Ṛk 8.2.18
Saṃhitā
इ॒च्छंति॑ दे॒वाः सु॒न्वंतं॒ न स्वप्ना॑य स्पृहयंति ।
यंति॑ प्र॒माद॒मतं॑द्राः ॥
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति |
यन्ति प्रमादम् अतन्द्राः ||
icchánti devā́ḥ sunvántam ná svápnāya spṛhayanti ǀ
yánti pramā́damátandrāḥ ǁ
icchanti devāḥ sunvantaṃ na svapnāya spṛhayanti |
yanti pramādam atandrāḥ ||
Padapāṭha
इ॒च्छन्ति॑ । दे॒वाः । सु॒न्वन्त॑म् । न । स्वप्ना॑य । स्पृ॒ह॒य॒न्ति॒ ।
यन्ति॑ । प्र॒ऽमाद॑म् । अत॑न्द्राः ॥
इच्छन्ति । देवाः । सुन्वन्तम् । न । स्वप्नाय । स्पृहयन्ति ।
यन्ति । प्रऽमादम् । अतन्द्राः ॥
icchánti ǀ devā́ḥ ǀ sunvántam ǀ ná ǀ svápnāya ǀ spṛhayanti ǀ
yánti ǀ pra-mā́dam ǀ átandrāḥ ǁ
icchanti ǀ devāḥ ǀ sunvantam ǀ na ǀ svapnāya ǀ spṛhayanti ǀ
yanti ǀ pra-mādam ǀ atandrāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.002.18
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.7.20.03
- Maṇḍala · Anuvāka · Ṛk
- 08.01.052
- Devatā देवता
- 1-40: Indra; 41, 42: Vibhindu’s Dānastuti
- Ṛṣi ऋषि
- 1-40: Medhātithi Kāṇva; Priyamedha Āṅgirasa; 41, 42: Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.