Ṛgveda · Maṇḍala 8

Sūkta 100

Indra · Vāc · Indra, Viṣṇu · Nema Bhārgava · 12 ṛks

Link
Devatā देवता
1-9: Indra; 10, 11: Vāc; 12: Indra, Viṣṇu
Ṛṣi ऋषि
Nema Bhārgava
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh, Jagatī
Metres by ṛk

1st set of styles triṣṭup (3, 5, 12); pādanicṛttriṣṭup (1, 4); nicṛttriṣṭup (2, 11); anuṣṭup (7, 8); nicṛjjagatī (6); nicṛdanuṣṭup (9); virāṭtrisṭup (10)

2nd set of styles triṣṭubh (1-5, 10-12); anuṣṭubh (7-9); jagatī (6)

  1. Ṛk 1

    अ॒यं त॑ एमि त॒न्वा॑ पु॒रस्ता॒द्विश्वे॑ दे॒वा अ॒भि मा॑ यंति प॒श्चात् ।
    य॒दा मह्यं॒ दीध॑रो भा॒गमिं॒द्रादिन्मया॑ कृणवो वी॒र्या॑णि ॥

    अयं त एमि तन्वा पुरस्ताद् विश्वे देवा अभि मा यन्ति पश्चात् |
    यदा मह्यं दीधरो भागम् इन्द्राद् इन् मया कृणवो वीर्याणि ||

    ayám ta emi tanvā́ purástādvíśve devā́ abhí mā yanti paścā́t ǀ
    yadā́ máhyam dī́dharo bhāgámindrā́dínmáyā kṛṇavo vīryā́ṇi ǁ

    ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt |
    yadā mahyaṃ dīdharo bhāgam indrād in mayā kṛṇavo vīryāṇi ||

    अ॒यम् । ते॒ । ए॒मि॒ । त॒न्वा॑ । पु॒रस्ता॑त् । विश्वे॑ । दे॒वाः । अ॒भि । मा॒ । य॒न्ति॒ । प॒श्चात् ।
    य॒दा । मह्य॑म् । दीध॑रः । भा॒गम् । इ॒न्द्र॒ । आत् । इत् । मया॑ । कृ॒ण॒वः॒ । वी॒र्या॑णि ॥

    अयम् । ते । एमि । तन्वा । पुरस्तात् । विश्वे । देवाः । अभि । मा । यन्ति । पश्चात् ।
    यदा । मह्यम् । दीधरः । भागम् । इन्द्र । आत् । इत् । मया । कृणवः । वीर्याणि ॥

    ayám ǀ te ǀ emi ǀ tanvā́ ǀ purástāt ǀ víśve ǀ devā́ḥ ǀ abhí ǀ mā ǀ yanti ǀ paścā́t ǀ
    yadā́ ǀ máhyam ǀ dī́dharaḥ ǀ bhāgám ǀ indra ǀ ā́t ǀ ít ǀ máyā ǀ kṛṇavaḥ ǀ vīryā́ṇi ǁ

    ayam ǀ te ǀ emi ǀ tanvā ǀ purastāt ǀ viśve ǀ devāḥ ǀ abhi ǀ mā ǀ yanti ǀ paścāt ǀ
    yadā ǀ mahyam ǀ dīdharaḥ ǀ bhāgam ǀ indra ǀ āt ǀ it ǀ mayā ǀ kṛṇavaḥ ǀ vīryāṇi ǁ

    8.100.1 Aṣṭaka 6.7.4.0

  2. Ṛk 2

    दधा॑मि ते॒ मधु॑नो भ॒क्षमग्रे॑ हि॒तस्ते॑ भा॒गः सु॒तो अ॑स्तु॒ सोमः॑ ।
    अस॑श्च॒ त्वं द॑क्षिण॒तः सखा॒ मेऽधा॑ वृ॒त्राणि॑ जंघनाव॒ भूरि॑ ॥

    दधामि ते मधुनो भक्षम् अग्रे हितस् ते भागः सुतो अस्तु सोमः |
    असश् च त्वं दक्षिणतः सखा मे ऽधा वृत्राणि जङ्घनाव भूरि ||

    dádhāmi te mádhuno bhakṣámágre hitáste bhāgáḥ sutó astu sómaḥ ǀ
    ásaśca tvám dakṣiṇatáḥ sákhā mé’dhā vṛtrā́ṇi jaṅghanāva bhū́ri ǁ

    dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ |
    asaś ca tvaṃ dakṣiṇataḥ sakhā me 'dhā vṛtrāṇi jaṅghanāva bhūri ||

