Ṛk 8.79.1
Saṃhitā
अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोमः॑ ।
ऋषि॒र्विप्रः॒ काव्ये॑न ॥
अयं कृत्नुर् अगृभीतो विश्वजिद् उद्भिद् इत् सोमः |
ऋषिर् विप्रः काव्येन ||
ayám kṛtnúrágṛbhīto viśvajídudbhídítsómaḥ ǀ
ṛ́ṣirvípraḥ kā́vyena ǁ
ayaṃ kṛtnur agṛbhīto viśvajid udbhid it somaḥ |
ṛṣir vipraḥ kāvyena ||
Padapāṭha
अ॒यम् । कृ॒त्नुः । अगृ॑भीतः । वि॒श्व॒ऽजित् । उ॒त्ऽभित् । इत् । सोमः॑ ।
ऋषिः॑ । विप्रः॑ । काव्ये॑न ॥
अयम् । कृत्नुः । अगृभीतः । विश्वऽजित् । उत्ऽभित् । इत् । सोमः ।
ऋषिः । विप्रः । काव्येन ॥
ayám ǀ kṛtnúḥ ǀ ágṛbhītaḥ ǀ viśva-jít ǀ ut-bhít ǀ ít ǀ sómaḥ ǀ
ṛ́ṣiḥ ǀ vípraḥ ǀ kā́vyena ǁ
ayam ǀ kṛtnuḥ ǀ agṛbhītaḥ ǀ viśva-jit ǀ ut-bhit ǀ it ǀ somaḥ ǀ
ṛṣiḥ ǀ vipraḥ ǀ kāvyena ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.079.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.5.33.01
- Maṇḍala · Anuvāka · Ṛk
- 08.08.131
- Devatā देवता
- Soma
- Ṛṣi ऋषि
- Kṛtnu Bhārgava
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.