Ṛgveda · Maṇḍala 8 · Sūkta 69

Ṛk 8.69.14

Indra · Viśve Devās (A) · Varuṇa (B) · Varuṇa · Priyamedha Āṅgirasa

The whole sūkta Link

Saṃhitā

अतीदु॑ श॒क्र ओ॑हत॒ इंद्रो॒ विश्वा॒ अति॒ द्विषः॑ ।
भि॒नत्क॒नीन॑ ओद॒नं प॒च्यमा॑नं प॒रो गि॒रा ॥

अतीद् उ शक्र ओहत इन्द्रो विश्वा अति द्विषः |
भिनत् कनीन ओदनम् पच्यमानम् परो गिरा ||

átī́du śakrá ohata índro víśvā áti dvíṣaḥ ǀ
bhinátkanī́na odanám pacyámānam paró girā́ ǁ

atīd u śakra ohata indro viśvā ati dviṣaḥ |
bhinat kanīna odanam pacyamānam paro girā ||

Padapāṭha

अति॑ । इत् । ऊं॒ इति॑ । श॒क्रः । ओ॒ह॒ते॒ । इन्द्रः॑ । विश्वाः॑ । अति॑ । द्विषः॑ ।
भि॒नत् । क॒नीनः॑ । ओ॒द॒नम् । प॒च्यमा॑नम् । प॒रः । गि॒रा ॥

अति । इत् । ऊं इति । शक्रः । ओहते । इन्द्रः । विश्वाः । अति । द्विषः ।
भिनत् । कनीनः । ओदनम् । पच्यमानम् । परः । गिरा ॥

áti ǀ ít ǀ ūṃ íti ǀ śakráḥ ǀ ohate ǀ índraḥ ǀ víśvāḥ ǀ áti ǀ dvíṣaḥ ǀ
bhinát ǀ kanī́naḥ ǀ odanám ǀ pacyámānam ǀ paráḥ ǀ girā́ ǁ

ati ǀ it ǀ ūṃ iti ǀ śakraḥ ǀ ohate ǀ indraḥ ǀ viśvāḥ ǀ ati ǀ dviṣaḥ ǀ
bhinat ǀ kanīnaḥ ǀ odanam ǀ pacyamānam ǀ paraḥ ǀ girā ǁ

References

Maṇḍala · Sūkta · Ṛk
08.069.14
Aṣṭaka · Adhyāya · Varga · Ṛk
6.5.07.04
Maṇḍala · Anuvāka · Ṛk
08.07.155
Devatā देवता
1-10, 13-18: Indra; 11: Viśve Devās (A); Varuṇa (B); 12: Varuṇa
Ṛṣi ऋषि
Priyamedha Āṅgirasa
Chandas छन्दस्
Anuṣṭubh, Gāyatrī, Paṅkti, Bṛhatī, Uṣṇih
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.69.14

Interpretations

Sāyaṇa

अयमिन्द्रः शक्रः शक्तः सन् अतीद्वोहते अतिक्रम्य गच्छत्येव संग्रामे निरोधकान् शत्रून् । तदेवाह-अयमिन्द्रो विश्वाः द्विषो द्वेष्टृन् शत्रूनति अतिक्रम्य गच्छति । कनीनः कमनीयः परोमेघानां परस्ताद्वर्तमान इन्द्रओदनं मेघनामैतत् मेघं भिनत् अभिनत् भिनत्ति वृष्ट्यर्थं । कीदृशं गिरा माध्यमिकयावाचा स्तनितलक्षणया पच्यमानं वज्रनिर्घोषेण ताड्यमानमित्यर्थः ॥ १४ ॥