    दधा॑मि । ते॒ । मधु॑नः । भ॒क्षम् । अग्रे॑ । हि॒तः । ते॒ । भा॒गः । सु॒तः । अ॒स्तु॒ । सोमः॑ ।
    असः॑ । च॒ । त्वम् । द॒क्षि॒ण॒तः । सखा॑ । मे॒ । अध॑ । वृ॒त्राणि॑ । ज॒ङ्घ॒ना॒व॒ । भूरि॑ ॥

    दधामि । ते । मधुनः । भक्षम् । अग्रे । हितः । ते । भागः । सुतः । अस्तु । सोमः ।
    असः । च । त्वम् । दक्षिणतः । सखा । मे । अध । वृत्राणि । जङ्घनाव । भूरि ॥

    dádhāmi ǀ te ǀ mádhunaḥ ǀ bhakṣám ǀ ágre ǀ hitáḥ ǀ te ǀ bhāgáḥ ǀ sutáḥ ǀ astu ǀ sómaḥ ǀ
    ásaḥ ǀ ca ǀ tvám ǀ dakṣiṇatáḥ ǀ sákhā ǀ me ǀ ádha ǀ vṛtrā́ṇi ǀ jaṅghanāva ǀ bhū́ri ǁ

    dadhāmi ǀ te ǀ madhunaḥ ǀ bhakṣam ǀ agre ǀ hitaḥ ǀ te ǀ bhāgaḥ ǀ sutaḥ ǀ astu ǀ somaḥ ǀ
    asaḥ ǀ ca ǀ tvam ǀ dakṣiṇataḥ ǀ sakhā ǀ me ǀ adha ǀ vṛtrāṇi ǀ jaṅghanāva ǀ bhūri ǁ

    8.100.2 Aṣṭaka 6.7.4.0

  3. Ṛk 3

    प्र सु स्तोमं॑ भरत वाज॒यंत॒ इंद्रा॑य स॒त्यं यदि॑ स॒त्यमस्ति॑ ।
    नेंद्रो॑ अ॒स्तीति॒ नेम॑ उ त्व आह॒ क ईं॑ ददर्श॒ कम॒भि ष्ट॑वाम ॥

    प्र सु स्तोमम् भरत वाजयन्त इन्द्राय सत्यं यदि सत्यम् अस्ति |
    नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कम् अभि ष्टवाम ||

    prá sú stómam bharata vājayánta índrāya satyám yádi satyámásti ǀ
    néndro astī́ti néma u tva āha ká īm dadarśa kámabhí ṣṭavāma ǁ

    pra su stomam bharata vājayanta indrāya satyaṃ yadi satyam asti |
    nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma ||

    प्र । सु । स्तोम॑म् । भ॒र॒त॒ । वा॒ज॒ऽयन्तः॑ । इन्द्रा॑य । स॒त्यम् । यदि॑ । स॒त्यम् । अस्ति॑ ।
    न । इन्द्रः॑ । अ॒स्ति॒ । इति॑ । नेमः॑ । ऊं॒ इति॑ । त्वः॒ । आ॒ह॒ । कः । ई॒म् । द॒द॒र्श॒ । कम् । अ॒भि । स्त॒वा॒म॒ ॥

    प्र । सु । स्तोमम् । भरत । वाजऽयन्तः । इन्द्राय । सत्यम् । यदि । सत्यम् । अस्ति ।
    न । इन्द्रः । अस्ति । इति । नेमः । ऊं इति । त्वः । आह । कः । ईम् । ददर्श । कम् । अभि । स्तवाम ॥

    prá ǀ sú ǀ stómam ǀ bharata ǀ vāja-yántaḥ ǀ índrāya ǀ satyám ǀ yádi ǀ satyám ǀ ásti ǀ
    ná ǀ índraḥ ǀ asti ǀ íti ǀ némaḥ ǀ ūṃ íti ǀ tvaḥ ǀ āha ǀ káḥ ǀ īm ǀ dadarśa ǀ kám ǀ abhí ǀ stavāma ǁ

    pra ǀ su ǀ stomam ǀ bharata ǀ vāja-yantaḥ ǀ indrāya ǀ satyam ǀ yadi ǀ satyam ǀ asti ǀ
    na ǀ indraḥ ǀ asti ǀ iti ǀ nemaḥ ǀ ūṃ iti ǀ tvaḥ ǀ āha ǀ kaḥ ǀ īm ǀ dadarśa ǀ kam ǀ abhi ǀ stavāma ǁ

