Ṛgveda · Maṇḍala 8 · Sūkta 69

Ṛk 8.69.15

Indra · Viśve Devās (A) · Varuṇa (B) · Varuṇa · Priyamedha Āṅgirasa

The whole sūkta Link

Saṃhitā

अ॒र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथं॑ ।
स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतुं॑ ॥

अर्भको न कुमारको ऽधि तिष्ठन् नवं रथम् |
स पक्षन् महिषम् मृगम् पित्रे मात्रे विभुक्रतुम् ||

arbhakó ná kumārakó’dhi tiṣṭhannávam rátham ǀ
sá pakṣanmahiṣám mṛgám pitré mātré vibhukrátum ǁ

arbhako na kumārako 'dhi tiṣṭhan navaṃ ratham |
sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum ||

Padapāṭha

अ॒र्भ॒कः । न । कु॒मा॒र॒कः । अधि॑ । ति॒ष्ठ॒त् । नव॑म् । रथ॑म् ।
सः । प॒क्ष॒त् । म॒हि॒षम् । मृ॒गम् । पि॒त्रे । मा॒त्रे । वि॒भु॒ऽक्रतु॑म् ॥

अर्भकः । न । कुमारकः । अधि । तिष्ठत् । नवम् । रथम् ।
सः । पक्षत् । महिषम् । मृगम् । पित्रे । मात्रे । विभुऽक्रतुम् ॥

arbhakáḥ ǀ ná ǀ kumārakáḥ ǀ ádhi ǀ tiṣṭhat ǀ návam ǀ rátham ǀ
sáḥ ǀ pakṣat ǀ mahiṣám ǀ mṛgám ǀ pitré ǀ mātré ǀ vibhu-krátum ǁ

arbhakaḥ ǀ na ǀ kumārakaḥ ǀ adhi ǀ tiṣṭhat ǀ navam ǀ ratham ǀ
saḥ ǀ pakṣat ǀ mahiṣam ǀ mṛgam ǀ pitre ǀ mātre ǀ vibhu-kratum ǁ

References

Maṇḍala · Sūkta · Ṛk
08.069.15
Aṣṭaka · Adhyāya · Varga · Ṛk
6.5.07.05
Maṇḍala · Anuvāka · Ṛk
08.07.156
Devatā देवता
1-10, 13-18: Indra; 11: Viśve Devās (A); Varuṇa (B); 12: Varuṇa
Ṛṣi ऋषि
Priyamedha Āṅgirasa
Chandas छन्दस्
Anuṣṭubh, Gāyatrī, Paṅkti, Bṛhatī, Uṣṇih
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.69.15

Interpretations

Sāyaṇa

अयमिन्द्रः अर्भकोन अल्पशरीरः कुमारकः कुमारकइव पित्रे मात्रे सयथाधितिष्ठति तद्वत् नवं स्तुत्यं रथमधितिष्ठदधितिष्ठदधितिष्ठति सइन्द्रो महिषं महान्तं मृगं मृगवदितस्ततो धावन्तं सर्वैर्मृग्यं वा विभुक्रतुं बहुकर्माणं मेघं पक्षत् पचति वृष्ट्यभिमुखं करोतीत्यर्थः ॥ १५ ॥