Ṛk 8.82.5
Saṃhitā
तुभ्या॒यमद्रि॑भिः सु॒तो गोभिः॑ श्री॒तो मदा॑य॒ कं ।
प्र सोम॑ इंद्र हूयते ॥
तुभ्यायम् अद्रिभिः सुतो गोभिः श्रीतो मदाय कम् |
प्र सोम इन्द्र हूयते ||
túbhyāyámádribhiḥ sutó góbhiḥ śrītó mádāya kám ǀ
prá sóma indra hūyate ǁ
tubhyāyam adribhiḥ suto gobhiḥ śrīto madāya kam |
pra soma indra hūyate ||
Padapāṭha
तुभ्य॑ । अ॒यम् । अद्रि॑ऽभिः । सु॒तः । गोभिः॑ । श्री॒तः । मदा॑य । कम् ।
प्र । सोमः॑ । इ॒न्द्र॒ । हू॒य॒ते॒ ॥
तुभ्य । अयम् । अद्रिऽभिः । सुतः । गोभिः । श्रीतः । मदाय । कम् ।
प्र । सोमः । इन्द्र । हूयते ॥
túbhya ǀ ayám ǀ ádri-bhiḥ ǀ sutáḥ ǀ góbhiḥ ǀ śrītáḥ ǀ mádāya ǀ kám ǀ
prá ǀ sómaḥ ǀ indra ǀ hūyate ǁ
tubhya ǀ ayam ǀ adri-bhiḥ ǀ sutaḥ ǀ gobhiḥ ǀ śrītaḥ ǀ madāya ǀ kam ǀ
pra ǀ somaḥ ǀ indra ǀ hūyate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.082.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.01.05
- Maṇḍala · Anuvāka · Ṛk
- 08.09.014
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kusīdin Kāṇva
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.