    8.100.3 Aṣṭaka 6.7.4.0

  4. Ṛk 4

    अ॒यम॑स्मि जरितः॒ पश्य॑ मे॒ह विश्वा॑ जा॒तान्य॒भ्य॑स्मि म॒ह्ना ।
    ऋ॒तस्य॑ मा प्र॒दिशो॑ वर्धयंत्यादर्दि॒रो भुव॑ना दर्दरीमि ॥

    अयम् अस्मि जरितः पश्य मेह विश्वा जातान्य् अभ्य् अस्मि मह्ना |
    ऋतस्य मा प्रदिशो वर्धयन्त्य् आदर्दिरो भुवना दर्दरीमि ||

    ayámasmi jaritaḥ páśya mehá víśvā jātā́nyabhyásmi mahnā́ ǀ
    ṛtásya mā pradíśo vardhayantyādardiró bhúvanā dardarīmi ǁ

    ayam asmi jaritaḥ paśya meha viśvā jātāny abhy asmi mahnā |
    ṛtasya mā pradiśo vardhayanty ādardiro bhuvanā dardarīmi ||

    अ॒यम् । अ॒स्मि॒ । ज॒रि॒त॒रिति॑ । पश्य॑ । मा॒ । इ॒ह । विश्वा॑ । जा॒तानि॑ । अ॒भि । अ॒स्मि॒ । म॒ह्ना ।
    ऋ॒तस्य॑ । मा॒ । प्र॒ऽदिशः॑ । व॒र्ध॒य॒न्ति॒ । आ॒ऽद॒र्दि॒रः । भुव॑ना । द॒र्द॒री॒मि॒ ॥

    अयम् । अस्मि । जरितरिति । पश्य । मा । इह । विश्वा । जातानि । अभि । अस्मि । मह्ना ।
    ऋतस्य । मा । प्रऽदिशः । वर्धयन्ति । आऽदर्दिरः । भुवना । दर्दरीमि ॥

    ayám ǀ asmi ǀ jaritaríti ǀ páśya ǀ mā ǀ ihá ǀ víśvā ǀ jātā́ni ǀ abhí ǀ asmi ǀ mahnā́ ǀ
    ṛtásya ǀ mā ǀ pra-díśaḥ ǀ vardhayanti ǀ ā-dardiráḥ ǀ bhúvanā ǀ dardarīmi ǁ

    ayam ǀ asmi ǀ jaritariti ǀ paśya ǀ mā ǀ iha ǀ viśvā ǀ jātāni ǀ abhi ǀ asmi ǀ mahnā ǀ
    ṛtasya ǀ mā ǀ pra-diśaḥ ǀ vardhayanti ǀ ā-dardiraḥ ǀ bhuvanā ǀ dardarīmi ǁ

    8.100.4 Aṣṭaka 6.7.4.0

  5. Ṛk 5

    आ यन्मा॑ वे॒ना अरु॑हन्नृ॒तस्यँ॒ एक॒मासी॑नं हर्य॒तस्य॑ पृ॒ष्ठे ।
    मन॑श्चिन्मे हृ॒द आ प्रत्य॑वोच॒दचि॑क्रदं॒छिशु॑मंतः॒ सखा॑यः ॥

    आ यन् मा वेना अरुहन्न् ऋतस्यं एकम् आसीनं हर्यतस्य पृष्ठे |
    मनश् चिन् मे हृद आ प्रत्य् अवोचद् अचिक्रदञ् छिशुमन्तः सखायः ||

    ā́ yánmā venā́ áruhannṛtásyam̐ ékamā́sīnam haryatásya pṛṣṭhé ǀ
    mánaścinme hṛdá ā́ prátyavocadácikradañchíśumantaḥ sákhāyaḥ ǁ

