Ṛk 8.91.4
Saṃhitā
कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त् ।
कु॒वित्प॑ति॒द्विषो॑ य॒तीरिंद्रे॑ण सं॒गमा॑महै ॥
कुविच् छकत् कुवित् करत् कुविन् नो वस्यसस् करत् |
कुवित् पतिद्विषो यतीर् इन्द्रेण संगमामहै ||
kuvícchákatkuvítkáratkuvínno vásyasaskárat ǀ
kuvítpatidvíṣo yatī́ríndreṇa saṃgámāmahai ǁ
kuvic chakat kuvit karat kuvin no vasyasas karat |
kuvit patidviṣo yatīr indreṇa saṃgamāmahai ||
Padapāṭha
कु॒वित् । शक॑त् । कु॒वित् । कर॑त् । कु॒वित् । नः॒ । वस्य॑सः । कर॑त् ।
कु॒वित् । प॒ति॒ऽद्विषः॑ । य॒तीः । इन्द्रे॑ण । स॒म्ऽगमा॑महै ॥
कुवित् । शकत् । कुवित् । करत् । कुवित् । नः । वस्यसः । करत् ।
कुवित् । पतिऽद्विषः । यतीः । इन्द्रेण । सम्ऽगमामहै ॥
kuvít ǀ śákat ǀ kuvít ǀ kárat ǀ kuvít ǀ naḥ ǀ vásyasaḥ ǀ kárat ǀ
kuvít ǀ pati-dvíṣaḥ ǀ yatī́ḥ ǀ índreṇa ǀ sam-gámāmahai ǁ
kuvit ǀ śakat ǀ kuvit ǀ karat ǀ kuvit ǀ naḥ ǀ vasyasaḥ ǀ karat ǀ
kuvit ǀ pati-dviṣaḥ ǀ yatīḥ ǀ indreṇa ǀ sam-gamāmahai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.091.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.14.04
- Maṇḍala · Anuvāka · Ṛk
- 08.09.079
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Apāla Ātreyī
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.