Ṛgveda · Maṇḍala 8 · Sūkta 48

Ṛk 8.48.15

Soma · Pragātha Kāṇva

The whole sūkta Link

Saṃhitā

त्वं नः॑ सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षाः॑ ।
त्वं न॑ इंद ऊ॒तिभिः॑ स॒जोषाः॑ पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥

त्वं नः सोम विश्वतो वयोधास् त्वं स्वर्विद् आ विशा नृचक्षाः |
त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चाताद् उत वा पुरस्तात् ||

tvám naḥ soma viśváto vayodhā́stvám svarvídā́ viśā nṛcákṣāḥ ǀ
tvám na inda ūtíbhiḥ sajóṣāḥ pāhí paścā́tādutá vā purástāt ǁ

tvaṃ naḥ soma viśvato vayodhās tvaṃ svarvid ā viśā nṛcakṣāḥ |
tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt ||

Padapāṭha

त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । व॒यः॒ऽधाः । त्वम् । स्वः॒ऽवित् । आ । वि॒श॒ । नृ॒ऽचक्षाः॑ ।
त्वम् । नः॒ । इ॒न्दो॒ इति॑ । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । पा॒हि । प॒श्चाता॑त् । उ॒त । वा॒ । पु॒रस्ता॑त् ॥

त्वम् । नः । सोम । विश्वतः । वयःऽधाः । त्वम् । स्वःऽवित् । आ । विश । नृऽचक्षाः ।
त्वम् । नः । इन्दो इति । ऊतिऽभिः । सऽजोषाः । पाहि । पश्चातात् । उत । वा । पुरस्तात् ॥

tvám ǀ naḥ ǀ soma ǀ viśvátaḥ ǀ vayaḥ-dhā́ḥ ǀ tvám ǀ svaḥ-vít ǀ ā́ ǀ viśa ǀ nṛ-cákṣāḥ ǀ
tvám ǀ naḥ ǀ indo íti ǀ ūtí-bhiḥ ǀ sa-jóṣāḥ ǀ pāhí ǀ paścā́tāt ǀ utá ǀ vā ǀ purástāt ǁ

tvam ǀ naḥ ǀ soma ǀ viśvataḥ ǀ vayaḥ-dhāḥ ǀ tvam ǀ svaḥ-vit ǀ ā ǀ viśa ǀ nṛ-cakṣāḥ ǀ
tvam ǀ naḥ ǀ indo iti ǀ ūti-bhiḥ ǀ sa-joṣāḥ ǀ pāhi ǀ paścātāt ǀ uta ǀ vā ǀ purastāt ǁ

References

Maṇḍala · Sūkta · Ṛk
08.048.15
Aṣṭaka · Adhyāya · Varga · Ṛk
6.4.13.05
Maṇḍala · Anuvāka · Ṛk
08.06.171
Devatā देवता
Soma
Ṛṣi ऋषि
Pragātha Kāṇva
Chandas छन्दस्
Triṣṭubh, Jagatī
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.48.15

Interpretations

Sāyaṇa

सप्तमेनुवाके दशसूक्तानि तत्राग्नआयाहीति विंशत्यृचं प्रथमं सूक्तं प्रगाथपुत्रस्य भर्गस्यार्षं आग्नेयं प्रथमातृतीयाद्ययुजोबृहत्यः द्वितीयाचतुर्थ्यादि युजः सतोबृहत्यः । तथाचानुक्रान्तम्अग्नआ विंशतिर्भर्गः प्रागाथआग्नेयं प्रागाथंत्विति । प्रातरनुवाके आग्नेयेक्रतौ बार्हतेछन्दसि आश्विनशस्त्रेचेदं सूक्तम् । तथाचसूत्रितम्-अयमग्निरग्नआयाहीति ।