Ṛk 8.15.1
Saṃhitā
तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तं ।
इंद्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥
तम् व् अभि प्र गायत पुरुहूतम् पुरुष्टुतम् |
इन्द्रं गीर्भिस् तविषम् आ विवासत ||
támvabhí prá gāyata puruhūtám puruṣṭutám ǀ
índram gīrbhístaviṣámā́ vivāsata ǁ
tam v abhi pra gāyata puruhūtam puruṣṭutam |
indraṃ gīrbhis taviṣam ā vivāsata ||
Padapāṭha
तम् । ऊं॒ इति॑ । अ॒भि । प्र । गा॒य॒त॒ । पु॒रु॒ऽहू॒तम् । पु॒रु॒ऽस्तु॒तम् ।
इन्द्र॑म् । गीः॒ऽभिः । त॒वि॒षम् । आ । वि॒वा॒स॒त॒ ॥
तम् । ऊं इति । अभि । प्र । गायत । पुरुऽहूतम् । पुरुऽस्तुतम् ।
इन्द्रम् । गीःऽभिः । तविषम् । आ । विवासत ॥
tám ǀ ūṃ íti ǀ abhí ǀ prá ǀ gāyata ǀ puru-hūtám ǀ puru-stutám ǀ
índram ǀ gīḥ-bhíḥ ǀ taviṣám ǀ ā́ ǀ vivāsata ǁ
tam ǀ ūṃ iti ǀ abhi ǀ pra ǀ gāyata ǀ puru-hūtam ǀ puru-stutam ǀ
indram ǀ gīḥ-bhiḥ ǀ taviṣam ǀ ā ǀ vivāsata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.015.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.17.01
- Maṇḍala · Anuvāka · Ṛk
- 08.03.049
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Aśvasūktin Kāṇvāyana; Goṣūktin Kāṇvāyana
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.