Ṛk 8.95.9
Saṃhitā
इंद्र॑ शु॒द्धो हि नो॑ र॒यिं शु॒द्धो रत्ना॑नि दा॒शुषे॑ ।
शु॒द्धो वृ॒त्राणि॑ जिघ्नसे शु॒द्धो वाजं॑ सिषाससि ॥
इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे |
शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ||
índra śuddhó hí no rayím śuddhó rátnāni dāśúṣe ǀ
śuddhó vṛtrā́ṇi jighnase śuddhó vā́jam siṣāsasi ǁ
indra śuddho hi no rayiṃ śuddho ratnāni dāśuṣe |
śuddho vṛtrāṇi jighnase śuddho vājaṃ siṣāsasi ||
Padapāṭha
इन्द्र॑ । शु॒द्धः । हि । नः॒ । र॒यिम् । शु॒द्धः । रत्ना॑नि । दा॒शुषे॑ ।
शु॒द्धः । वृ॒त्राणि॑ । जि॒घ्न॒से॒ । शु॒द्धः । वाज॑म् । सि॒सा॒स॒सि॒ ॥
इन्द्र । शुद्धः । हि । नः । रयिम् । शुद्धः । रत्नानि । दाशुषे ।
शुद्धः । वृत्राणि । जिघ्नसे । शुद्धः । वाजम् । सिसाससि ॥
índra ǀ śuddháḥ ǀ hí ǀ naḥ ǀ rayím ǀ śuddháḥ ǀ rátnāni ǀ dāśúṣe ǀ
śuddháḥ ǀ vṛtrā́ṇi ǀ jighnase ǀ śuddháḥ ǀ vā́jam ǀ sisāsasi ǁ
indra ǀ śuddhaḥ ǀ hi ǀ naḥ ǀ rayim ǀ śuddhaḥ ǀ ratnāni ǀ dāśuṣe ǀ
śuddhaḥ ǀ vṛtrāṇi ǀ jighnase ǀ śuddhaḥ ǀ vājam ǀ sisāsasi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.095.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.31.04
- Maṇḍala · Anuvāka · Ṛk
- 8.10.021
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Tiraścī Āṅgirasa
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.