Ṛk 8.19.35
Saṃhitā
यू॒यं रा॑जानः॒ कं चि॑च्चर्षणीसहः॒ क्षयं॑तं॒ मानु॑षाँ॒ अनु॑ ।
व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्त्स्यामेदृ॒तस्य॑ र॒थ्यः॑ ॥
यूयं राजानः कं चिच् चर्षणीसहः क्षयन्तम् मानुषां अनु |
वयं ते वो वरुण मित्रार्यमन् स्यामेद् ऋतस्य रथ्यः ||
yūyám rājānaḥ kám ciccarṣaṇīsahaḥ kṣáyantam mā́nuṣām̐ ánu ǀ
vayám té vo váruṇa mítrā́ryamantsyā́médṛtásya rathyáḥ ǁ
yūyaṃ rājānaḥ kaṃ cic carṣaṇīsahaḥ kṣayantam mānuṣāṃ anu |
vayaṃ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ ||
Padapāṭha
यू॒यम् । रा॒जा॒नः॒ । कम् । चि॒त् । च॒र्ष॒णि॒ऽस॒हः॒ । क्षय॑न्तम् । मानु॑षान् । अनु॑ ।
व॒यम् । ते । वः॒ । वरु॑ण । मित्र॑ । अर्य॑मन् । स्याम॑ । इत् । ऋ॒तस्य॑ । र॒थ्यः॑ ॥
यूयम् । राजानः । कम् । चित् । चर्षणिऽसहः । क्षयन्तम् । मानुषान् । अनु ।
वयम् । ते । वः । वरुण । मित्र । अर्यमन् । स्याम । इत् । ऋतस्य । रथ्यः ॥
yūyám ǀ rājānaḥ ǀ kám ǀ cit ǀ carṣaṇi-sahaḥ ǀ kṣáyantam ǀ mā́nuṣān ǀ ánu ǀ
vayám ǀ té ǀ vaḥ ǀ váruṇa ǀ mítra ǀ áryaman ǀ syā́ma ǀ ít ǀ ṛtásya ǀ rathyáḥ ǁ
yūyam ǀ rājānaḥ ǀ kam ǀ cit ǀ carṣaṇi-sahaḥ ǀ kṣayantam ǀ mānuṣān ǀ anu ǀ
vayam ǀ te ǀ vaḥ ǀ varuṇa ǀ mitra ǀ aryaman ǀ syāma ǀ it ǀ ṛtasya ǀ rathyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.019.35
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.35.05
- Maṇḍala · Anuvāka · Ṛk
- 08.03.145
- Devatā देवता
- 1-33: Agni; 34, 35: Ādityās; 36, 37: Trasadasyu’s Dānastuti
- Ṛṣi ऋषि
- Sobhari Kāṇva
- Chandas छन्दस्
- Satobṛhatī, Kakubh, Kakubh Alternating With Satobṛhatī, Dvipadā Virāj, Uṣṇih, Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.