    ā yan mā venā aruhann ṛtasyaṃ ekam āsīnaṃ haryatasya pṛṣṭhe |
    manaś cin me hṛda ā praty avocad acikradañ chiśumantaḥ sakhāyaḥ ||

    आ । यत् । मा॒ । वे॒नाः । अरु॑हन् । ऋ॒तस्य॑ । एक॑म् । आसी॑नम् । ह॒र्य॒तस्य॑ । पृ॒ष्ठे ।
    मनः॑ । चि॒त् । मे॒ । हृ॒दे । आ । प्रति॑ । अ॒वो॒च॒त् । अचि॑क्रदन् । शिशु॑ऽमन्तः । सखा॑यः ॥

    आ । यत् । मा । वेनाः । अरुहन् । ऋतस्य । एकम् । आसीनम् । हर्यतस्य । पृष्ठे ।
    मनः । चित् । मे । हृदे । आ । प्रति । अवोचत् । अचिक्रदन् । शिशुऽमन्तः । सखायः ॥

    ā́ ǀ yát ǀ mā ǀ venā́ḥ ǀ áruhan ǀ ṛtásya ǀ ékam ǀ ā́sīnam ǀ haryatásya ǀ pṛṣṭhé ǀ
    mánaḥ ǀ cit ǀ me ǀ hṛdé ǀ ā́ ǀ práti ǀ avocat ǀ ácikradan ǀ śíśu-mantaḥ ǀ sákhāyaḥ ǁ

    ā ǀ yat ǀ mā ǀ venāḥ ǀ aruhan ǀ ṛtasya ǀ ekam ǀ āsīnam ǀ haryatasya ǀ pṛṣṭhe ǀ
    manaḥ ǀ cit ǀ me ǀ hṛde ǀ ā ǀ prati ǀ avocat ǀ acikradan ǀ śiśu-mantaḥ ǀ sakhāyaḥ ǁ

    8.100.5 Aṣṭaka 6.7.4.0

  6. Ṛk 6

    विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॒ या च॒कर्थ॑ मघवन्निंद्र सुन्व॒ते ।
    पारा॑वतं॒ यत्पु॑रुसंभृ॒तं वस्व॒पावृ॑णोः शर॒भाय॒ ऋषि॑बंधवे ॥

    विश्वेत् ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्न् इन्द्र सुन्वते |
    पारावतं यत् पुरुसम्भृतं वस्व् अपावृणोः शरभाय ऋषिबन्धवे ||

    víśvéttā́ te sávaneṣu pravā́cyā yā́ cakártha maghavannindra sunvaté ǀ
    pā́rāvatam yátpurusambhṛtám vásvapā́vṛṇoḥ śarabhā́ya ṛ́ṣibandhave ǁ

    viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate |
    pārāvataṃ yat purusambhṛtaṃ vasv apāvṛṇoḥ śarabhāya ṛṣibandhave ||

    विश्वा॑ । इत् । ता । ते॒ । सव॑नेषु । प्र॒ऽवाच्या॑ । या । च॒कर्थ॑ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । सु॒न्व॒ते ।
    पारा॑वतम् । यत् । पु॒रु॒ऽस॒म्भृ॒तम् । वसु॑ । अ॒प॒ऽअवृ॑णोः । श॒र॒भाय॑ । ऋषि॑ऽबन्धवे ॥

    विश्वा । इत् । ता । ते । सवनेषु । प्रऽवाच्या । या । चकर्थ । मघऽवन् । इन्द्र । सुन्वते ।
    पारावतम् । यत् । पुरुऽसम्भृतम् । वसु । अपऽअवृणोः । शरभाय । ऋषिऽबन्धवे ॥

    víśvā ǀ ít ǀ tā́ ǀ te ǀ sávaneṣu ǀ pra-vā́cyā ǀ yā́ ǀ cakártha ǀ magha-van ǀ indra ǀ sunvaté ǀ
    pā́rāvatam ǀ yát ǀ puru-sambhṛtám ǀ vásu ǀ apa-ávṛṇoḥ ǀ śarabhā́ya ǀ ṛ́ṣi-bandhave ǁ

    viśvā ǀ it ǀ tā ǀ te ǀ savaneṣu ǀ pra-vācyā ǀ yā ǀ cakartha ǀ magha-van ǀ indra ǀ sunvate ǀ
    pārāvatam ǀ yat ǀ puru-sambhṛtam ǀ vasu ǀ apa-avṛṇoḥ ǀ śarabhāya ǀ ṛṣi-bandhave ǁ

