Ṛk 8.23.29
Saṃhitā
त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिषः॑ ।
म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि ॥
त्वं हि सुप्रतूर् असि त्वं नो गोमतीर् इषः |
महो रायः सातिम् अग्ने अपा वृधि ||
tvám hí supratū́rási tvám no gómatīríṣaḥ ǀ
mahó rāyáḥ sātímagne ápā vṛdhi ǁ
tvaṃ hi supratūr asi tvaṃ no gomatīr iṣaḥ |
maho rāyaḥ sātim agne apā vṛdhi ||
Padapāṭha
त्वम् । हि । सु॒ऽप्र॒तूः । असि॑ । त्वम् । नः॒ । गोऽम॑तीः । इषः॑ ।
म॒हः । रा॒यः । सा॒तिम् । अ॒ग्ने॒ । अप॑ । वृ॒धि॒ ॥
त्वम् । हि । सुऽप्रतूः । असि । त्वम् । नः । गोऽमतीः । इषः ।
महः । रायः । सातिम् । अग्ने । अप । वृधि ॥
tvám ǀ hí ǀ su-pratū́ḥ ǀ ási ǀ tvám ǀ naḥ ǀ gó-matīḥ ǀ íṣaḥ ǀ
maháḥ ǀ rāyáḥ ǀ sātím ǀ agne ǀ ápa ǀ vṛdhi ǁ
tvam ǀ hi ǀ su-pratūḥ ǀ asi ǀ tvam ǀ naḥ ǀ go-matīḥ ǀ iṣaḥ ǀ
mahaḥ ǀ rāyaḥ ǀ sātim ǀ agne ǀ apa ǀ vṛdhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.023.29
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.14.04
- Maṇḍala · Anuvāka · Ṛk
- 08.04.065
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvamanas Vaiyaśva
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.