Ṛk 8.38.8
Saṃhitā
श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां शृणुतं॒ हवं॑ ।
इंद्रा॑ग्नी॒ सोम॑पीतये ॥
श्यावाश्वस्य सुन्वतो ऽत्रीणां शृणुतं हवम् |
इन्द्राग्नी सोमपीतये ||
śyāvā́śvasya sunvató’trīṇām śṛṇutam hávam ǀ
índrāgnī sómapītaye ǁ
śyāvāśvasya sunvato 'trīṇāṃ śṛṇutaṃ havam |
indrāgnī somapītaye ||
Padapāṭha
श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । अत्री॑णाम् । शृ॒णु॒त॒म् । हव॑म् ।
इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥
श्यावऽअश्वस्य । सुन्वतः । अत्रीणाम् । शृणुतम् । हवम् ।
इन्द्राग्नी इति । सोमऽपीतये ॥
śyāvá-aśvasya ǀ sunvatáḥ ǀ átrīṇām ǀ śṛṇutam ǀ hávam ǀ
índrāgnī íti ǀ sóma-pītaye ǁ
śyāva-aśvasya ǀ sunvataḥ ǀ atrīṇām ǀ śṛṇutam ǀ havam ǀ
indrāgnī iti ǀ soma-pītaye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.038.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.21.02
- Maṇḍala · Anuvāka · Ṛk
- 08.05.131
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.