Ṛk 8.78.10
Saṃhitā
तवेदिं॑द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे ।
दि॒नस्य॑ वा मघव॒न्त्संभृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥
तवेद् इन्द्राहम् आशसा हस्ते दात्रं चना ददे |
दिनस्य वा मघवन् सम्भृतस्य वा पूर्धि यवस्य काशिना ||
távédindrāhámāśásā háste dā́tram canā́ dade ǀ
dinásya vā maghavantsámbhṛtasya vā pūrdhí yávasya kāśínā ǁ
taved indrāham āśasā haste dātraṃ canā dade |
dinasya vā maghavan sambhṛtasya vā pūrdhi yavasya kāśinā ||
Padapāṭha
तव॑ । इत् । इ॒न्द्र॒ । अ॒हम् । आ॒ऽशसा॑ । हस्ते॑ । दात्र॑म् । च॒न । आ । द॒दे॒ ।
दि॒नस्य॑ । वा॒ । म॒घ॒ऽव॒न् । सम्ऽभृ॑तस्य । वा॒ । पू॒र्धि । यव॑स्य । का॒शिना॑ ॥
तव । इत् । इन्द्र । अहम् । आऽशसा । हस्ते । दात्रम् । चन । आ । ददे ।
दिनस्य । वा । मघऽवन् । सम्ऽभृतस्य । वा । पूर्धि । यवस्य । काशिना ॥
táva ǀ ít ǀ indra ǀ ahám ǀ ā-śásā ǀ háste ǀ dā́tram ǀ caná ǀ ā́ ǀ dade ǀ
dinásya ǀ vā ǀ magha-van ǀ sám-bhṛtasya ǀ vā ǀ pūrdhí ǀ yávasya ǀ kāśínā ǁ
tava ǀ it ǀ indra ǀ aham ǀ ā-śasā ǀ haste ǀ dātram ǀ cana ǀ ā ǀ dade ǀ
dinasya ǀ vā ǀ magha-van ǀ sam-bhṛtasya ǀ vā ǀ pūrdhi ǀ yavasya ǀ kāśinā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.078.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.5.32.05
- Maṇḍala · Anuvāka · Ṛk
- 08.08.130
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kurusuti Kāṇva
- Chandas छन्दस्
- Gāyatrī, Bṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.