Ṛk 8.47.10
Saṃhitā
यद्दे॑वाः॒ शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रं ।
त्रि॒धातु॒ यद्व॑रू॒थ्यं१॒॑ तद॒स्मासु॒ वि यं॑तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
यद् देवाः शर्म शरणं यद् भद्रं यद् अनातुरम् |
त्रिधातु यद् वरूथ्यं तद् अस्मासु वि यन्तनानेहसो व ऊतयः सुऊतयो व ऊतयः ||
yáddevāḥ śárma śaraṇám yádbhadrám yádanāturám ǀ
tridhā́tu yádvarūthyám tádasmā́su ví yantanāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ
yad devāḥ śarma śaraṇaṃ yad bhadraṃ yad anāturam |
tridhātu yad varūthyaṃ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
Padapāṭha
यत् । दे॒वाः॒ । शर्म॑ । श॒र॒णम् । यत् । भ॒द्रम् । यत् । अ॒ना॒तु॒रम् ।
त्रि॒ऽधातु॑ । यत् । व॒रू॒थ्य॑म् । तत् । अ॒स्मासु॑ । वि । य॒न्त॒न॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥
यत् । देवाः । शर्म । शरणम् । यत् । भद्रम् । यत् । अनातुरम् ।
त्रिऽधातु । यत् । वरूथ्यम् । तत् । अस्मासु । वि । यन्तन । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥
yát ǀ devāḥ ǀ śárma ǀ śaraṇám ǀ yát ǀ bhadrám ǀ yát ǀ anāturám ǀ
tri-dhā́tu ǀ yát ǀ varūthyám ǀ tát ǀ asmā́su ǀ ví ǀ yantana ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ
yat ǀ devāḥ ǀ śarma ǀ śaraṇam ǀ yat ǀ bhadram ǀ yat ǀ anāturam ǀ
tri-dhātu ǀ yat ǀ varūthyam ǀ tat ǀ asmāsu ǀ vi ǀ yantana ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.047.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.08.05
- Maṇḍala · Anuvāka · Ṛk
- 08.06.148
- Devatā देवता
- 1-13, 17: Ādityās; 14-16, 18: Ādityās, Uṣas
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.