Ṛgveda · Maṇḍala 8 · Sūkta 76

Ṛk 8.76.11

Indra · Kurusuti Kāṇva

The whole sūkta Link

Saṃhitā

अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेतां ।
इंद्र॒ यद्द॑स्यु॒हाभ॑वः ॥

अनु त्वा रोदसी उभे क्रक्षमाणम् अकृपेताम् |
इन्द्र यद् दस्युहाभवः ||

ánu tvā ródasī ubhé krákṣamāṇamakṛpetām ǀ
índra yáddasyuhā́bhavaḥ ǁ

anu tvā rodasī ubhe krakṣamāṇam akṛpetām |
indra yad dasyuhābhavaḥ ||

Padapāṭha

अनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । क्रक्ष॑माणम् । अ॒कृ॒पे॒ता॒म् ।
इन्द्र॑ । यत् । द॒स्यु॒ऽहा । अभ॑वः ॥

अनु । त्वा । रोदसी इति । उभे इति । क्रक्षमाणम् । अकृपेताम् ।
इन्द्र । यत् । दस्युऽहा । अभवः ॥

ánu ǀ tvā ǀ ródasī íti ǀ ubhé íti ǀ krákṣamāṇam ǀ akṛpetām ǀ
índra ǀ yát ǀ dasyu-hā́ ǀ ábhavaḥ ǁ

anu ǀ tvā ǀ rodasī iti ǀ ubhe iti ǀ krakṣamāṇam ǀ akṛpetām ǀ
indra ǀ yat ǀ dasyu-hā ǀ abhavaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.076.11
Aṣṭaka · Adhyāya · Varga · Ṛk
6.5.28.05
Maṇḍala · Anuvāka · Ṛk
08.08.108
Devatā देवता
Indra
Ṛṣi ऋषि
Kurusuti Kāṇva
Chandas छन्दस्
Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.76.11

Interpretations

Sāyaṇa

हे इन्द्र क्रक्षमाणं शत्रून्विलिखन्तं त्वा त्वां उभे रोदसी उभे अपि द्यावापृथिव्यौ अन्वकृपेतां अनुकल्पयेतां । यद्यदा दस्युहा भवोभवसि तदा ॥ ११ ॥