Ṛgveda · Maṇḍala 8 · Sūkta 47

Ṛk 8.47.18

Ādityās · Ādityās, Uṣas · Trita Āptya

The whole sūkta Link

Saṃhitā

अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यं ।
उषो॒ यस्मा॑द्दु॒ःष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

अजैष्माद्यासनाम चाभूमानागसो वयम् |
उषो यस्माद् दुष्ष्वप्न्याद् अभैष्माप तद् उच्छत्व् अनेहसो व ऊतयः सुऊतयो व ऊतयः ||

ájaiṣmādyā́sanāma cā́bhūmā́nāgaso vayám ǀ
úṣo yásmādduḥṣvápnyādábhaiṣmā́pa táducchatvaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

ajaiṣmādyāsanāma cābhūmānāgaso vayam |
uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ ||

Padapāṭha

अजै॑ष्म । अ॒द्य । अस॑नाम । च॒ । अभू॑म । अना॑गसः । व॒यम् ।
उषः॑ । यस्मा॑त् । दुः॒ऽस्वप्न्या॑त् । अभै॑ष्म । अप॑ । तत् । उ॒च्छ॒तु॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

अजैष्म । अद्य । असनाम । च । अभूम । अनागसः । वयम् ।
उषः । यस्मात् । दुःऽस्वप्न्यात् । अभैष्म । अप । तत् । उच्छतु । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

ájaiṣma ǀ adyá ǀ ásanāma ǀ ca ǀ ábhūma ǀ ánāgasaḥ ǀ vayám ǀ
úṣaḥ ǀ yásmāt ǀ duḥ-svápnyāt ǀ ábhaiṣma ǀ ápa ǀ tát ǀ ucchatu ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

ajaiṣma ǀ adya ǀ asanāma ǀ ca ǀ abhūma ǀ anāgasaḥ ǀ vayam ǀ
uṣaḥ ǀ yasmāt ǀ duḥ-svapnyāt ǀ abhaiṣma ǀ apa ǀ tat ǀ ucchatu ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.047.18
Aṣṭaka · Adhyāya · Varga · Ṛk
6.4.10.03
Maṇḍala · Anuvāka · Ṛk
08.06.156
Devatā देवता
1-13, 17: Ādityās; 14-16, 18: Ādityās, Uṣas
Ṛṣi ऋषि
Trita Āptya
Chandas छन्दस्
Mahāpaṅkti
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.47.18

Interpretations

Sāyaṇa

स्वादोरभक्षीति पञ्चदशर्चं षष्ठंसीक्तं काण्वस्य प्रगाथस्यार्षं सोमदेवताकं त्रैष्टुभं पञ्चमीजगती । तथाचानुक्रान्तम्-स्वादोःपञ्चोना प्रगाथः सौम्यं त्रैष्टुभं पञ्चमीजगतीति । सीक्तविनियोगोलैङ्गिकः ।