Ṛk 8.91.6
Saṃhitā
अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्वं१॒॑ मम॑ ।
अथो॑ त॒तस्य॒ यच्छिरः॒ सर्वा॒ ता रो॑म॒शा कृ॑धि ॥
असौ च या न उर्वराद् इमां तन्वम् मम |
अथो ततस्य यच् छिरः सर्वा ता रोमशा कृधि ||
asáu ca yā́ na urvárā́dimā́m tanvám máma ǀ
átho tatásya yácchíraḥ sárvā tā́ romaśā́ kṛdhi ǁ
asau ca yā na urvarād imāṃ tanvam mama |
atho tatasya yac chiraḥ sarvā tā romaśā kṛdhi ||
Padapāṭha
अ॒सौ । च॒ । या । नः॒ । उ॒र्वरा॑ । आत् । इ॒माम् । त॒न्व॑म् । मम॑ ।
अथो॒ इति॑ । त॒तस्य॑ । यत् । शिरः॑ । सर्वा॑ । ता । रो॒म॒शा । कृ॒धि॒ ॥
असौ । च । या । नः । उर्वरा । आत् । इमाम् । तन्वम् । मम ।
अथो इति । ततस्य । यत् । शिरः । सर्वा । ता । रोमशा । कृधि ॥
asáu ǀ ca ǀ yā́ ǀ naḥ ǀ urvárā ǀ ā́t ǀ imā́m ǀ tanvám ǀ máma ǀ
átho íti ǀ tatásya ǀ yát ǀ śíraḥ ǀ sárvā ǀ tā́ ǀ romaśā́ ǀ kṛdhi ǁ
asau ǀ ca ǀ yā ǀ naḥ ǀ urvarā ǀ āt ǀ imām ǀ tanvam ǀ mama ǀ
atho iti ǀ tatasya ǀ yat ǀ śiraḥ ǀ sarvā ǀ tā ǀ romaśā ǀ kṛdhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.091.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.14.06
- Maṇḍala · Anuvāka · Ṛk
- 08.09.081
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Apāla Ātreyī
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.