Ṛk 8.82.9
Saṃhitā
यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तं ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥
यं ते श्येनः पदाभरत् तिरो रजांस्य् अस्पृतम् |
पिबेद् अस्य त्वम् ईशिषे ||
yám te śyenáḥ padā́bharattiró rájāṃsyáspṛtam ǀ
píbédasya tvámīśiṣe ǁ
yaṃ te śyenaḥ padābharat tiro rajāṃsy aspṛtam |
pibed asya tvam īśiṣe ||
Padapāṭha
यम् । ते॒ । श्ये॒नः । प॒दा । आ । अभ॑रत् । ति॒रः । रजां॑सि । अस्पृ॑तम् ।
पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥
यम् । ते । श्येनः । पदा । आ । अभरत् । तिरः । रजांसि । अस्पृतम् ।
पिब । इत् । अस्य । त्वम् । ईशिषे ॥
yám ǀ te ǀ śyenáḥ ǀ padā́ ǀ ā́ ǀ ábharat ǀ tiráḥ ǀ rájāṃsi ǀ áspṛtam ǀ
píba ǀ ít ǀ asya ǀ tvám ǀ īśiṣe ǁ
yam ǀ te ǀ śyenaḥ ǀ padā ǀ ā ǀ abharat ǀ tiraḥ ǀ rajāṃsi ǀ aspṛtam ǀ
piba ǀ it ǀ asya ǀ tvam ǀ īśiṣe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.082.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.02.04
- Maṇḍala · Anuvāka · Ṛk
- 08.09.018
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kusīdin Kāṇva
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.