Ṛk 8.4.16
Saṃhitā
सं नः॑ शिशीहि भु॒रिजो॑रिव क्षु॒रं रास्व॑ रा॒यो वि॑मोचन ।
त्वे तन्नः॑ सु॒वेद॑मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्यं॑ ॥
सं नः शिशीहि भुरिजोर् इव क्षुरं रास्व रायो विमोचन |
त्वे तन् नः सुवेदम् उस्रियं वसु यं त्वं हिनोषि मर्त्यम् ||
sám naḥ śiśīhi bhuríjoriva kṣurám rā́sva rāyó vimocana ǀ
tvé tánnaḥ suvédamusríyam vásu yám tvám hinóṣi mártyam ǁ
saṃ naḥ śiśīhi bhurijor iva kṣuraṃ rāsva rāyo vimocana |
tve tan naḥ suvedam usriyaṃ vasu yaṃ tvaṃ hinoṣi martyam ||
Padapāṭha
सम् । नः॒ । शि॒शी॒हि॒ । भु॒रिजोः॑ऽइव । क्षु॒रम् । रास्व॑ । रा॒यः । वि॒ऽमो॒च॒न॒ ।
त्वे इति॑ । तत् । नः॒ । सु॒ऽवेद॑म् । उ॒स्रिय॑म् । वसु॑ । यम् । त्वम् । हि॒नोषि॑ । मर्त्य॑म् ॥
सम् । नः । शिशीहि । भुरिजोःऽइव । क्षुरम् । रास्व । रायः । विऽमोचन ।
त्वे इति । तत् । नः । सुऽवेदम् । उस्रियम् । वसु । यम् । त्वम् । हिनोषि । मर्त्यम् ॥
sám ǀ naḥ ǀ śiśīhi ǀ bhuríjoḥ-iva ǀ kṣurám ǀ rā́sva ǀ rāyáḥ ǀ vi-mocana ǀ
tvé íti ǀ tát ǀ naḥ ǀ su-védam ǀ usríyam ǀ vásu ǀ yám ǀ tvám ǀ hinóṣi ǀ mártyam ǁ
sam ǀ naḥ ǀ śiśīhi ǀ bhurijoḥ-iva ǀ kṣuram ǀ rāsva ǀ rāyaḥ ǀ vi-mocana ǀ
tve iti ǀ tat ǀ naḥ ǀ su-vedam ǀ usriyam ǀ vasu ǀ yam ǀ tvam ǀ hinoṣi ǀ martyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.004.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.7.33.01
- Maṇḍala · Anuvāka · Ṛk
- 08.01.116
- Devatā देवता
- 1-14: Indra; 15: Pūṣan; 16-18: Indra Or Pūṣan; 19-21: Kuruṅga’s Dānastuti
- Ṛṣi ऋषि
- Devātithi Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Pura-Uṣṇih
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.