Ṛk 8.47.14
Saṃhitā
यच्च॒ गोषु॑ दु॒ःष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः ।
त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
यच् च गोषु दुष्ष्वप्न्यं यच् चास्मे दुहितर् दिवः |
त्रिताय तद् विभावर्य् आप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ||
yácca góṣu duḥṣvápnyam yáccāsmé duhitardivaḥ ǀ
tritā́ya tádvibhāvaryāptyā́ya párā vahāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ
yac ca goṣu duṣṣvapnyaṃ yac cāsme duhitar divaḥ |
tritāya tad vibhāvary āptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ ||
Padapāṭha
यत् । च॒ । गोषु॑ । दुः॒ऽस्वप्न्य॑म् । यत् । च॒ । अ॒स्मे इति॑ । दु॒हि॒तः॒ । दि॒वः॒ ।
त्रि॒ताय॑ । तत् । वि॒भा॒ऽव॒रि॒ । आ॒प्त्याय॑ । परा॑ । व॒ह॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥
यत् । च । गोषु । दुःऽस्वप्न्यम् । यत् । च । अस्मे इति । दुहितः । दिवः ।
त्रिताय । तत् । विभाऽवरि । आप्त्याय । परा । वह । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥
yát ǀ ca ǀ góṣu ǀ duḥ-svápnyam ǀ yát ǀ ca ǀ asmé íti ǀ duhitaḥ ǀ divaḥ ǀ
tritā́ya ǀ tát ǀ vibhā-vari ǀ āptyā́ya ǀ párā ǀ vaha ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ
yat ǀ ca ǀ goṣu ǀ duḥ-svapnyam ǀ yat ǀ ca ǀ asme iti ǀ duhitaḥ ǀ divaḥ ǀ
tritāya ǀ tat ǀ vibhā-vari ǀ āptyāya ǀ parā ǀ vaha ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.047.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.09.04
- Maṇḍala · Anuvāka · Ṛk
- 08.06.152
- Devatā देवता
- 1-13, 17: Ādityās; 14-16, 18: Ādityās, Uṣas
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.