Ṛk 8.58.2
Saṃhitā
एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्ध॒ एकः॒ सूर्यो॒ विश्व॒मनु॒ प्रभू॑तः ।
एकै॒वोषाः सर्व॑मि॒दं वि भा॒त्येकं॒ वा इ॒दं वि ब॑भूव॒ सर्वं॑ ॥
एक एवाग्निर् बहुधा समिद्ध एकः सूर्यो विश्वम् अनु प्रभूतः |
एकैवोषाः सर्वम् इदं वि भात्य् एकं वा इदं वि बभूव सर्वम् ||
éka evā́gnírbahudhā́ sámiddha ékaḥ sū́ryo víśvamánu prábhūtaḥ ǀ
ékaivóṣā́ḥ sárvamidám ví bhātyékam vā́ idám ví babhūva sárvam ǁ
eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtaḥ |
ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ vā idaṃ vi babhūva sarvam ||
Padapāṭha
एकः॑ । ए॒व । अ॒ग्निः । ब॒हु॒धा । सम्ऽइ॑द्धः । एकः॑ । सूर्यः॑ । विश्व॑म् । अनु॑ । प्रऽभू॑तः ।
एका॑ । ए॒व । उ॒षाः । सर्व॑म् । इ॒दम् । वि । भा॒ति॒ । एक॑म् । वै । इ॒दम् । वि । ब॒भू॒व॒ । सर्व॑म् ॥
एकः । एव । अग्निः । बहुधा । सम्ऽइद्धः । एकः । सूर्यः । विश्वम् । अनु । प्रऽभूतः ।
एका । एव । उषाः । सर्वम् । इदम् । वि । भाति । एकम् । वै । इदम् । वि । बभूव । सर्वम् ॥
ékaḥ ǀ evá ǀ agníḥ ǀ bahudhā́ ǀ sám-iddhaḥ ǀ ékaḥ ǀ sū́ryaḥ ǀ víśvam ǀ ánu ǀ prá-bhūtaḥ ǀ
ékā ǀ evá ǀ uṣā́ḥ ǀ sárvam ǀ idám ǀ ví ǀ bhāti ǀ ékam ǀ vái ǀ idám ǀ ví ǀ babhūva ǀ sárvam ǁ
ekaḥ ǀ eva ǀ agniḥ ǀ bahudhā ǀ sam-iddhaḥ ǀ ekaḥ ǀ sūryaḥ ǀ viśvam ǀ anu ǀ pra-bhūtaḥ ǀ
ekā ǀ eva ǀ uṣāḥ ǀ sarvam ǀ idam ǀ vi ǀ bhāti ǀ ekam ǀ vai ǀ idam ǀ vi ǀ babhūva ǀ sarvam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.058.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.29.02
- Maṇḍala · Anuvāka · Ṛk
- 08.06.243
- Devatā देवता
- 1: Ṛtvij; 2: Agni, Uṣas, Sūrya; 3: Aśvins, Uṣas
- Ṛṣi ऋषि
- Medhya Kāṇva (Not Mentioned In The Sarvānukramaṇī)
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.