    8.100.6 Aṣṭaka 6.7.4.0

  7. Ṛk 7

    प्र नू॒नं धा॑वता॒ पृथ॒ङ्नेह यो वो॒ अवा॑वरीत् ।
    नि षीं॑ वृ॒त्रस्य॒ मर्म॑णि॒ वज्र॒मिंद्रो॑ अपीपतत् ॥

    प्र नूनं धावता पृथङ् नेह यो वो अवावरीत् |
    नि षीं वृत्रस्य मर्मणि वज्रम् इन्द्रो अपीपतत् ||

    prá nūnám dhāvatā pṛ́thaṅnéhá yó vo ávāvarīt ǀ
    ní ṣīm vṛtrásya mármaṇi vájramíndro apīpatat ǁ

    pra nūnaṃ dhāvatā pṛthaṅ neha yo vo avāvarīt |
    ni ṣīṃ vṛtrasya marmaṇi vajram indro apīpatat ||

    प्र । नू॒नम् । धा॒व॒त॒ । पृथ॑क् । न । इ॒ह । यः । वः॒ । अवा॑वरीत् ।
    नि । सी॒म् । वृ॒त्रस्य॑ । मर्म॑णि । वज्र॑म् । इन्द्रः॑ । अ॒पी॒प॒त॒त् ॥

    प्र । नूनम् । धावत । पृथक् । न । इह । यः । वः । अवावरीत् ।
    नि । सीम् । वृत्रस्य । मर्मणि । वज्रम् । इन्द्रः । अपीपतत् ॥

    prá ǀ nūnám ǀ dhāvata ǀ pṛ́thak ǀ ná ǀ ihá ǀ yáḥ ǀ vaḥ ǀ ávāvarīt ǀ
    ní ǀ sīm ǀ vṛtrásya ǀ mármaṇi ǀ vájram ǀ índraḥ ǀ apīpatat ǁ

    pra ǀ nūnam ǀ dhāvata ǀ pṛthak ǀ na ǀ iha ǀ yaḥ ǀ vaḥ ǀ avāvarīt ǀ
    ni ǀ sīm ǀ vṛtrasya ǀ marmaṇi ǀ vajram ǀ indraḥ ǀ apīpatat ǁ

    8.100.7 Aṣṭaka 6.7.5.0

  8. Ṛk 8

    मनो॑जवा॒ अय॑मान आय॒सीम॑तर॒त्पुरं॑ ।
    दिवं॑ सुप॒र्णो ग॒त्वाय॒ सोमं॑ व॒ज्रिण॒ आभ॑रत् ॥

    मनोजवा अयमान आयसीम् अतरत् पुरम् |
    दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत् ||

    mánojavā áyamāna āyasī́mataratpúram ǀ
    dívam suparṇó gatvā́ya sómam vajríṇa ā́bharat ǁ

    manojavā ayamāna āyasīm atarat puram |
    divaṃ suparṇo gatvāya somaṃ vajriṇa ābharat ||

    मनः॑ऽजवाः । अय॑मानः । आ॒य॒सीम् । अ॒त॒र॒त् । पुर॑म् ।
    दिव॑म् । सु॒ऽप॒र्णः । ग॒त्वाय॑ । सोम॑म् । व॒ज्रिणः॑ । आ । अ॒भ॒र॒त् ॥

    मनःऽजवाः । अयमानः । आयसीम् । अतरत् । पुरम् ।
    दिवम् । सुऽपर्णः । गत्वाय । सोमम् । वज्रिणः । आ । अभरत् ॥

    mánaḥ-javāḥ ǀ áyamānaḥ ǀ āyasī́m ǀ atarat ǀ púram ǀ
    dívam ǀ su-parṇáḥ ǀ gatvā́ya ǀ sómam ǀ vajríṇaḥ ǀ ā́ ǀ abharat ǁ

    manaḥ-javāḥ ǀ ayamānaḥ ǀ āyasīm ǀ atarat ǀ puram ǀ
    divam ǀ su-parṇaḥ ǀ gatvāya ǀ somam ǀ vajriṇaḥ ǀ ā ǀ abharat ǁ

