Ṛgveda · Maṇḍala 8 · Sūkta 70

Ṛk 8.70.10

Indra · Puruhanman Āṅgirasa

The whole sūkta Link

Saṃhitā

त्वं न॑ इंद्र ऋत॒युस्त्वा॒निदो॒ नि तृं॑पसि ।
मध्ये॑ वसिष्व तुविनृम्णो॒र्वोर्नि दा॒सं शि॑श्नथो॒ हथैः॑ ॥

त्वं न इन्द्र ऋतयुस् त्वानिदो नि तृम्पसि |
मध्ये वसिष्व तुविनृम्णोर्वोर् नि दासं शिश्नथो हथैः ||

tvám na indra ṛtayústvānído ní tṛmpasi ǀ
mádhye vasiṣva tuvinṛmṇorvórní dāsám śiśnatho háthaiḥ ǁ

tvaṃ na indra ṛtayus tvānido ni tṛmpasi |
madhye vasiṣva tuvinṛmṇorvor ni dāsaṃ śiśnatho hathaiḥ ||

Padapāṭha

त्वम् । नः॒ । इ॒न्द्र॒ । ऋ॒त॒ऽयुः । त्वा॒ऽनिदः॑ । नि । तृ॒म्प॒सि॒ ।
मध्ये॑ । व॒सि॒ष्व॒ । तु॒वि॒ऽनृ॒म्ण॒ । ऊ॒र्वोः । नि । दा॒सम् । शि॒श्न॒थः॒ । हथैः॑ ॥

त्वम् । नः । इन्द्र । ऋतऽयुः । त्वाऽनिदः । नि । तृम्पसि ।
मध्ये । वसिष्व । तुविऽनृम्ण । ऊर्वोः । नि । दासम् । शिश्नथः । हथैः ॥

tvám ǀ naḥ ǀ indra ǀ ṛta-yúḥ ǀ tvā-nídaḥ ǀ ní ǀ tṛmpasi ǀ
mádhye ǀ vasiṣva ǀ tuvi-nṛmṇa ǀ ūrvóḥ ǀ ní ǀ dāsám ǀ śiśnathaḥ ǀ háthaiḥ ǁ

tvam ǀ naḥ ǀ indra ǀ ṛta-yuḥ ǀ tvā-nidaḥ ǀ ni ǀ tṛmpasi ǀ
madhye ǀ vasiṣva ǀ tuvi-nṛmṇa ǀ ūrvoḥ ǀ ni ǀ dāsam ǀ śiśnathaḥ ǀ hathaiḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.070.10
Aṣṭaka · Adhyāya · Varga · Ṛk
6.5.09.05
Maṇḍala · Anuvāka · Ṛk
08.08.010
Devatā देवता
Indra
Ṛṣi ऋषि
Puruhanman Āṅgirasa
Chandas छन्दस्
Bṛhatī, Satobṛhatī, Uṣṇih, Anuṣṭubh, Pura-Uṣṇih
Svara स्वरः
मध्यमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.70.10

Interpretations

Sāyaṇa

हे इन्द्र ऋतयुर्यज्ञकामस्त्वं नोस्मान् त्वानिदः त्वां योनिन्दति सः अयजनमेवनिन्दा तव तस्मादयष्टुः सकाशात् नि नितरां तृम्पसि प्रीणयसि तस्य धनमपत्दृत्येति भावः । एवं सन्तर्प्य हे तुविनृम्ण प्रभूतधन सत्वं तवोर्वोर्मध्येस्मान्वसिष्व ऊरुभ्यामाच्छादय रक्षार्थं । दासं उपक्षपयितारं अस्मद्द्वेषिणं पापंवा हथैर्हननैर्निशिश्नथः मारयसि । अथवा त्वद्विरोधिनं दासमसुरं निशिश्नथोहननैः ॥ १० ॥