Ṛk 8.89.5
Saṃhitā
यज्जाय॑था अपूर्व्य॒ मघ॑वन्वृत्र॒हत्या॑य ।
तत्पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना उ॒त द्यां ॥
यज् जायथा अपूर्व्य मघवन् वृत्रहत्याय |
तत् पृथिवीम् अप्रथयस् तद् अस्तभ्ना उत द्याम् ||
yájjā́yathā apūrvya mághavanvṛtrahátyāya ǀ
tátpṛthivī́maprathayastádastabhnā utá dyām ǁ
yaj jāyathā apūrvya maghavan vṛtrahatyāya |
tat pṛthivīm aprathayas tad astabhnā uta dyām ||
Padapāṭha
यत् । जाय॑थाः । अ॒पू॒र्व्य॒ । मघ॑ऽवन् । वृ॒त्र॒ऽहत्या॑य ।
तत् । पृ॒थि॒वीम् । अ॒प्र॒थ॒यः॒ । तत् । अ॒स्त॒भ्नाः॒ । उ॒त । द्याम् ॥
यत् । जायथाः । अपूर्व्य । मघऽवन् । वृत्रऽहत्याय ।
तत् । पृथिवीम् । अप्रथयः । तत् । अस्तभ्नाः । उत । द्याम् ॥
yát ǀ jā́yathāḥ ǀ apūrvya ǀ mágha-van ǀ vṛtra-hátyāya ǀ
tát ǀ pṛthivī́m ǀ aprathayaḥ ǀ tát ǀ astabhnāḥ ǀ utá ǀ dyā́m ǁ
yat ǀ jāyathāḥ ǀ apūrvya ǀ magha-van ǀ vṛtra-hatyāya ǀ
tat ǀ pṛthivīm ǀ aprathayaḥ ǀ tat ǀ astabhnāḥ ǀ uta ǀ dyām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.089.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.12.05
- Maṇḍala · Anuvāka · Ṛk
- 08.09.067
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nṛmedha Āṅgirasa; Purumedha Āṅgirasa
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.