Ṛk 8.14.1
Saṃhitā
यदिं॑द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् ।
स्तो॒ता मे॒ गोष॑खा स्यात् ॥
यद् इन्द्राहं यथा त्वम् ईशीय वस्व एक इत् |
स्तोता मे गोषखा स्यात् ||
yádindrāhám yáthā tvámī́śīya vásva éka ít ǀ
stotā́ me góṣakhā syāt ǁ
yad indrāhaṃ yathā tvam īśīya vasva eka it |
stotā me goṣakhā syāt ||
Padapāṭha
यत् । इ॒न्द्र॒ । अ॒हम् । यथा॑ । त्वम् । ईशी॑य । वस्वः॑ । एकः॑ । इत् ।
स्तो॒ता । मे॒ । गोऽस॑खा । स्या॒त् ॥
यत् । इन्द्र । अहम् । यथा । त्वम् । ईशीय । वस्वः । एकः । इत् ।
स्तोता । मे । गोऽसखा । स्यात् ॥
yát ǀ indra ǀ ahám ǀ yáthā ǀ tvám ǀ ī́śīya ǀ vásvaḥ ǀ ékaḥ ǀ ít ǀ
stotā́ ǀ me ǀ gó-sakhā ǀ syāt ǁ
yat ǀ indra ǀ aham ǀ yathā ǀ tvam ǀ īśīya ǀ vasvaḥ ǀ ekaḥ ǀ it ǀ
stotā ǀ me ǀ go-sakhā ǀ syāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.014.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.14.01
- Maṇḍala · Anuvāka · Ṛk
- 08.03.034
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Aśvasūktin Kāṇvāyana; Goṣūktin Kāṇvāyana
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.