing men; him with this word I declare, him for you I laud. (339)

Ṛk 8

Fire whom with the sacrifices, with the light verily they speed like a friend firmly established in the man who possesses the Truth. (339)

Ṛk 9

To Fire the possessor of the Truth, the accomplisher of the sacrifice, the seekers of the Truth have come with the word and cleave to him in the seat of the adoration. (340)

Ṛk 10

Let our sacrifices go towards him united in their effort, to him most fiery-wise of the Angirasas who is the priest of the call in men and most glorious. (340)

Ṛk 11

O ageless Fire, those lights of thine kindling the Vast are like male and mighty horses; (340)

Ṛk 12

So do thou, O Lord of Energies, give us the wealth, hero might; protect us in our battles, in the Son of our begetting. (340)

Ṛk 13

Since, indeed, the lord of the peoples, keen and glad in the house of man, wards off all demon-powers,—(340)

Ṛk 14

O Fire, with thy hearing of my new laud, with thy burning flame, consume utterly the demon magicians, O hero, O lord of the peoples. (340)

Ṛk 15

Not even by magic can the mortal foe master the man who offers worship to the Fire with his gifts of the oblation. (341)

Ṛk 16

[Not translated.]

Ṛk 17

Thee Ushana of the inspired wisdom set within for men as the priest of the call, the doer of sacrifice, the knower of all things born. (341)

Ṛk 18

For all the gods with one mind made thee the messenger; O godhead, thou becamest by inspired knowledge supreme and a lord of sacrifice. (341)

Ṛk 19

Him immortal let the mortal hero make his envoy, the purifying Fire with his black path, vast in his wideness. (341)

Ṛk 20

Him let us call putting forth the ladle, the luminous, the brilliant in light, one to be prayed by men, the ancient and unaging Fire. (341)

Ṛk 21

For the mortal who performs sacrifice to him by his gifts of the offering he founds much increase and a glory of his hero-strengths. (342)

Ṛk 22

To the Fire, the ancient, the first and supreme, the knower of all things born in the sacrifices with the obeisance comes the ladle full of the oblation. (342)

Ṛk 23

May we offer sacrifice as did Vyashwa with these greatest and richest thinkings to Fire, the brilliant in light. (342)

Ṛk 24

O Rishi, son of Vyashwa, now sing the word of illumination as did Sthurayupa, to the Fire, vast in his wideness, the dweller in the house. (342)

Ṛk 25

The guest of men, the son of the Trees, the illumined seers praise for his protection, the ancient Fire. (342)

Ṛk 26

Turned towards all the great beings, turned towards our human offerings, by our obeisance, O Fire, thou takest thy seat on the sacred grass. (342)

Ṛk 27

Conquer for us many desirable things, take possession of the wealth that brings us our many longings and hero-energy and the offspring and the glory. (343)

Ṛk 28

[Not translated.]

Ṛk 29

Thou art he who breaks through,3 thou openest to us the luminous impulsions; open to us the conquest of the great Riches, O Fire. (343)

Ṛk 30

O Fire, thou art the glorious one; bring to us Varuna and Mitra, the all-rulers who possess the Truth and have the purified judgment. (343)