Ṛgveda · Maṇḍala 8 · Sūkta 100
Ṛk 8.100.11
Saṃhitā
दे॒वीं वाच॑मजनयंत दे॒वास्तां वि॒श्वरू॑पाः प॒शवो॑ वदंति ।
सा नो॑ मं॒द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥
देवीं वाचम् अजनयन्त देवास् तां विश्वरूपाः पशवो वदन्ति |
सा नो मन्द्रेषम् ऊर्जं दुहाना धेनुर् वाग् अस्मान् उप सुष्टुतैतु ||
devī́m vā́camajanayanta devā́stā́m viśvárūpāḥ paśávo vadanti ǀ
sā́ no mandréṣamū́rjam dúhānā dhenúrvā́gasmā́núpa súṣṭutáitu ǁ
devīṃ vācam ajanayanta devās tāṃ viśvarūpāḥ paśavo vadanti |
sā no mandreṣam ūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu ||
Padapāṭha
दे॒वीम् । वाच॑म् । अ॒ज॒न॒य॒न्त॒ । दे॒वाः । ताम् । वि॒श्वऽरू॑पाः । प॒शवः॑ । व॒द॒न्ति॒ ।
सा । नः॒ । म॒न्द्रा । इष॑म् । ऊर्ज॑म् । दुहा॑ना । धे॒नुः । वाक् । अ॒स्मान् । उप॑ । सुऽस्तु॑ता । आ । ए॒तु॒ ॥
देवीम् । वाचम् । अजनयन्त । देवाः । ताम् । विश्वऽरूपाः । पशवः । वदन्ति ।
सा । नः । मन्द्रा । इषम् । ऊर्जम् । दुहाना । धेनुः । वाक् । अस्मान् । उप । सुऽस्तुता । आ । एतु ॥
devī́m ǀ vā́cam ǀ ajanayanta ǀ devā́ḥ ǀ tā́m ǀ viśvá-rūpāḥ ǀ paśávaḥ ǀ vadanti ǀ
sā́ ǀ naḥ ǀ mandrā́ ǀ íṣam ǀ ū́rjam ǀ dúhānā ǀ dhenúḥ ǀ vā́k ǀ asmā́n ǀ úpa ǀ sú-stutā ǀ ā́ ǀ etu ǁ
devīm ǀ vācam ǀ ajanayanta ǀ devāḥ ǀ tām ǀ viśva-rūpāḥ ǀ paśavaḥ ǀ vadanti ǀ
sā ǀ naḥ ǀ mandrā ǀ iṣam ǀ ūrjam ǀ duhānā ǀ dhenuḥ ǀ vāk ǀ asmān ǀ upa ǀ su-stutā ǀ ā ǀ etu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.100.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.7.05.00
- Devatā देवता
- 1-9: Indra; 10, 11: Vāc; 12: Indra, Viṣṇu
- Ṛṣi ऋषि
- Nema Bhārgava
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.