Ṛgveda · Maṇḍala 8 · Sūkta 96

Ṛk 8.96.21

Indra · Indra (C) · Maruts (D) · Indra, Bṛhaspati · Indra, Soma · Tiraścī Āṅgirasa Or Dyutāna Māruti

The whole sūkta Link

Saṃhitā

स वृ॑त्र॒हेंद्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो॑ बभूव ।
कृ॒ण्वन्नपां॑सि॒ नर्या॑ पु॒रूणि॒ सोमो॒ न पी॒तो हव्यः॒ सखि॑भ्यः ॥

स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव |
कृण्वन्न् अपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ||

sá vṛtrahéndra ṛbhukṣā́ḥ sadyó jajñānó hávyo babhūva ǀ
kṛṇvánnápāṃsi náryā purū́ṇi sómo ná pītó hávyaḥ sákhibhyaḥ ǁ

sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva |
kṛṇvann apāṃsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ ||

Padapāṭha

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । ऋ॒भु॒क्षाः । स॒द्यः । ज॒ज्ञा॒नः । हव्यः॑ । ब॒भू॒व॒ ।
कृ॒ण्वन् । अपां॑सि । नर्या॑ । पु॒रूणि॑ । सोमः॑ । न । पी॒तः । हव्यः॑ । सखि॑ऽभ्यः ॥

सः । वृत्रऽहा । इन्द्रः । ऋभुक्षाः । सद्यः । जज्ञानः । हव्यः । बभूव ।
कृण्वन् । अपांसि । नर्या । पुरूणि । सोमः । न । पीतः । हव्यः । सखिऽभ्यः ॥

sáḥ ǀ vṛtra-hā́ ǀ índraḥ ǀ ṛbhukṣā́ḥ ǀ sadyáḥ ǀ jajñānáḥ ǀ hávyaḥ ǀ babhūva ǀ
kṛṇván ǀ ápāṃsi ǀ náryā ǀ purū́ṇi ǀ sómaḥ ǀ ná ǀ pītáḥ ǀ hávyaḥ ǀ sákhi-bhyaḥ ǁ

saḥ ǀ vṛtra-hā ǀ indraḥ ǀ ṛbhukṣāḥ ǀ sadyaḥ ǀ jajñānaḥ ǀ havyaḥ ǀ babhūva ǀ
kṛṇvan ǀ apāṃsi ǀ naryā ǀ purūṇi ǀ somaḥ ǀ na ǀ pītaḥ ǀ havyaḥ ǀ sakhi-bhyaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.096.21
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.35.06
Maṇḍala · Anuvāka · Ṛk
8.10.042
Devatā देवता
1-13, 16-20: Indra; 14: Indra (C); Maruts (D);; 15: Indra, Bṛhaspati; 21: Indra, Soma
Ṛṣi ऋषि
Tiraścī Āṅgirasa Or Dyutāna Māruti
Chandas छन्दस्
Triṣṭubh, Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.96.21

Interpretations

Sāyaṇa

याइन्द्रेति पंचदशर्चं चतुर्थं सूक्तं काश्यपस्य रेभस्यार्षमैन्द्रं । दशम्यतिजगती द्वापंचाशदक्षरा । एकादशीद्वादश्यावुपरिष्टाद्ब्हत्यौ त्र्यष्टकांत- द्वादशकवत्यौ त्रयोदश्यतिजगती चतुर्दशीत्रिष्टुप् पंचदशी जगती शिष्टाबृहत्यः । तथाचानुक्रम्यते-याइन्द्रपंचोना रेभः काश्यपो बार्हतमतिजग- त्युपरिष्टाद्बृहत्यावतिजगतीत्रिष्टुप् जगतीत्यन्ततइति । सूक्तविनियोगोलैंगिकः । महाव्रते निष्केवल्ये बार्हततृचारीतौ याइन्द्रेत्यादिनवर्चः तथै- वपंचमारण्यके सूत्र्यते-याइन्द्रभुजाअभरइति नव सूददोहाइति । चातुर्विंशिकेहनि माध्यन्दिने सवने ब्राह्मणाच्छंसिनो वैकल्पिकानुरूपतृचस्य याइन्द्रेत्यादिके द्वे द्वितीयातृतीये । सूत्र्यतेच-तमिन्द्रंजोहवीमि याइन्द्रभुजआभर इत्येकाद्वेचेति ।