Ṛk 8.71.15
Saṃhitā
अ॒ग्निं द्वेषो॒ योत॒वै नो॑ गृणीमस्य॒ग्निं शं योश्च॒ दात॑वे ।
विश्वा॑सु वि॒क्ष्व॑वि॒तेव॒ हव्यो॒ भुव॒द्वस्तु॑र्ऋषू॒णां ॥
अग्निं द्वेषो योतवै नो गृणीमस्य् अग्निं शं योश् च दातवे |
विश्वासु विक्ष्व् अवितेव हव्यो भुवद् वस्तुर् ऋषूणाम् ||
agním dvéṣo yótavái no gṛṇīmasyagním śám yóśca dā́tave ǀ
víśvāsu vikṣvávitéva hávyo bhúvadvásturṛṣūṇā́m ǁ
agniṃ dveṣo yotavai no gṛṇīmasy agniṃ śaṃ yoś ca dātave |
viśvāsu vikṣv aviteva havyo bhuvad vastur ṛṣūṇām ||
Padapāṭha
अ॒ग्निम् । द्वेषः॑ । योत॒वै । नः॒ । गृ॒णी॒म॒सि॒ । अ॒ग्निम् । शम् । योः । च॒ । दात॑वे ।
विश्वा॑सु । वि॒क्षु । अ॒वि॒ताऽइ॑व । हव्यः॑ । भुव॑त् । वस्तुः॑ । ऋ॒षू॒णाम् ॥
अग्निम् । द्वेषः । योतवै । नः । गृणीमसि । अग्निम् । शम् । योः । च । दातवे ।
विश्वासु । विक्षु । अविताऽइव । हव्यः । भुवत् । वस्तुः । ऋषूणाम् ॥
agním ǀ dvéṣaḥ ǀ yótavái ǀ naḥ ǀ gṛṇīmasi ǀ agním ǀ śám ǀ yóḥ ǀ ca ǀ dā́tave ǀ
víśvāsu ǀ vikṣú ǀ avitā́-iva ǀ hávyaḥ ǀ bhúvat ǀ vástuḥ ǀ ṛṣūṇā́m ǁ
agnim ǀ dveṣaḥ ǀ yotavai ǀ naḥ ǀ gṛṇīmasi ǀ agnim ǀ śam ǀ yoḥ ǀ ca ǀ dātave ǀ
viśvāsu ǀ vikṣu ǀ avitā-iva ǀ havyaḥ ǀ bhuvat ǀ vastuḥ ǀ ṛṣūṇām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.071.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.5.13.05
- Maṇḍala · Anuvāka · Ṛk
- 08.08.030
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Purumīḷha Āṅgirasa; Sudīti Āṅgirasa
- Chandas छन्दस्
- Gāyatrī, Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.