Ṛgveda · Maṇḍala 8 · Sūkta 100
Ṛk 8.100.3
Saṃhitā
प्र सु स्तोमं॑ भरत वाज॒यंत॒ इंद्रा॑य स॒त्यं यदि॑ स॒त्यमस्ति॑ ।
नेंद्रो॑ अ॒स्तीति॒ नेम॑ उ त्व आह॒ क ईं॑ ददर्श॒ कम॒भि ष्ट॑वाम ॥
प्र सु स्तोमम् भरत वाजयन्त इन्द्राय सत्यं यदि सत्यम् अस्ति |
नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कम् अभि ष्टवाम ||
prá sú stómam bharata vājayánta índrāya satyám yádi satyámásti ǀ
néndro astī́ti néma u tva āha ká īm dadarśa kámabhí ṣṭavāma ǁ
pra su stomam bharata vājayanta indrāya satyaṃ yadi satyam asti |
nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma ||
Padapāṭha
प्र । सु । स्तोम॑म् । भ॒र॒त॒ । वा॒ज॒ऽयन्तः॑ । इन्द्रा॑य । स॒त्यम् । यदि॑ । स॒त्यम् । अस्ति॑ ।
न । इन्द्रः॑ । अ॒स्ति॒ । इति॑ । नेमः॑ । ऊं॒ इति॑ । त्वः॒ । आ॒ह॒ । कः । ई॒म् । द॒द॒र्श॒ । कम् । अ॒भि । स्त॒वा॒म॒ ॥
प्र । सु । स्तोमम् । भरत । वाजऽयन्तः । इन्द्राय । सत्यम् । यदि । सत्यम् । अस्ति ।
न । इन्द्रः । अस्ति । इति । नेमः । ऊं इति । त्वः । आह । कः । ईम् । ददर्श । कम् । अभि । स्तवाम ॥
prá ǀ sú ǀ stómam ǀ bharata ǀ vāja-yántaḥ ǀ índrāya ǀ satyám ǀ yádi ǀ satyám ǀ ásti ǀ
ná ǀ índraḥ ǀ asti ǀ íti ǀ némaḥ ǀ ūṃ íti ǀ tvaḥ ǀ āha ǀ káḥ ǀ īm ǀ dadarśa ǀ kám ǀ abhí ǀ stavāma ǁ
pra ǀ su ǀ stomam ǀ bharata ǀ vāja-yantaḥ ǀ indrāya ǀ satyam ǀ yadi ǀ satyam ǀ asti ǀ
na ǀ indraḥ ǀ asti ǀ iti ǀ nemaḥ ǀ ūṃ iti ǀ tvaḥ ǀ āha ǀ kaḥ ǀ īm ǀ dadarśa ǀ kam ǀ abhi ǀ stavāma ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.100.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.7.04.00
- Devatā देवता
- 1-9: Indra; 10, 11: Vāc; 12: Indra, Viṣṇu
- Ṛṣi ऋषि
- Nema Bhārgava
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.