Ṛgveda · Maṇḍala 8 · Sūkta 100
Ṛk 8.100.5
Saṃhitā
आ यन्मा॑ वे॒ना अरु॑हन्नृ॒तस्यँ॒ एक॒मासी॑नं हर्य॒तस्य॑ पृ॒ष्ठे ।
मन॑श्चिन्मे हृ॒द आ प्रत्य॑वोच॒दचि॑क्रदं॒छिशु॑मंतः॒ सखा॑यः ॥
आ यन् मा वेना अरुहन्न् ऋतस्यं एकम् आसीनं हर्यतस्य पृष्ठे |
मनश् चिन् मे हृद आ प्रत्य् अवोचद् अचिक्रदञ् छिशुमन्तः सखायः ||
ā́ yánmā venā́ áruhannṛtásyam̐ ékamā́sīnam haryatásya pṛṣṭhé ǀ
mánaścinme hṛdá ā́ prátyavocadácikradañchíśumantaḥ sákhāyaḥ ǁ
ā yan mā venā aruhann ṛtasyaṃ ekam āsīnaṃ haryatasya pṛṣṭhe |
manaś cin me hṛda ā praty avocad acikradañ chiśumantaḥ sakhāyaḥ ||
Padapāṭha
आ । यत् । मा॒ । वे॒नाः । अरु॑हन् । ऋ॒तस्य॑ । एक॑म् । आसी॑नम् । ह॒र्य॒तस्य॑ । पृ॒ष्ठे ।
मनः॑ । चि॒त् । मे॒ । हृ॒दे । आ । प्रति॑ । अ॒वो॒च॒त् । अचि॑क्रदन् । शिशु॑ऽमन्तः । सखा॑यः ॥
आ । यत् । मा । वेनाः । अरुहन् । ऋतस्य । एकम् । आसीनम् । हर्यतस्य । पृष्ठे ।
मनः । चित् । मे । हृदे । आ । प्रति । अवोचत् । अचिक्रदन् । शिशुऽमन्तः । सखायः ॥
ā́ ǀ yát ǀ mā ǀ venā́ḥ ǀ áruhan ǀ ṛtásya ǀ ékam ǀ ā́sīnam ǀ haryatásya ǀ pṛṣṭhé ǀ
mánaḥ ǀ cit ǀ me ǀ hṛdé ǀ ā́ ǀ práti ǀ avocat ǀ ácikradan ǀ śíśu-mantaḥ ǀ sákhāyaḥ ǁ
ā ǀ yat ǀ mā ǀ venāḥ ǀ aruhan ǀ ṛtasya ǀ ekam ǀ āsīnam ǀ haryatasya ǀ pṛṣṭhe ǀ
manaḥ ǀ cit ǀ me ǀ hṛde ǀ ā ǀ prati ǀ avocat ǀ acikradan ǀ śiśu-mantaḥ ǀ sakhāyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.100.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.7.04.00
- Devatā देवता
- 1-9: Indra; 10, 11: Vāc; 12: Indra, Viṣṇu
- Ṛṣi ऋषि
- Nema Bhārgava
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.