    8.100.8 Aṣṭaka 6.7.5.0

  9. Ṛk 9

    स॒मु॒द्रे अं॒तः श॑यत उ॒द्ना वज्रो॑ अ॒भीवृ॑तः ।
    भरं॑त्यस्मै सं॒यतः॑ पु॒रःप्र॑स्रवणा ब॒लिं ॥

    समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः |
    भरन्त्य् अस्मै संयतः पुरःप्रस्रवणा बलिम् ||

    samudré antáḥ śayata udnā́ vájro abhī́vṛtaḥ ǀ
    bhárantyasmai saṃyátaḥ puráḥprasravaṇā balím ǁ

    samudre antaḥ śayata udnā vajro abhīvṛtaḥ |
    bharanty asmai saṃyataḥ puraḥprasravaṇā balim ||

    स॒मु॒द्रे । अ॒न्तरिति॑ । श॒य॒ते॒ । उ॒द्ना । वज्रः॑ । अ॒भिऽवृ॑तः ।
    भर॑न्ति । अ॒स्मै॒ । स॒म्ऽयतः॑ । पु॒रःऽप्र॑स्रवणाः । ब॒लिम् ॥

    समुद्रे । अन्तरिति । शयते । उद्ना । वज्रः । अभिऽवृतः ।
    भरन्ति । अस्मै । सम्ऽयतः । पुरःऽप्रस्रवणाः । बलिम् ॥

    samudré ǀ antáríti ǀ śayate ǀ udnā́ ǀ vájraḥ ǀ abhí-vṛtaḥ ǀ
    bháranti ǀ asmai ǀ sam-yátaḥ ǀ puráḥ-prasravaṇāḥ ǀ balím ǁ

    samudre ǀ antariti ǀ śayate ǀ udnā ǀ vajraḥ ǀ abhi-vṛtaḥ ǀ
    bharanti ǀ asmai ǀ sam-yataḥ ǀ puraḥ-prasravaṇāḥ ǀ balim ǁ

    8.100.9 Aṣṭaka 6.7.5.0

  10. Ṛk 10

    यद्वाग्वदं॑त्यविचेत॒नानि॒ राष्ट्री॑ दे॒वानां॑ निष॒साद॑ मं॒द्रा ।
    चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयां॑सि॒ क्व॑ स्विदस्याः पर॒मं ज॑गाम ॥

    यद् वाग् वदन्त्य् अविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा |
    चतस्र ऊर्जं दुदुहे पयांसि क्व स्विद् अस्याः परमं जगाम ||

    yádvā́gvádantyavicetanā́ni rā́ṣṭrī devā́nām niṣasā́da mandrā́ ǀ
    cátasra ū́rjam duduhe páyāṃsi kvá svidasyāḥ paramám jagāma ǁ

    yad vāg vadanty avicetanāni rāṣṭrī devānāṃ niṣasāda mandrā |
    catasra ūrjaṃ duduhe payāṃsi kva svid asyāḥ paramaṃ jagāma ||

    यत् । वाक् । वद॑न्ती । अ॒वि॒ऽचे॒त॒नानि॑ । राष्ट्री॑ । दे॒वाना॑म् । नि॒ऽस॒साद॑ । म॒न्द्रा ।
    चत॑स्रः । ऊर्ज॑म् । दु॒दु॒हे॒ । पयां॑सि । क्व॑ । स्वि॒त् । अ॒स्याः॒ । प॒र॒मम् । ज॒गा॒म॒ ॥

    यत् । वाक् । वदन्ती । अविऽचेतनानि । राष्ट्री । देवानाम् । निऽससाद । मन्द्रा ।
    चतस्रः । ऊर्जम् । दुदुहे । पयांसि । क्व । स्वित् । अस्याः । परमम् । जगाम ॥

    yát ǀ vā́k ǀ vádantī ǀ avi-cetanā́ni ǀ rā́ṣṭrī ǀ devā́nām ǀ ni-sasā́da ǀ mandrā́ ǀ
    cátasraḥ ǀ ū́rjam ǀ duduhe ǀ páyāṃsi ǀ kvá ǀ svit ǀ asyāḥ ǀ paramám ǀ jagāma ǁ

    yat ǀ vāk ǀ vadantī ǀ avi-cetanāni ǀ rāṣṭrī ǀ devānām ǀ ni-sasāda ǀ mandrā ǀ
    catasraḥ ǀ ūrjam ǀ duduhe ǀ payāṃsi ǀ kva ǀ svit ǀ asyāḥ ǀ paramam ǀ jagāma ǁ

