Ṛk 8.48.6
Saṃhitā
अ॒ग्निं न मा॑ मथि॒तं सं दि॑दीपः॒ प्र च॑क्षय कृणु॒हि वस्य॑सो नः ।
अथा॒ हि ते॒ मद॒ आ सो॑म॒ मन्ये॑ रे॒वाँ इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ॥
अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः |
अथा हि ते मद आ सोम मन्ये रेवां इव प्र चरा पुष्टिम् अच्छ ||
agním ná mā mathitám sám didīpaḥ prá cakṣaya kṛṇuhí vásyaso naḥ ǀ
áthā hí te máda ā́ soma mánye revā́m̐ iva prá carā puṣṭímáccha ǁ
agniṃ na mā mathitaṃ saṃ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ |
athā hi te mada ā soma manye revāṃ iva pra carā puṣṭim accha ||
Padapāṭha
अ॒ग्निम् । न । मा॒ । म॒थि॒तम् । सम् । दि॒दी॒पः॒ । प्र । च॒क्ष॒य॒ । कृ॒णु॒हि । वस्य॑सः । नः॒ ।
अथ॑ । हि । ते॒ । मदे॑ । आ । सो॒म॒ । मन्ये॑ । रे॒वान्ऽइ॑व । प्र । च॒र॒ । पु॒ष्टिम् । अच्छ॑ ॥
अग्निम् । न । मा । मथितम् । सम् । दिदीपः । प्र । चक्षय । कृणुहि । वस्यसः । नः ।
अथ । हि । ते । मदे । आ । सोम । मन्ये । रेवान्ऽइव । प्र । चर । पुष्टिम् । अच्छ ॥
agním ǀ ná ǀ mā ǀ mathitám ǀ sám ǀ didīpaḥ ǀ prá ǀ cakṣaya ǀ kṛṇuhí ǀ vásyasaḥ ǀ naḥ ǀ
átha ǀ hí ǀ te ǀ máde ǀ ā́ ǀ soma ǀ mánye ǀ revā́n-iva ǀ prá ǀ cara ǀ puṣṭím ǀ áccha ǁ
agnim ǀ na ǀ mā ǀ mathitam ǀ sam ǀ didīpaḥ ǀ pra ǀ cakṣaya ǀ kṛṇuhi ǀ vasyasaḥ ǀ naḥ ǀ
atha ǀ hi ǀ te ǀ made ǀ ā ǀ soma ǀ manye ǀ revān-iva ǀ pra ǀ cara ǀ puṣṭim ǀ accha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.048.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.12.01
- Maṇḍala · Anuvāka · Ṛk
- 08.06.162
- Devatā देवता
- Soma
- Ṛṣi ऋषि
- Pragātha Kāṇva
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.