Ṛk 8.19.6
Saṃhitā
तस्येदर्वं॑तो रंहयंत आ॒शव॒स्तस्य॑ द्यु॒म्नित॑मं॒ यशः॑ ।
न तमंहो॑ दे॒वकृ॑तं॒ कुत॑श्च॒न न मर्त्य॑कृतं नशत् ॥
तस्येद् अर्वन्तो रंहयन्त आशवस् तस्य द्युम्नितमं यशः |
न तम् अंहो देवकृतं कुतश् चन न मर्त्यकृतं नशत् ||
tásyédárvanto raṃhayanta āśávastásya dyumnítamam yáśaḥ ǀ
ná támáṃho devákṛtam kútaścaná ná mártyakṛtam naśat ǁ
tasyed arvanto raṃhayanta āśavas tasya dyumnitamaṃ yaśaḥ |
na tam aṃho devakṛtaṃ kutaś cana na martyakṛtaṃ naśat ||
Padapāṭha
तस्य॑ । इत् । अर्व॑न्तः । रं॒ह॒य॒न्ते॒ । आ॒शवः॑ । तस्य॑ । द्यु॒म्निऽत॑मम् । यशः॑ ।
न । तम् । अंहः॑ । दे॒वऽकृ॑तम् । कुतः॑ । च॒न । न । मर्त्य॑ऽकृतम् । न॒श॒त् ॥
तस्य । इत् । अर्वन्तः । रंहयन्ते । आशवः । तस्य । द्युम्निऽतमम् । यशः ।
न । तम् । अंहः । देवऽकृतम् । कुतः । चन । न । मर्त्यऽकृतम् । नशत् ॥
tásya ǀ ít ǀ árvantaḥ ǀ raṃhayante ǀ āśávaḥ ǀ tásya ǀ dyumní-tamam ǀ yáśaḥ ǀ
ná ǀ tám ǀ áṃhaḥ ǀ devá-kṛtam ǀ kútaḥ ǀ caná ǀ ná ǀ mártya-kṛtam ǀ naśat ǁ
tasya ǀ it ǀ arvantaḥ ǀ raṃhayante ǀ āśavaḥ ǀ tasya ǀ dyumni-tamam ǀ yaśaḥ ǀ
na ǀ tam ǀ aṃhaḥ ǀ deva-kṛtam ǀ kutaḥ ǀ cana ǀ na ǀ martya-kṛtam ǀ naśat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.019.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.30.01
- Maṇḍala · Anuvāka · Ṛk
- 08.03.116
- Devatā देवता
- 1-33: Agni; 34, 35: Ādityās; 36, 37: Trasadasyu’s Dānastuti
- Ṛṣi ऋषि
- Sobhari Kāṇva
- Chandas छन्दस्
- Satobṛhatī, Kakubh, Kakubh Alternating With Satobṛhatī, Dvipadā Virāj, Uṣṇih, Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.