Ṛk 8.57.2
Saṃhitā
यु॒वां दे॒वास्त्रय॑ एकाद॒शासः॑ स॒त्याः स॒त्यस्य॑ ददृशे पु॒रस्ता॑त् ।
अ॒स्माकं॑ य॒ज्ञं सव॑नं जुषा॒णा पा॒तं सोम॑मश्विना॒ दीद्य॑ग्नी ॥
युवां देवास् त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् |
अस्माकं यज्ञं सवनं जुषाणा पातं सोमम् अश्विना दीद्यग्नी ||
yuvā́m devā́stráya ekādaśā́saḥ satyā́ḥ satyásya dadṛśe purástāt ǀ
asmā́kam yajñám sávanam juṣāṇā́ pātám sómamaśvinā dī́dyagnī ǁ
yuvāṃ devās traya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt |
asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somam aśvinā dīdyagnī ||
Padapāṭha
यु॒वाम् । दे॒वाः । त्रयः॑ । ए॒का॒द॒शासः॑ । स॒त्याः । स॒त्यस्य॑ । द॒दृ॒शे॒ । पु॒रस्ता॑त् ।
अ॒स्माक॑म् । य॒ज्ञम् । सव॑नम् । जु॒षा॒णा । पा॒तम् । सोम॑म् । अ॒श्वि॒ना॒ । दीद्य॑ग्नी॒ इति॒ दीदि॑ऽअग्नी ॥
युवाम् । देवाः । त्रयः । एकादशासः । सत्याः । सत्यस्य । ददृशे । पुरस्तात् ।
अस्माकम् । यज्ञम् । सवनम् । जुषाणा । पातम् । सोमम् । अश्विना । दीद्यग्नी इति दीदिऽअग्नी ॥
yuvā́m ǀ devā́ḥ ǀ tráyaḥ ǀ ekādaśā́saḥ ǀ satyā́ḥ ǀ satyásya ǀ dadṛśe ǀ purástāt ǀ
asmā́kam ǀ yajñám ǀ sávanam ǀ juṣāṇā́ ǀ pātám ǀ sómam ǀ aśvinā ǀ dī́dyagnī íti dī́di-agnī ǁ
yuvām ǀ devāḥ ǀ trayaḥ ǀ ekādaśāsaḥ ǀ satyāḥ ǀ satyasya ǀ dadṛśe ǀ purastāt ǀ
asmākam ǀ yajñam ǀ savanam ǀ juṣāṇā ǀ pātam ǀ somam ǀ aśvinā ǀ dīdyagnī iti dīdi-agnī ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.057.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.28.02
- Maṇḍala · Anuvāka · Ṛk
- 08.06.239
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Medhya Kāṇva
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.