Ṛgveda · Maṇḍala 8 · Sūkta 99

Ṛk 8.99.8

Indra · Nṛmedha Āṅgirasa

The whole sūkta Link

Saṃhitā

इ॒ष्क॒र्तार॒मनि॑ष्कृतं॒ सह॑स्कृतं श॒तमू॑तिं श॒तक्र॑तुं ।
स॒मा॒नमिंद्र॒मव॑से हवामहे॒ वस॑वानं वसू॒जुवं॑ ॥

इष्कर्तारम् अनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम् |
समानम् इन्द्रम् अवसे हवामहे वसवानं वसूजुवम् ||

iṣkartā́ramániṣkṛtam sáhaskṛtam śatámūtim śatákratum ǀ
samānámíndramávase havāmahe vásavānam vasūjúvam ǁ

iṣkartāram aniṣkṛtaṃ sahaskṛtaṃ śatamūtiṃ śatakratum |
samānam indram avase havāmahe vasavānaṃ vasūjuvam ||

Padapāṭha

इ॒ष्क॒र्तार॑म् । अनिः॑ऽकृतम् । सहः॑ऽकृतम् । श॒तम्ऽऊ॑तिम् । श॒तऽक्र॑तुम् ।
स॒मा॒नम् । इन्द्र॑म् । अव॑से । ह॒वा॒म॒हे॒ । वस॑वानम् । व॒सु॒ऽजुव॑म् ॥

इष्कर्तारम् । अनिःऽकृतम् । सहःऽकृतम् । शतम्ऽऊतिम् । शतऽक्रतुम् ।
समानम् । इन्द्रम् । अवसे । हवामहे । वसवानम् । वसुऽजुवम् ॥

iṣkartā́ram ǀ ániḥ-kṛtam ǀ sáhaḥ-kṛtam ǀ śatám-ūtim ǀ śatá-kratum ǀ
samānám ǀ índram ǀ ávase ǀ havāmahe ǀ vásavānam ǀ vasu-júvam ǁ

iṣkartāram ǀ aniḥ-kṛtam ǀ sahaḥ-kṛtam ǀ śatam-ūtim ǀ śata-kratum ǀ
samānam ǀ indram ǀ avase ǀ havāmahe ǀ vasavānam ǀ vasu-juvam ǁ

References

Maṇḍala · Sūkta · Ṛk
08.099.08
Aṣṭaka · Adhyāya · Varga · Ṛk
6.7.03.00
Devatā देवता
Indra
Ṛṣi ऋषि
Nṛmedha Āṅgirasa
Chandas छन्दस्
Bṛhatī, Satobṛhatī
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.99.8

Interpretations

Sāyaṇa

अयंतइति द्वादशर्चं सप्तमं सूक्तं भृगुगोत्रस्य नेमस्यार्षं अयमस्मिजरितरिति द्वृचेनेन्द्रोनेमसमीपमेत्य स्वकीयं माहात्म्यमवोचत् अतस्तस्य द्वृचस्य सएवऋषिः यस्यवाक्यं सऋषिरिति न्यायात् । षष्ठी जगती सप्तम्याद्यास्तिस्रोनुष्टुभः शिष्टास्त्रिष्टुभः इन्द्रोदेवता यद्वाग्वदन्ती देवींवाच- मित्येते वाग्देवत्ये शिष्टाऎन्द्र्यः । तथाचानुक्रान्तं-अयंतेद्वादश नेमोभर्गवस्त्रैष्टुभं षष्ठीजगती परास्तिस्रोनुष्टुभः अयमितिद्वृचेनेन्द्र आत्मानम- स्तौदुपान्त्येवाच्याविति । वाग्देवत्ये पशौ यद्वाग्वदन्तीति वपायाअनुवाक्या । सूत्रितंच-यद्वाग्वदन्त्यविचेतनानि पतंगोवाचंमनसाबिभर्तीति । पूर्वोक्तएव पशौ देवींवाचमिति हविषोयाज्या । सूत्रितंच-देवींवाचमजनयन्तदेवा जनीयन्तोन्वग्रवइति तिस्रइति । प्रयाणसमये वयसाममनो- ज्ञावाचः श्रुत्वा एतांजपेत् । सूत्रितंच-कनिक्रदज्जनुषं प्रब्रुवाणइति सूक्ते जपेद्देवींवाचमजनयन्तदेवाइतिचेति ।