    8.100.10 Aṣṭaka 6.7.5.0

  11. Ṛk 11

    दे॒वीं वाच॑मजनयंत दे॒वास्तां वि॒श्वरू॑पाः प॒शवो॑ वदंति ।
    सा नो॑ मं॒द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥

    देवीं वाचम् अजनयन्त देवास् तां विश्वरूपाः पशवो वदन्ति |
    सा नो मन्द्रेषम् ऊर्जं दुहाना धेनुर् वाग् अस्मान् उप सुष्टुतैतु ||

    devī́m vā́camajanayanta devā́stā́m viśvárūpāḥ paśávo vadanti ǀ
    sā́ no mandréṣamū́rjam dúhānā dhenúrvā́gasmā́núpa súṣṭutáitu ǁ

    devīṃ vācam ajanayanta devās tāṃ viśvarūpāḥ paśavo vadanti |
    sā no mandreṣam ūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu ||

    दे॒वीम् । वाच॑म् । अ॒ज॒न॒य॒न्त॒ । दे॒वाः । ताम् । वि॒श्वऽरू॑पाः । प॒शवः॑ । व॒द॒न्ति॒ ।
    सा । नः॒ । म॒न्द्रा । इष॑म् । ऊर्ज॑म् । दुहा॑ना । धे॒नुः । वाक् । अ॒स्मान् । उप॑ । सुऽस्तु॑ता । आ । ए॒तु॒ ॥

    देवीम् । वाचम् । अजनयन्त । देवाः । ताम् । विश्वऽरूपाः । पशवः । वदन्ति ।
    सा । नः । मन्द्रा । इषम् । ऊर्जम् । दुहाना । धेनुः । वाक् । अस्मान् । उप । सुऽस्तुता । आ । एतु ॥

    devī́m ǀ vā́cam ǀ ajanayanta ǀ devā́ḥ ǀ tā́m ǀ viśvá-rūpāḥ ǀ paśávaḥ ǀ vadanti ǀ
    sā́ ǀ naḥ ǀ mandrā́ ǀ íṣam ǀ ū́rjam ǀ dúhānā ǀ dhenúḥ ǀ vā́k ǀ asmā́n ǀ úpa ǀ sú-stutā ǀ ā́ ǀ etu ǁ

    devīm ǀ vācam ǀ ajanayanta ǀ devāḥ ǀ tām ǀ viśva-rūpāḥ ǀ paśavaḥ ǀ vadanti ǀ
    sā ǀ naḥ ǀ mandrā ǀ iṣam ǀ ūrjam ǀ duhānā ǀ dhenuḥ ǀ vāk ǀ asmān ǀ upa ǀ su-stutā ǀ ā ǀ etu ǁ

    8.100.11 Aṣṭaka 6.7.5.0

  12. Ṛk 12

    सखे॑ विष्णो वित॒रं वि क्र॑मस्व॒ द्यौर्दे॒हि लो॒कं वज्रा॑य वि॒ष्कभे॑ ।
    हना॑व वृ॒त्रं रि॒णचा॑व॒ सिंधू॒निंद्र॑स्य यंतु प्रस॒वे विसृ॑ष्टाः ॥

    सखे विष्णो वितरं वि क्रमस्व द्यौर् देहि लोकं वज्राय विष्कभे |
    हनाव वृत्रं रिणचाव सिन्धून् इन्द्रस्य यन्तु प्रसवे विसृष्टाः ||

    sákhe viṣṇo vitarám ví kramasva dyáurdehí lokám vájrāya viṣkábhe ǀ
    hánāva vṛtrám riṇácāva síndhūníndrasya yantu prasavé vísṛṣṭāḥ ǁ

    sakhe viṣṇo vitaraṃ vi kramasva dyaur dehi lokaṃ vajrāya viṣkabhe |
    hanāva vṛtraṃ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ ||

