Ṛgveda · Maṇḍala 8 · Sūkta 96

Ṛk 8.96.20

Indra · Indra (C) · Maruts (D) · Indra, Bṛhaspati · Indra, Soma · Tiraścī Āṅgirasa Or Dyutāna Māruti

The whole sūkta Link

Saṃhitā

स वृ॑त्र॒हेंद्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं॑ हुवेम ।
स प्रा॑वि॒ता म॒घवा॑ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ॥

स वृत्रहेन्द्रश् चर्षणीधृत् तं सुष्टुत्या हव्यं हुवेम |
स प्राविता मघवा नो ऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ||

sá vṛtrahéndraścarṣaṇīdhṛ́ttám suṣṭutyā́ hávyam huvema ǀ
sá prāvitā́ maghávā no’dhivaktā́ sá vā́jasya śravasyásya dātā́ ǁ

sa vṛtrahendraś carṣaṇīdhṛt taṃ suṣṭutyā havyaṃ huvema |
sa prāvitā maghavā no 'dhivaktā sa vājasya śravasyasya dātā ||

Padapāṭha

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । च॒र्ष॒णि॒ऽधृत् । तम् । सु॒ऽस्तु॒त्या । हव्य॑म् । हु॒वे॒म॒ ।
सः । प्र॒ऽअ॒वि॒ता । म॒घऽवा॑ । नः॒ । अ॒धि॒ऽव॒क्ता । सः । वाज॑स्य । श्र॒व॒स्य॑स्य । दा॒ता ॥

सः । वृत्रऽहा । इन्द्रः । चर्षणिऽधृत् । तम् । सुऽस्तुत्या । हव्यम् । हुवेम ।
सः । प्रऽअविता । मघऽवा । नः । अधिऽवक्ता । सः । वाजस्य । श्रवस्यस्य । दाता ॥

sáḥ ǀ vṛtra-hā́ ǀ índraḥ ǀ carṣaṇi-dhṛ́t ǀ tám ǀ su-stutyā́ ǀ hávyam ǀ huvema ǀ
sáḥ ǀ pra-avitā́ ǀ maghá-vā ǀ naḥ ǀ adhi-vaktā́ ǀ sáḥ ǀ vā́jasya ǀ śravasyásya ǀ dātā́ ǁ

saḥ ǀ vṛtra-hā ǀ indraḥ ǀ carṣaṇi-dhṛt ǀ tam ǀ su-stutyā ǀ havyam ǀ huvema ǀ
saḥ ǀ pra-avitā ǀ magha-vā ǀ naḥ ǀ adhi-vaktā ǀ saḥ ǀ vājasya ǀ śravasyasya ǀ dātā ǁ

References

Maṇḍala · Sūkta · Ṛk
08.096.20
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.35.05
Maṇḍala · Anuvāka · Ṛk
8.10.041
Devatā देवता
1-13, 16-20: Indra; 14: Indra (C); Maruts (D);; 15: Indra, Bṛhaspati; 21: Indra, Soma
Ṛṣi ऋषि
Tiraścī Āṅgirasa Or Dyutāna Māruti
Chandas छन्दस्
Triṣṭubh, Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.96.20

Interpretations

Sāyaṇa

वृत्रहा वृत्रस्य हन्ता सइन्द्रश्चर्षणीधृत् मनुष्याणां धनादिदानेन पोषकोभवति तमिन्द्रं हव्यं आह्वातुं योग्यं वयं सष्टुत्या शोभनया स्तुत्या हुवेम अस्मद्यज्ञेष्वाह्वयामः । किमर्थं यूयमाह्वयथेतिचेत् कारणं ब्रूमः-सइन्द्रः प्राविता प्रकर्षेणास्माकं रक्षिताभवति । किंच मघवा धनवानिन्द्रः नोस्माकमधिवक्ता अधिकं वक्ता बहुमानेन वक्ता भवति । यद्वा धनदानेनास्मानधिकं वक्तुमर्हति । अर्हेकृत्यतृचश्चेति तृच् । किंच सएवेन्द्रः श्रवस्यस्य श्रवसः कीर्तेर्निमित्तस्य वाजस्यान्नस्य । यद्वा श्रवसोन्नस्य हिताय वाजस्य बलस्य दाता भवतिखलु । तस्मादेवंगुणमिन्द्रं वयमाह्वयामः ॥ २० ॥