Ṛk 8.70.8
Saṃhitā
तं वो॑ म॒हो म॒हाय्य॒मिंद्रं॑ दा॒नाय॑ स॒क्षणिं॑ ।
यो गा॒धेषु॒ य आर॑णेषु॒ हव्यो॒ वाजे॒ष्वस्ति॒ हव्यः॑ ॥
तं वो महो महाय्यम् इन्द्रं दानाय सक्षणिम् |
यो गाधेषु य आरणेषु हव्यो वाजेष्व् अस्ति हव्यः ||
tám vo mahó mahā́yyamíndram dānā́ya sakṣáṇim ǀ
yó gādhéṣu yá ā́raṇeṣu hávyo vā́jeṣvásti hávyaḥ ǁ
taṃ vo maho mahāyyam indraṃ dānāya sakṣaṇim |
yo gādheṣu ya āraṇeṣu havyo vājeṣv asti havyaḥ ||
Padapāṭha
तम् । वः॒ । म॒हः । म॒हाय्य॑म् । इन्द्र॑म् । दा॒नाय॑ । स॒क्षणि॑म् ।
यः । गा॒धेषु॑ । यः । आ॒ऽअर॑णेषु । हव्यः॑ । वाजे॑षु । अस्ति॑ । हव्यः॑ ॥
तम् । वः । महः । महाय्यम् । इन्द्रम् । दानाय । सक्षणिम् ।
यः । गाधेषु । यः । आऽअरणेषु । हव्यः । वाजेषु । अस्ति । हव्यः ॥
tám ǀ vaḥ ǀ maháḥ ǀ mahā́yyam ǀ índram ǀ dānā́ya ǀ sakṣáṇim ǀ
yáḥ ǀ gādhéṣu ǀ yáḥ ǀ ā-áraṇeṣu ǀ hávyaḥ ǀ vā́jeṣu ǀ ásti ǀ hávyaḥ ǁ
tam ǀ vaḥ ǀ mahaḥ ǀ mahāyyam ǀ indram ǀ dānāya ǀ sakṣaṇim ǀ
yaḥ ǀ gādheṣu ǀ yaḥ ǀ ā-araṇeṣu ǀ havyaḥ ǀ vājeṣu ǀ asti ǀ havyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.070.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.5.09.03
- Maṇḍala · Anuvāka · Ṛk
- 08.08.008
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Puruhanman Āṅgirasa
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Uṣṇih, Anuṣṭubh, Pura-Uṣṇih
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.