Ṛk 8.4.7
Saṃhitā
मा भे॑म॒ मा श्र॑मिष्मो॒ग्रस्य॑ स॒ख्ये तव॑ ।
म॒हत्ते॒ वृष्णो॑ अभि॒चक्ष्यं॑ कृ॒तं पश्ये॑म तु॒र्वशं॒ यदुं॑ ॥
मा भेम मा श्रमिष्मोग्रस्य सख्ये तव |
महत् ते वृष्णो अभिचक्ष्यं कृतम् पश्येम तुर्वशं यदुम् ||
mā́ bhema mā́ śramiṣmográsya sakhyé táva ǀ
mahátte vṛ́ṣṇo abhicákṣyam kṛtám páśyema turváśam yádum ǁ
mā bhema mā śramiṣmograsya sakhye tava |
mahat te vṛṣṇo abhicakṣyaṃ kṛtam paśyema turvaśaṃ yadum ||
Padapāṭha
मा । भे॒म॒ । मा । श्र॒मि॒ष्म॒ । उ॒ग्रस्य॑ । स॒ख्ये । तव॑ ।
म॒हत् । ते॒ । वृष्णः॑ । अ॒भि॒ऽचक्ष्य॑म् । कृ॒तम् । पश्ये॑म । तु॒र्वश॑म् । यदु॑म् ॥
मा । भेम । मा । श्रमिष्म । उग्रस्य । सख्ये । तव ।
महत् । ते । वृष्णः । अभिऽचक्ष्यम् । कृतम् । पश्येम । तुर्वशम् । यदुम् ॥
mā́ ǀ bhema ǀ mā́ ǀ śramiṣma ǀ ugrásya ǀ sakhyé ǀ táva ǀ
mahát ǀ te ǀ vṛ́ṣṇaḥ ǀ abhi-cákṣyam ǀ kṛtám ǀ páśyema ǀ turváśam ǀ yádum ǁ
mā ǀ bhema ǀ mā ǀ śramiṣma ǀ ugrasya ǀ sakhye ǀ tava ǀ
mahat ǀ te ǀ vṛṣṇaḥ ǀ abhi-cakṣyam ǀ kṛtam ǀ paśyema ǀ turvaśam ǀ yadum ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.004.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.7.31.02
- Maṇḍala · Anuvāka · Ṛk
- 08.01.107
- Devatā देवता
- 1-14: Indra; 15: Pūṣan; 16-18: Indra Or Pūṣan; 19-21: Kuruṅga’s Dānastuti
- Ṛṣi ऋषि
- Devātithi Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Pura-Uṣṇih
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.