Ṛk 8.16.3
Saṃhitā
तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुं ।
म॒हो वा॒जिनं॑ स॒निभ्यः॑ ॥
तं सुष्टुत्या विवासे ज्येष्ठराजम् भरे कृत्नुम् |
महो वाजिनं सनिभ्यः ||
tám suṣṭutyā́ vivāse jyeṣṭharā́jam bháre kṛtnúm ǀ
mahó vājínam saníbhyaḥ ǁ
taṃ suṣṭutyā vivāse jyeṣṭharājam bhare kṛtnum |
maho vājinaṃ sanibhyaḥ ||
Padapāṭha
तम् । सु॒ऽस्तु॒त्या । आ । वि॒वा॒से॒ । ज्ये॒ष्ठ॒ऽराज॑म् । भरे॑ । कृ॒त्नुम् ।
म॒हः । वा॒जिन॑म् । स॒निऽभ्यः॑ ॥
तम् । सुऽस्तुत्या । आ । विवासे । ज्येष्ठऽराजम् । भरे । कृत्नुम् ।
महः । वाजिनम् । सनिऽभ्यः ॥
tám ǀ su-stutyā́ ǀ ā́ ǀ vivāse ǀ jyeṣṭha-rā́jam ǀ bháre ǀ kṛtnúm ǀ
maháḥ ǀ vājínam ǀ saní-bhyaḥ ǁ
tam ǀ su-stutyā ǀ ā ǀ vivāse ǀ jyeṣṭha-rājam ǀ bhare ǀ kṛtnum ǀ
mahaḥ ǀ vājinam ǀ sani-bhyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.016.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.20.03
- Maṇḍala · Anuvāka · Ṛk
- 08.03.064
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Irimbiṭhi Kāṇva
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.