    सखे॑ । वि॒ष्णो॒ इति॑ । वि॒ऽत॒रम् । वि । क्र॒म॒स्व॒ । द्यौः । दे॒हि । लो॒कम् । वज्रा॑य । वि॒ऽस्कभे॑ ।
    हना॑व । वृ॒त्रम् । रि॒णचा॑व । सिन्धू॑न् । इन्द्र॑स्य । य॒न्तु॒ । प्र॒ऽस॒वे । विऽसृ॑ष्टाः ॥

    सखे । विष्णो इति । विऽतरम् । वि । क्रमस्व । द्यौः । देहि । लोकम् । वज्राय । विऽस्कभे ।
    हनाव । वृत्रम् । रिणचाव । सिन्धून् । इन्द्रस्य । यन्तु । प्रऽसवे । विऽसृष्टाः ॥

    sákhe ǀ viṣṇo íti ǀ vi-tarám ǀ ví ǀ kramasva ǀ dyáuḥ ǀ dehí ǀ lokám ǀ vájrāya ǀ vi-skábhe ǀ
    hánāva ǀ vṛtrám ǀ riṇácāva ǀ síndhūn ǀ índrasya ǀ yantu ǀ pra-savé ǀ ví-sṛṣṭāḥ ǁ

    sakhe ǀ viṣṇo iti ǀ vi-taram ǀ vi ǀ kramasva ǀ dyauḥ ǀ dehi ǀ lokam ǀ vajrāya ǀ vi-skabhe ǀ
    hanāva ǀ vṛtram ǀ riṇacāva ǀ sindhūn ǀ indrasya ǀ yantu ǀ pra-save ǀ vi-sṛṣṭāḥ ǁ

    8.100.12 Aṣṭaka 6.7.5.0

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.100 · Indra · Vāc · Indra, Viṣṇu

Interpretations

Sri Aurobindo

Ṛk 1

Behold, I go in front of thee in my body and all the gods follow after me behind; when in me thou hast set thy portion of enjoyment, O Indra, it is by me, verily, that thou doest thy mighty works.

Ṛk 2

I place thy enjoyable food of the sweetness before thee; set for thee as thy enjoyment be this Soma that I have pressed out; O unattached, thou art my friend and on my right, now let us two slay the multitude of the Coverers.

Ṛk 3

Bring forward for Indra the truth for his affirmation in praise and increase its plenty, if the truth be that he is. “Indra is not,” Nema said of thee, “who hath seen him? who is it that we would affirm with praise?”

Ṛk 4

“Lo here, O My lover, I am, behold me even here; all things created I possess in being by my might; Me the teachings of the Truth increase and I am the render who rend the worlds.

Ṛk 5

“When the rejoicers in the Truth have ascended tome seated alone on the back of the resplendent world, Mind in Me made answer to their hearts and my lovers like children cried aloud.”

Ṛk 6

All those deeds of thine have to be expressed in the Soma sacrifices, which thou hast done, O Indra master of the fullness, for him who presses out the Soma, as when thou for Sharabha builder of the knowledge (or friend of the seers) didst uncover the supreme substance massed in its multiplicity.

Ṛk 7

He who covereth it in you, runs forward now as if something separate here; in utterly into the heart of the Coverer Indra has hurled his lightning flash

Ṛk 8

Moving swift as mind the Bird has sped beyond this iron city, he has reached Heaven and brought the wine of Soma for the master of the lightning.

Ṛk 9

Within the ocean of being lies his lightning covered over with the water; many forward-flowing waters coming together bear to it its food of strength.

Ṛk 10

When Speech, uttering things that thought has not distinguished, sits as queen of the gods rejoicing, then from the Four she milks out their force, draughts for our drinking. But to what place unknown goeth her highest?

Ṛk 11

The gods have given being to Speech divine and her the herds12 utter in all the forms that being has taken; may she, even Speech the Cow of the milking, full of rapture and milking out for us force of being and force of impulsion come to us perfectly affirmed.

Ṛk 12

O Vishnu, our comrade, stride out thy widest! O Heaven, yield thy world to Indra’s lightning as it pushes wide. We two would slay the Coverer, we two would pour out the rivers of being; let them flow released in the impulsion of Indra.