Ṛgveda · Maṇḍala 8 · Sūkta 3

Ṛk 8.3.24

Indra · Kaurayāṇa’s Dānastuti · Medhyātithi Kāṇva

The whole sūkta Link

Saṃhitā

आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यंज॑नं ।
तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवं ॥

आत्मा पितुस् तनूर् वास ओजोदा अभ्यञ्जनम् |
तुरीयम् इद् रोहितस्य पाकस्थामानम् भोजं दातारम् अब्रवम् ||

ātmā́ pitústanū́rvā́sa ojodā́ abhyáñjanam ǀ
turī́yamídróhitasya pā́kasthāmānam bhojám dātā́ramabravam ǁ

ātmā pitus tanūr vāsa ojodā abhyañjanam |
turīyam id rohitasya pākasthāmānam bhojaṃ dātāram abravam ||

Padapāṭha

आ॒त्मा । पि॒तुः । त॒नूः । वासः॑ । ओ॒जः॒ऽदाः । अ॒भि॒ऽअञ्ज॑नम् ।
तु॒रीय॑म् । इत् । रोहि॑तस्य । पाक॑ऽस्थामानम् । भो॒जम् । दा॒तार॑म् । अ॒ब्र॒व॒म् ॥

आत्मा । पितुः । तनूः । वासः । ओजःऽदाः । अभिऽअञ्जनम् ।
तुरीयम् । इत् । रोहितस्य । पाकऽस्थामानम् । भोजम् । दातारम् । अब्रवम् ॥

ātmā́ ǀ pitúḥ ǀ tanū́ḥ ǀ vā́saḥ ǀ ojaḥ-dā́ḥ ǀ abhi-áñjanam ǀ
turī́yam ǀ ít ǀ róhitasya ǀ pā́ka-sthāmānam ǀ bhojám ǀ dātā́ram ǀ abravam ǁ

ātmā ǀ pituḥ ǀ tanūḥ ǀ vāsaḥ ǀ ojaḥ-dāḥ ǀ abhi-añjanam ǀ
turīyam ǀ it ǀ rohitasya ǀ pāka-sthāmānam ǀ bhojam ǀ dātāram ǀ abravam ǁ

References

Maṇḍala · Sūkta · Ṛk
08.003.24
Aṣṭaka · Adhyāya · Varga · Ṛk
5.7.29.04
Maṇḍala · Anuvāka · Ṛk
08.01.100
Devatā देवता
1-20: Indra; 21-24: Kaurayāṇa’s Dānastuti
Ṛṣi ऋषि
Medhyātithi Kāṇva
Chandas छन्दस्
Bṛhatī, Satobṛhatī, Gāyatrī, Anuṣṭubh
Svara स्वरः
मध्यमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.3.24

Interpretations

Sāyaṇa

यदिन्द्रेति एकविंशर्चं चतुर्थं सूक्तं काण्वगोत्रस्य देवातिथेरार्षं वृक्षाश्चिन्मइत्येषा पुरउष्णिक् शिष्टासु अयुजोबृहत्यः युजः सतोबृहत्यः स्थूरंराधइत्यादिभिस्तिसृभिः कुरुङ्गदानस्य स्तूयमानत्वात् तास्तद्देवताकाः तत्पूर्वाः पञ्चदश्याद्याश्चतस्रः पूषदेवताका इन्द्रदेवताकावा शिष्टाऎन्द्भ्यःतथाचानुक्रान्तम्-यदिन्द्रसैकादेवातिथिस्तृचोन्त्यः पुरउष्णिगन्तः कुरुङ्गस्य दानस्तुतिस्तत्पूर्वाश्चतस्रः पौष्णयोवेति । महाव्रते निष्केवल्ये बार्हततृचाशीतौ आद्याश्चतुर्दशर्चः शंसनीयाः तथैव पञ्चमारण्यके-यदिन्द्रप्रागपागुदगिति । चतुर्दशेति चातुर्विंशिकेहनि माध्यन्दिनसवनेच्छावाकशस्त्रे आद्यः प्रगाथोवैकल्पिकः स्तोत्रियः सूत्र्यतेहि-यदिन्द्रप्रागपागुदग्यथागौरोअपाकृतमिति ।