Ṛk 8.74.10
Saṃhitā
अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिंद्रं॒ न सत्प॑तिं ।
यस्य॒ श्रवां॑सि॒ तूर्व॑थ॒ पन्यं॑पन्यं च कृ॒ष्टयः॑ ॥
अश्वम् इद् गां रथप्रां त्वेषम् इन्द्रं न सत्पतिम् |
यस्य श्रवांसि तूर्वथ पन्यम्-पन्यं च कृष्टयः ||
áśvamídgā́m rathaprā́m tveṣámíndram ná sátpatim ǀ
yásya śrávāṃsi tū́rvatha pányampanyam ca kṛṣṭáyaḥ ǁ
aśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim |
yasya śravāṃsi tūrvatha panyam-panyaṃ ca kṛṣṭayaḥ ||
Padapāṭha
अश्व॑म् । इत् । गाम् । र॒थ॒ऽप्राम् । त्वे॒षम् । इन्द्र॑म् । न । सत्ऽप॑तिम् ।
यस्य॑ । श्रवां॑सि । तूर्व॑थ । पन्य॑म्ऽपन्यम् । च॒ । कृ॒ष्टयः॑ ॥
अश्वम् । इत् । गाम् । रथऽप्राम् । त्वेषम् । इन्द्रम् । न । सत्ऽपतिम् ।
यस्य । श्रवांसि । तूर्वथ । पन्यम्ऽपन्यम् । च । कृष्टयः ॥
áśvam ǀ ít ǀ gā́m ǀ ratha-prā́m ǀ tveṣám ǀ índram ǀ ná ǀ sát-patim ǀ
yásya ǀ śrávāṃsi ǀ tū́rvatha ǀ pányam-panyam ǀ ca ǀ kṛṣṭáyaḥ ǁ
aśvam ǀ it ǀ gām ǀ ratha-prām ǀ tveṣam ǀ indram ǀ na ǀ sat-patim ǀ
yasya ǀ śravāṃsi ǀ tūrvatha ǀ panyam-panyam ǀ ca ǀ kṛṣṭayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.074.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.5.22.05
- Maṇḍala · Anuvāka · Ṛk
- 08.08.076
- Devatā देवता
- 1-12: Agni; 13-15: Śrutarvan Ārkṣya’s Dānastuti
- Ṛṣi ऋषि
- Gopavana Ātreya
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.